________________ 524 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् प्रशस्तपादभाष्यम् [190-191] दर्शनार्था'दर्थापत्तिविरोध्येव, श्रवणादनुमितानुमानम् / न्यायकन्दली [190] दृष्टः श्रुतो वार्थोऽन्यथा नोपपद्यत इत्यर्थान्तरकल्प'नेत्यर्थापत्तिः। श्रुतग्रहणस्य पृथगभिधानसाफल्यमुपपादयता परेणार्थापत्तिरुभयथोपपादिता दृष्टार्थापत्तिः, श्रुतार्थापत्तिश्च / यत्रार्थोऽन्यथानुपपद्यमानोऽर्थान्तरं गमयति, सा दृष्टार्थापत्तिः / यथा जीवति चैत्रो गृहे नास्तीत्यत्राभावप्रमाणेन गृहे चैत्रस्याभावः प्रतीतो जीवतीतिश्रुतेश्च तत्र सम्भवोऽपि प्रतीयते, जीवतो गृहावस्थानोपलम्भात् / न चैकस्य चैत्रादेः युगपदेकत्र भावाभावसम्भवः, तयोः 'सहानवस्थानविरोधात् / तदयमभावः प्रतीयमानो जीवतीति श्रवणानोपपद्यते / अनुपपद्यमानश्च यस्मिन् सति उपपद्यते तत्कल्पयति / जीवतो . ' गहाभावोऽन्यथा नोपपद्यते। यद्ययं बहिर्न भवतीति जीवतीत्यनेन सह विरोध [टि०] [190] ( // अथ अर्थापत्तिप्रमाणान्तर्भावनिरूपणम् // ) न चैकस्य युगपदेकत्र इति एकस्य द्रव्यस्येति ज्ञेयं तेन प्रदेशवृत्तेः संयोगस्यैकत्रवावयविनि भावाभाव'सम्भवेऽपि न विरोधः / सावकाशनिरवकाशयोः इति बहिर्गहे च सावकाश जीवतः सत्वप्रतिपादकं शब्दरूपं प्रमाण गहादन्यत्रा [पं०] [190] परेणेति (कं. 222.10) मीमांसकेन / सत्रेति (कं. 222.13) गृहे। विरोध एवेति (कं. 222.17) विरोधे सत्येवेत्यर्थः / तस्येति (कं. 222.17) अभावस्य / अनुपपत्तिरिति (कं. 222.17) य: किल जीवति स कथं गृहे न भवति ? / सावकाशनिरवकाशयोः प्रमाणयोरिति (कं. 222.19) जीवन्प्रतिपादकागमे गृहासत्वप्रतिपादके [प्र]माणमित्यर्थः / विरोधे सतीति (कं. 222.19) एकविषययोहिं सावकाशानवकाशयो: प्रमाणयोविरोधो भवति / अनुपपत्तिमुखेनेति (कं. 222.19) [कु०] [190] अर्थापत्त्यन्तर्भावपरं भाष्यमवतारयितुं परेषामर्थापत्तिलक्षणं पुरतो व्याचष्टे अर्थापत्तिरिति (कं. 222) / दृष्टा Vतेति (कं. 222) अत्र दृष्टशब्दस्य चाक्षुषज्ञानविषयपरत्वे इन्द्रियान्तरगृहीतस्यानुमितस्य वा ग्रहणप्रसंगा[त्] ज्ञानमात्रविषयपरत्वमप्युक्तम् / तत्र च शब्दगृहीतस्यापि तत एव सिद्धेः शि()तग्रहणस्य वैय्यर्थ्यमित्यत - आह शृतप्रहणस्येति (कं. 222) गृह्यत इति ग्रहणं श्रुतपदम् / तस्य पृथगभिधानं पृथगुच्चारणम् / ततश्च ब्राह्मणपरिव्राजकन्यायेनाधीयत आह श्रृतार्थापत्तेः कोऽपि विशेषोऽभिमत इत्यभिसंधिना उभयतोऽपि [प्रतिपादिताऽर्थापत्तिरिति भावः। तमेव विशेष दर्शयति यत्रार्थ इति (कं. २२२)-शब्द इति शेषः / एवमर्थांन्तरमित्यत्रापि शब्दान्तरमिति द्रष्टव्यम् / 1 अर्थापत्तिस्तदप्यनुमानमेव / विरोधिन्यैव शब्दश्रवणादन मितानुमानमेव इति न्या. (590-9) सम्म भाव्यपाठो भाति, दर्शनार्थापत्ति-दे। 2 कल्पनार्थापत्ति:-कं. 1, कं. 2 / 3 चैकस्य युगपदे-कं. 1, कं. 2; जे. 1, जे. 2 / 4 सहावत्थान-कं. 1, कं. 2 / 5 'यद्ययं बहिर्न भवतीति' इत्यधिकं-कं. 1; कं. 2 पुस्तकयोः। 6 संभवे-अ, ब / 7 गृहे क्व-अ।