________________ न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली ये तावत् पूर्वमीमांसका वनेचरवचनमेवोपमानमाहुः, तेषामिदमनुमानमेव / 'येऽपि शबरस्वामिशिष्या अनुभूतस्य गोपिण्डस्य वने गवयदर्शनात् स्मृत्यारूढायां गवि 'मदीया गौरनेन सदृशी' इति सारूप्यज्ञानमुपमानमाचक्षते, तदपि स्मरणमेव / सादृश्यं हि सामान्यवत् प्रत्येक व्यक्तिसमाप्तं न संयोगवदुभयत्र व्यासज्य वर्तते, गोपिण्डस्यादर्शनेऽपि वने गवयव्यक्तौ गोसदृशोऽयमिति प्रतीत्युत्पादात् / यथोक्तं मीमांसागुरुभिः-- सामान्यवच्च सादृश्यमेककत्र समाप्यते।। प्रतियोगिन्यदृष्टेऽपि यस्मात् तदुपलभ्यते // इति / [टि०] व्यक्तिषु वर्तते तथा सादृश्यमपीति तस्मात्प्रत्येक व्यक्तिसमाप्तिः / '[एककव्यक्तिग्रहणाधीनं ग्रहणमर्थो ज्ञेयः / संयोगेप्युभयत्र ग्यासक्तिरुभयसम्बन्धिग्रहणाधीनं ग्रहणमित्यर्थो व्याख्येयः / ] 'एककव्यक्तिसमाप्तिमेव स्पष्टयति गोपिण्डस्य इति-तदानीं वने गोरभावाददर्शनम् / तथापि स्वाश्रयसन्निकर्षेति-प्रतीतिर्जाता 'केवलं तु न विकल्पितेति भावः / यदि त्वेकैकव्यक्तिनिष्टं न गृह्यते तदा बाधकमाह यदि गवि पुरा इत्यादि / 'सदृशदर्शनाभिव्यक्तेति - गवा सदशो गवयस्तस्य दर्शनेना'भिव्यक्तीकृतो यः संस्कारस्तज्जन्या। [पं०] स्वाश्रयेत्यादि (कं. 221.9) स्वाश्रयो गोपिण्डः / प्रतियोग्यन्तराग्रहणादिति (कं. 221.10) यदपेक्षया ह्रस्वत्वं दीर्घत्वं च तत्प्रतियोग्यन्तरम् / स्वाश्रयप्रत्यासत्तिमात्रेण (कं. 221.10) * इत्यत्र स्वाश्रयः परिमाणाश्रयः / स्वरूपतो ग्रहणमिति (कं. 221.11) पुनरिदं दीर्घमिदं ह्रस्वमिति ग्रहणं प्रतियोगिनस्तदानीम् व्याप्यग्रहणात् / / यदि त्वेककव्यक्तिनिष्ठं सादृश्यं न गृह्यते तदाबाधकमाह - यदीत्यादि (कं. 221.13) / इन्द्रियापातमात्रेणेति (कं. 221.16) अनेन निर्विकल्पं सूचयति / न गृहीत (कं. 221.13) मित्यत. पुरस्तदेत्यध्याहार्यम् / सम्प्रत्यपि गवये न गृह्यते (कं. 221.13) इत्यतः पुर[स्त] थेत्यध्याहार्यम् / अविशेषादिति (कं. 221.15) गोसदृशं यदि न गहीतं तदा अग्रहणाविशेषात्महिषाश्वादिस्मरणमपि कुतो न भवतीत्यर्थः / परवाक्यं यावतामित्यादि (कं. 221.15) / अत्र प्रत्येकमिति (क. 221.17) एकैकमवयवं प्रति / आश्रयग्रहणेनेति (कं. 221.17) गोपिण्डग्रहणेन / आश्रयग्रहणेन प्रत्येकं गृहीतानीत्येवं पदघटना। "गहीतानीत्यस्मात्पुरस्तदेत्यध्याहार्यम् / न प्रमाणान्तरमिति (कं. 221.19) न उपमानाख्यं प्रमाणमित्यर्थः / नन निर्विकल्पकेन गहीतं कथं स्मयते इत्याह-दृष्टा चे (कं. २२१.१९)त्यादि / [कु०] ननूभयनिरूपणाधीननिरूपणस्य सादृश्यस्य पूर्वमननुभवात्कथमिदं स्मरणमित्यत आह-सादृश्यं हीति (कं. 221) संयोगिवदेकत्रापरिसमाप्ती हि उभयनिरूपणाधीननिरूपणत्वमित्यर्थः / नत्वेतदेव / कुत इत्यत आह-गोपिंडस्येति (कं. २२१)-न हि व्यासज्यवृत्ति: संयोगादिभिरन्यतरादर्शने प्रतीयत इत्यर्थः / उक्तमर्थ परकीयाभियुक्तवाक्येन दृढयति - यथोक्तमिति (कं. 221) / . 1 ये च - जे. 1 / 2 वतीति--अ। 3 [ ] एतच्चिह्नान्तर्गतः पाठः अबक पुस्तकेषु नास्ति। 4 प्रत्येक-ड / 5 इदानीं च ते गोरभाव...अ,ब। 6 यदापि - अ, ब, क / 7 केवलं-॥ 8 सदशदर्शनेनाभिव्यक्तेति-ब। 9 नापिव्यक्ती-अ। 10 'गृहीतानि' इति कं.१ पुस्तके नास्ति /