________________ टिप्पणपञ्जिकाकुसुमोद्गमाविढीकात्रयोपेतम् 519 प्रशस्तपादभाष्यम् [189] आप्तेना प्रसिद्धस्य गवयस्य गवा गवयप्रतिपादनादुपमानमाप्तवचनमेव / __ न्यायकन्दली [189] उपमानस्यानुमानेऽन्तर्भावं कुर्वन्नाह-आप्तेना'प्रसिद्धस्य गवयस्य गवा गवयप्रतिपादनादुपमानमाप्तवचनमेव / आप्तिः साक्षादर्थस्य प्राप्तिः यथार्थोपलम्भः, तया वर्तते इत्याप्तः साक्षात्कृतधर्मा 'यथादृष्टस्यार्थस्य चिख्यापयिषया 'प्रयुक्तोपदेष्टा, तेनाप्तेन वनेचरेण विदितगवयेना प्रसिद्धगवयस्याज्ञातगवयस्य नागरिकस्य कीदग्गवय इति पृच्छतो गवा गोसारूप्येण गवयस्य प्रतिपावनापमानं यथा गौर्गवयस्तथेति वाक्यमाप्तवचनमेव, . वक्तृप्रामाण्यादेव 'तत्रार्थप्रतीतः। भाप्तवचनं चानुमानम् / तस्मावुपमानमप्यनुमानाव्यतिरिक्तमित्यभिप्रायः / [टि०] ( // अथ उपमानान्तर्भावनिरूपणम / [189] आप्तिः साक्षाद् इति साक्षादिति द्रढतरप्रमाणोपलक्षणार्थ सेनानुमामेऽप्यर्थप्राप्तिराप्तिः साम्स्यास्तीति 'अभ्राद्यच / जरन्मीमांसकमतोपमानमुपदान्तर्भावयति ये तावत्पूर्वेति / येऽपि शबरस्वामीति - 'एतेषां मते गवये सारूप्यदर्शनं करणं "स्वकीयगोसादृश्यं (श्य) "विषयस्तद् विज्ञानं प्रमाणफलम् / नन सादृश्यं संयोग"वदुभयनिष्ठं नकस्यां गवि दृष्टायां गवयाग्रहणे गृहीतमिति कथं तस्य स्मरणमित्यत भाह सादृश्यं हि इति यथा सामान्यं सर्वासु [पं०] [सा]दृश्यं हीत्यादि (कं. 221.2) एककव्यक्ति ग्रहणाधीनं सादृश्यं संयोगस्तु उभयसम्बन्धि ग्रहणाधीन इति वाक्यार्थः / प्रत्येकव्यक्तिसमाप्तिमेव स्पष्टयति गोपिण्डस्येत्या (कं. 221.4) दिना / अदर्शनेऽपीति (कं. 221.4) न हि तदा दृष्टा वने गोपिण्डं पश्यन्नति एकैकत्रे [ति] ( कं. 221.6 ) प्रतिव्यक्तिप्रतिगोपिण्डलक्षणे। तदिति (कं. 221.7) सादृश्यम् / कि०] [189] इह केचिद्य या गौस्तथा गवय इति वनेचरवाक्याद् गवयस्य गवा यत्सादृश्यं प्रतीयते तदेवोपमानस्य विषय इति मत्वा तत्प्रतीतिकरणं बनेचरवचनमेवोपमानमित्याचक्षते / तच्च प्रागुक्तन्यायेनानुमानान्तर्गतमित्येवंपरतया भाष्यमवतार्य व्याचष्टे- उपमानस्येत्यादिनाऽनुमानमेवेत्यन्तेन / अत्र गोसारूप्येणेति (कं. 220) प्रकृत्यादिभ्य उपसंख्यानमिति तृतीया। सादृश्यस्य स्वज्ञानं प्रति अनुपपत्तेः / येत्विति (?) / अस्मिन् सादर (श्यो) पमाने वनेचरवाक्यभावात्तद्वारेणानुमानान्तर्भावो दुर्वचन इति भावः / तदिदं प्रमाणमेव न भवति / ततोऽन्तर्भावः चिन्तनीय इत्याह तबपीति (कं. 221) / 1 -प्रसिद्धगवयस्य-दे। 2 प्रसिद्धगवयस्स-जे. 1, जे. 2, जे. 3 / 3 यथार्थ-कं. 1, कं. 2 / 4 प्रयोक्ता -कं. 1, कं. 2 / 5 प्रसिद्धगवयस्य नागरिकस्य -जे. 1, जे. 2 / 6 तथा प्रतीते:-कं. 1, कं. 2; भथ प्रतीते: -जे. 1; जे. 2 / 7 अत्राद्य च-अ, ब / 8 ये-अ, ब, क। 9 एषां- अ, ब, क / 10 स्वकीयं-अ, ब,क / 11 विषयविज्ञान-अ, ब, क / 12 तदुभयनिष्ठं-अ, ब, क /