________________ 522 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली इति चेत् ? भूयोऽवयवसामान्यान्येवोभयवृत्तित्वात् सादृश्यम् / तानि चेत् प्रत्येकमा'श्रयग्रहणेन गृहीतानि गृह्यन्ते, गृहीतमेव सादृश्यम् / तस्माद् गवयग्रहणे सत्यसग्निहितगोपिण्डाचलम्बिनी सादृश्यप्रतीतिः सदशवर्शनाभिव्यक्तसंस्कारजन्या स्मृतिरेव, न प्रमाणान्तरम् / दृष्टा च निर्विकल्पकगृहीतस्यापि स्मृतिविषयता, अव्युत्पन्नेनैकपिण्डग्रहणे प्रथममविकल्पितस्य सामान्यस्य पिण्डान्तरग्रहणे प्रत्यभिज्ञानात् / येऽपि श्रुतातिदेशवाक्यस्य गवय'दशिनो गोसादृश्यप्रतीत्या 'अस्य गवयशग्दो मामधेयम्' इति संज्ञासंज्ञिसम्बन्धप्रतीतिमुपमानमिच्छन्ति, तेषामपि यथा गौर्गवयस्तथेति वाक्यं तज्जनता च 'लोके यः खलु गवय इति श्रूयते स गोसदृशः' इति बुद्धिरागम एव / [fro] गवय इत्येवंरूपं तदर्थस्मरण'सहितं तत्सदृशोऽयमिति ज्ञानं प्रमायां करणमिति / सज्ञासज्ञासम्बन्धो विषयस्तज्ज्ञानं तु फलमिति / प्रथमं तावद् वाक्यश्रवणकाल एव गवये प्रत्यक्षे सज्ञासज्ञासम्बन्धज्ञान लक्षणायाः प्रमायाः करणं वाक्यं तदर्थश्चेति द्वयमप्यन्तर्भावयति तेषामपि यथा इति / शब्दस्यागमत्वं मुख्यं तदर्थस्य तु गोणमिति / 'अथ सञ्जासज्ञि सम्बन्धज्ञानरूपं फलमपि नोपमानमिति दर्शयति यदपि गोसदशस्य इति / तत्र तच्छब्दप्रयोगाद् इति-गोसदशो गवयशब्दवाच्य इति पक्षस्तत्र गो(गवय)शब्दप्रयोगादिति हेतुः। सामान्येन ज्ञानमनुमानमेव [पं०] अत्र वाक्यस्यागमत्वं मुख्यं तदर्थस्य तु गौणम् इति दृष्टव्यम् / तत्रेति (कं. 221.25) गवये / तच्छब्दप्रयोगाविति (कं. 221.25) गवयशब्दप्रयोगात् / सामान्येन ज्ञानमनुमानमेवेति (कं. 222.2) अत्र सामान्येनेति कोऽर्थः ? अयं स इति प्रत्यक्षेणानुपदर्शितविषयमित्यर्थः / अनुमानं हि सामान्यविषयमेव न विशेषविषयं धूमवत्वेन हि वह्निसामान्यं साध्यत न तु तस्य तापादयो विशेषाः / त्रैलोक्यव्यावृत्तपिण्ड प्रतीतिरिति (कं. 222.3) भसाधारणपिण्डप्रतीतिः / तद्गतत्वेनेति (कं. 222.4) गवयपिण्डगतत्वेन / सदपोत्यादि (कं. 222.4) गद्ये तदपि [कु०] मम्विदं संख्यायां समूहालंबनस्यैव ज्ञानस्य संस्कारकारणत्वोक्तया विरुद्धयत अत माह दृष्टा चेति (कं. 221) / क्वचिदेवमपि कार्यानुसारान्कल्पनीयं इतरथा कार्यस्याकस्मिकत्वप्रसंगादित्यर्थः / संप्रति मेष्टाधिकोपमानं शंकते वेऽपीति (कं. 221) अत्र वनेचरवाक्यश्रवणानन्तरं गवयस्य गवा सादृश्यशानमेकम् , विपिनं गतस्य प्रत्यक्षेण द्वितीयम् / तेनैवातव्यावस्यगवयपिंडझानं तनिमित्तकसज्ञानमिति / तत्र चरम फलं परिशिष्टयम् चतुष्टयं मिलितं करणमिति परस्य सिद्धान्तश्वरमस्य लैंगिकत्वप्रतिपादनेनैव यद्यपि निरस्तः तथापि दृष्टान्सतया पूर्वेषां यथायथं करणभेदमुस्कीतंयनन्त यति तेषामिति (कं. 221) / तत्र प्रथमस्य सादृश्यमानस्य वनेचरवाक्यं करणमित्याह यथा गौरिति (कं. 221) / संज्ञासंज्ञिसम्बन्धप्रतिपत्ते लैंगिकमाह यदपीति (कं. 221) तदप्यनुमानमिति (कं. 221) / (मिवातो? ) स्फूट विमतो गोसदृशो गवय सदृश (?) वाच्य इति प्रतिज्ञायाः दर्शितप्रायस्वाद् हेस्वादींश्चतुरावयवानाह तत्रेति ( ? ) / सिंहावलोकनन्यायेनोदाहरणस्थमविज्ञा (गा)मेनेति (कं. 221) हेतोविशेषणमनुसंगनीयम् / तम्चाविगानं वनेचरस्याप्तत्वमिति निश्चेयं दृष्टव्यम् / तच्चाप्तप्रत्य[य] युन्यमानमवयशब्दविषयत्वादिति हेत्वर्थ इति म वैय्यधिकरणम् / सामान्येन ज्ञानमिति गवांतरसादृश्यवाणि 1 माश्रयग्रहणे गृहीतानि -जे. 1; आश्रयग्रहणेन गृह्यन्ते। 2 दर्शने -क. 1; कं. 2 / 3 सहितं -अ, ब / 4 येप्रत्यक्षे-अ,ब,क। 5 लक्षणायाः करण-अ; लक्षणायाः प्रभायाः करण-ब, क / 6 अथा- अ, ब, क / 7 सम्बन्धरूपं -अ, ब, / 8 बुद्धिः-कं. 1 /