________________ टिप्पणपञ्जिकाकुसुमोदगमादिटीकात्रयोपेतम् 521 न्यायकन्दली प्रत्येक परिसमाप्त'त्वेऽपि सादृश्यस्य यद्यपि गवयग्रहणाभावाद् 'गवयसदृशोऽयमिति / गवि पूर्व प्रतीतिर्नासीत्, तथापि स्वाश्रयसन्निकर्षमात्रभाविनी सादृश्यप्रतीतिरुदितव / यथा प्रतियोग्यन्तराग्रहणात् तस्मादिदं दीर्घमिदं ह्रस्वमिति 'प्रत्ययाभावेऽपि स्वाश्रयप्रत्यासत्तिमात्रेण परिमाणस्य स्वरूपतो ग्रहणम् / कथमन्यथा देशान्तरगतः प्रतियोगिनं गृहीत्वा अस्मात् तद्दीर्घ ह्रस्वमिति चाध्य वस्यति / ___ यदि गवि पुरा सादृश्यमिन्द्रियापातमात्रेण न गृहीतम् ? सम्प्रत्यपि गवये न 'गृह्यते, गवयदर्शनादेव गव्येव च स्मरणमित्युभयनियमो न स्यादविशेषात् / यावतां खुरलाङ्गलित्वादिसामान्यानां गवि ग्रहणम्, तावतामेव गवयेऽपि ग्रहणात् स्मरणनियम [टि०] ननु निर्विकल्पेन गृहीतं कथं स्मर्यते इत्याह दृष्टा च इति - गोत्वव्युत्पत्तिरहितोऽप्येकं गोत्वं दृष्ट्वाऽन्यस्यां गवि गोत्वमिदमिति सञ्जामजानन्नपि तदेवात्रापि विद्यते इति जानात्येव / ___अथ नैयायिकमतमुपदर्य दूषयिष्यन्नाह येऽपि श्रुतातिदेशेत्यादि - प्रसिद्धस्यातिक्रमेण देशनं कथनमतिदेशः प्रसिद्धनाप्रसिद्धेस्य निरूपणम् / एतन्मते ह्यकृतसमयसञ्जासमभिव्याहृतवाक्यार्थस्मरणसध्रीचीनं गवयपिण्डस्थसादृश्य: 'ज्ञानं प्रमायां करणम् / अस्यार्थः गवयोऽयमित्यकृतसङ्केता या सञ्ज्ञा तयाऽभिव्याहृतं यद वाक्यं यथा गौस्तथा [पं०] येऽपीति (कं. 221.21) नयायिकाः / श्रुतातिदेशवाक्यस्येति (कं. 221.21) प्रसिद्धेन अप्रसिद्धस्य साधनमतिदेशः / यथा "गौस्तथा गवय इति (कं. 221.23) श्रुतमतिदेशवाक्यं येन सः तस्य / सज्ञासज्ञीति (कं. 221.23) गवयेति सज्ञा सञी तु गवयपिण्डः / तज्जनिता चे(कं. 221.23) त्यादि / तज्जनिता च बुद्धिरागम इति पदघटना। [कु०] नन्विदं प्रत्यक्षविरुद्धमित्यत आह - प्रत्येकमिति (कं. 221) / अपेक्षण(?)यान्तराभावात् सविकल्पकाभावेनानुपलम्भभ्रमोऽयं सत्यमेव निर्विकल्पोपलम्भ इत्यर्थः / सविकल्पककारणं दर्शयन् दृष्टान्तमाह -यथा प्रतियोगीति (कं. 221) / एवमनंगीकारे व्यवहितायां गवि गवयसादृश्यं दुर्ज्ञानमेवेत्यत आह - यदि गवीति (कं. 221), उभयनियमो न स्यादिति (कं. 221) / उभयोरपि सहाग्रहणे परस्परसादृश्यं नाचेक्षतेत्यर्थः / अनुपलब्धगवये न गव्युपलभ्यमानायां प्रतियोगिस्मरणाभावात् सादृश्यं न गृहीतम्। संप्रति तु गोसम्बन्ध्यवयवसामान्यदर्शनात् प्रतियोगिन्याया गोस्मरणमिति विशेष इति शंकते-यावतामिति (क. 221) / एवं तहि अवयवसामान्यव्यतिरेकेण सादृश्यकल्पनायां कल्पनागौरवमित्याशयवान्परिहरति भयोवयवेति (कं. 221) / एवं पूर्वमेव गृहीतं सारूप्यं तत्स्मृतिश्च, सामग्रीभावादिति दर्शयनुपसंहरति तस्मादिति (कं. 221) / 1 त्वे च - जे. 1, जे. 2, जे. 3 / 2 सादृश्यं - कं. 1, कं. 2 / 3 गवयसदृश इति - कं. 1, कं. 2 / 4 उचितव-कं. 1; कं. 2 / 5 प्रतीत्य-कं. 1; कं.२। 6 अध्यवस्येत-जे. 3; व्यवस्यति-कं. 1; कं. 2 / 7 गृह्यते - कं. 1; कं. 2; जे. 1, जे.२। 8 विकल्पेन-अ, ब; निर्विकल्पकेन-ड। 9 ज्ञानप्रभायां-अ, ब / 10 सङ्केतायां सज्ञा तया-अ; सङ्केतया सज्ञा तया-ब। 11 गौगवयस्तया-कं.१।