________________ टिप्पणपञ्जिकाकुसुमोदगमादिटीकात्रयोपेतम् न्यायकन्दली यदपि गोसदशस्य गवयशब्दवाच्यत्वज्ञानं तदप्यनुमानम्, तत्र तच्छब्दप्रयोगात् / यः खलु शब्दो यत्राभियुक्तैरविगानेन प्रयुज्यते स तस्य वाचकः / प्रयुज्यते चारण्य' करविगानेम गोसदृशे गवयशब्द इति / तस्मात् सोऽपि गवयशब्दवाच्य एवेति सामान्येन ज्ञानमम्मानमेव / प्रत्यक्षे गवये सादृश्यज्ञानं त्रैलोक्यव्यावृत्त पिण्डबुद्धिरपि प्रत्यक्षफलम् / यच्च तद्गतत्वेन संज्ञासंज्ञिसम्बन्धानुसन्धानम्, तदपि सादृश्यग्रहणाभिव्यक्तपूर्वीपजाप्तसामान्यप्रवृत्तगोसदृशगवयशब्दवाच्यत्वज्ञानजमितसंस्कारनत्वादेकत्रोपजातसामाग्यविषयसकतज्ञानसंस्कारकृततज्जातीयपिण्डान्तरविषयतच्छन्दवाच्यत्वानुसन्धामवत् स्मरणमेव / एवं हि तदायमनुसन्धत्ते 'अस्यैव तन्मया 'पूर्वमेतच्छब्दवाच्यत्वमवगतम्' इत्युपमानाभावः / [टि०] इति-सामान्येनेति अयं स इति प्रत्यक्षेणामुपदर्शितसज्ञाविषयमित्यर्थः / एवमप्रत्यक्षे गवयेऽन्तर्भावमद्राव्येदानीं प्रत्यक्षे गवये उपदेशसहकृतं गोसादृश्यज्ञानं सज्ञासज्ञिसम्बन्धलक्षणायाः प्रमायाः करणं नोपमानं भवतीति वर्शयति प्रत्यक्षे गवये सादृश्येति :- त्रैलोक्यव्यावृत्तोऽयम साधारणः पिण्ड इति सझोल्लेखादर्वाङ्मतिर्भवतीत्येतदपि विकल्प्य दूषितम् / अथ प्रत्यक्षे गवये तत्पिण्डिविशेषनिष्ठतया सज्ञासञि'सम्बन्धज्ञानं फलरूपमन्तर्भावयति यच्च तद्गतत्वेन इति- तदपि स्मरणमेवेति सम्बन्धः / अत्र दृष्टान्त एकत्रोपजातसामान्यविषयेति // उपमानान्तर्भावः / [पं०] सादृश्यग्रहणाभिव्यक्तपूर्वोपजातसामान्यप्रवृत्तगोसदृशगवयशब्दवाच्यत्वज्ञानजनितसंस्कारजत्वात्स्मरणमेवेति पदयोजना / अत्रैव च पूर्वोपजातसामान्येति (कं. 222.5) सामान्यं खुरलाङ्गुलस्वादि / गोसदशगवयशब्वज्ञानेति (कं, 222.5) गोसदृशस्य यद्गवयशब्दवाच्यत्वज्ञानमिति समासः / एकत्रोपजातसामान्ये (कं. 222.6) त्यादि / अत्र सामान्यं गोसामान्यम् / एकत्रोपजातसामान्येत्यादिद्यैव योऽर्थः सोऽव्युत्पन्नेमकपिण्डग्रहणेत्यादिना (कं. 221.20) प्रागुक्तो व्रष्टव्यः / तच्छब्द इति (कं. 222.8) गोशब्दः / अयमिति (क. 222.7) [अ] ग्यनागरकः / अस्यवेति (कं. 222.8) गवयपिण्डस्यैव / [ro] गवि वनेचरवाक्यश्रवणसमनन्तरं गवयशम्दवाच्यत्वप्रतीत्यनुदयासदृश्य(श)तोपलक्षणत्वे निश्चिते पशुविशेषसादृश्योपलक्षणाम्यथानुपपत्त्या वा कवदृतयादि (?) बैलक्षण्येन व्युत्पत्त्या वा पशुविशेषवाचकत्वनिश्चयात्पशुत्वावान्तरसामान्यस्य निमित्ततया क्रोडीकारोऽप्यस्मिन्ननुमानेऽर्थसिद्ध इति भावः / प्रत्यक्ष गवय इति इन्द्रियसंबद्धे गवय इत्यर्थः / पिण्डबुद्धिरपीत्यपिशब्देन गवयस्वबुद्धिः, समुच्चीयते / नन्विति / ! )-[इदामी प्रत्यक्षीकृतगवयस्वे तन्निमित्तयाध्यमसौ गवयशब्दवाच्य इति ताव [संज्ञासंशिसम्बन्धजानम / कथं तम तच्छब्दप्रयोगरूपलिंगकार्यमित्यत आह यच्च तदिति (कं. 221) / सत्यमिदानीमयमसौ गवय इति ज्ञानं भवत्येव किंतु सा[तद]प्रमाणं भवति / स्मरणरूपत्वात् / स्मरणत्वं च संस्कारजत्वात् / अतः संस्कारोबोधक मिर्दिष्टं-सादृश्यग्रहणेति (कं. 221) / यस्तु पूर्वागसादृश्यं न ज्ञातं न च शब्वप्रवृत्तिनिमित्तं सादृश्यं, तावद्गुणावयक कमसामान्यात्मकं, तस्य तद्वदभिधायिशवप्रवृत्तिनिमित्तत्वशंकायां गुणादीनां तद्वत्तासहाभेदप्रसंगात्सप्तमस्य भावरूपस्य सादृश्यशब्दवाच्यस्य प्रमाणबाधायाः प्रागेव दर्शितत्वात् / इत्युपमानान्तर्भावः।। 1 ण्वकेना-के.१; कं.२। 2 पिण्डप्रतीतिरपि - जे. 1, जे.२। 3 पूर्वमेव तच्छब्द - कं.१: कं.२॥ 4 गवे-ड। 5 मसाधारणं-ड। 6 सम्बन्धाज्ञानं-अ, ब, क / 7 फलं-अ, ब / 8 भदृष्टान्त -अ, ब / , 9 ज्ञात-अ, ब, क /