________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् 525 न्यायकन्दली एव तस्यानुपपत्तिः। सा चैत्रस्य बहिर्भावे प्रतीते निवर्तते। चैत्रो जीवति गृहे च नास्ति बहिःसद्भावादिति सावकाशनिरवकाशयोः प्रमाणयोविरोधे सति निरवकाशस्यानुपपत्तिमुखेन सावकाशस्य विषयान्तरोपपादनात् तयोरविरोधापादनमर्थापत्तिः। या पुनर्देशादिनियतस्य सम्बन्धिनो दर्शनात् सम्बन्धस्मरणद्वारेण सम्बन्ध्यन्तरप्रतीतिः सानुमानमित्यनयोर्भेदो ज्ञानोदयप्रकारभेदात् / यथोक्तम् अन्वयाधीनजन्मत्वमनुमाने व्यवस्थितम् / . अर्थापत्तिरियं त्वन्या व्यतिरेकप्रतिनी // इति / तथा श्रुतार्थापत्तिरपि यत्रानुपपद्यमानः शब्दः शब्दान्तरं कल्पयति, यथा 'पीनो दिवा न भङक्ते' इति वाक्याद् रात्रौ भुङक्त इति 'वाक्यकल्पना। [टि०] नवकाशं गृहासत्वप्रतिपादकभाव प्रमाणमिति / 'अथ धूमादयोऽपि वह्नि विनाऽनुपपद्यमाना वह्नयादिकं गमयन्तीत्यनुमानमप्यर्थापत्तिरेवेति सिद्धान्तवादिनमाशङ्क्य परः प्राह 'या पुनर्देशादीति / व्यतिरेकप्रवर्तनीति भट्टमते पिं०] न हि जीवतो गहाभाव उपपद्यते / सावकाशस्येति (कं. 222.20) जीवत्सावस्य / विषयान्तरोपपादनादिति (कं, 222.20) अत्र विषयान्तरं बहिलक्षणं ज्ञेयम् / तयोर विरोधापादनमिति (कं. 222.20) भिन्नविषयतयाऽविरोधः / जीवत्यावस्य हि बहिःसद्भावो विषयः / अभावस्य तु गहासत्वविषयः / देशादिनियतस्येति (कं. 222.21) पर्वतादिनियतस्य / सम्बन्धि न इति (कं. 222.21) धुमादेः। सम्बन्धस्मरणद्वारेणेति (कं. 222.21) सम्बन्धः कार्यकारणभावादिलक्षणः / सम्बन्ध्यन्तरप्रतीतिरिति (कं. 222.21) अत्र सम्बन्ध्यन्तरं वह्निप्रकृतिकम् / अनयोरिति (कं. 222.22) अनुमानार्थापत्त्योः / व्यतिरेकप्रवर्तितीति (कं. 222.24) भट्टमते हि केवलव्यतिरेकी हेतुः पूर्वोक्तस्वरूपार्थापत्तिरेवेति / ततो यत्रान्वयमुखेन प्रवृत्तिस्तत्र तु व्यतिरेक एव तत्रार्थापत्तिः। पीन इति (कं. 222.26) देवदत्तादिः कर्ता। . [कु०] ननु जीवंश्चैत्रेत्यादेर्वाक्यादियमपि श्रुतार्थापत्तिरेवेत्यत आह - अत्राभावप्रमाणेनेति (कं. 222) - नायं परोक्तवाक्यानुवादः किन्तु स्वयमेव विमर्शप्रकार इत्यर्थः / जीवतीति (कं. 222) शृतेश्चेति (कं. २२२)जीवनस्य प्रमाणान्तरसिद्धत्वादित्यर्थः / ननु प्रमाणसिद्धकानामनुपपत्तिः अत आह न चैकत्रेति (स्येति) / ननु विरोधस्त_न्यतरदाध्यतामित्यत आह तदयमिति (कं. २२२)-उभयोरुपजीव्योपजीवकभावाभावेन तुल्यबलत्वात्बाध्यबाधक भाव इति भावः / तर्हि परस्परप्रतिघातादुभयोरप्यसाध्यध(त्व) (धकत्व? )मित्यत आह-अनुपपद्यमानश्चेति 1 धसाधन- कं. 1; कं. 2 / 2 श्रुतार्थापत्तिरपि-कं. 1, कं. 2; जे. 1, जे. 2 / 3 वाक्यैकदेश-कं. 1, कं.२। .. 4 अध-अ। 5 यो पुनर्देशाद् -अ। 6 रविरोधसाधन-कं. 1 / .