________________ 518 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् प्रशस्तपादभाष्यम् [188] प्रसिद्धाभिनयस्य चेष्टया प्रतिपत्तिदर्शनात् तदप्यनुमानमेव / . नमव। न्यायकन्दली [188] हस्तस्यावाङमुखाकुञ्चनादाह्वानं प्रतीयते, पराङमुखो क्षेपणाच्च विसर्जनप्रतीतिर्भवति, एतत्प्रमाणान्तरमिच्छन्ति केचित् / तान् प्रत्याह-प्रसिद्धाभिनयस्येति / . कराकुञ्चनाविलक्षणोऽभिनयोऽनेनाभिप्रायेण क्रियत इत्येवं यत्पुरुषस्य प्रसिद्धोऽभिनयः, तस्य चेष्टया करविन्यासेनाह्वानविसर्जनादिप्रतीतिर्दृश्यते नान्यस्य, अतस्तदपि चेष्टया ज्ञानमनुमानमेव। [टि०] ( // अथ चेष्टान्तर्भावनिरूपणम् / / ) . [188] 'चेष्टाऽनुमानमेव इतिः- इयं चेष्टा एवंविधार्थाव्यभिचारिणी, "एवं समये एवंविधपुरुषेण क्रियमाणचेष्टात्वाद्, 'मदीयचेष्टावत् ; अथवा विवादाध्यासितः पुमान आवर्जनविसर्जनाभिप्रायवान्, एवंविधाकुञ्जनादिमत्त्वात् यथाऽहमिति // चेष्टान्तर्भावः / / [पं०] [188-189] गवा इति (कं. 220.23) व्याख्येयपदं गोसारूप्येण (कं. 220.23) इति व्याख्यानपदम् / पूर्वमीमांसका इति (कं. 220.26) / [कु०] [188] चेष्टायाः पृथक् प्रमाणमाशंकते हस्तस्येति (कं. २२०)-यदाभिमुख्येन हस्ताकुञ्चनं क्रियते तत्कृतिव्याप्यमाकुञ्चनं तदभिगमनविधेयतया प्रतीयते, [त] दाभिमुखेन हस्तस्य पराङ्गमुखात् क्षेपणं क्रियते, तत्कृतिव्याप्यमुत्क्षेपणं कत्त्वपेक्षया दूरदेशगमनं च तथा प्रतीयते / तदेतादृशहस्तकर्मतादृशमर्थविशेष प्रतिपादनप्रमाणम् / न चेन्द्रियसंबन्धाभावादनुमानम् / अतः पृत(थ)गेतत्प्रमाणमित्यर्थः / कराकुश्चनादीति (कं. 220) यत्र चेष्टायां संकेतविशेषणार्थप्रतिपत्तिः, सा शब्द इवाभिप्रायावच्छेदकमनुमापयतीत्यनुमानमेव / एवं च प्रयोगः- अयं पुरुषो मम स्वसमीपदेशप्राप्ति विधेयतया विति, मवाभिमुख्येन विशिष्टांगुलिविन्यासवत्त्वात् / यो यदाभिमुख्येन विशिष्टांगुलिन्यासवान् तस्य स्वसमीपदेशप्राप्ति विधत्ते / यथाऽहम् / एवं विसर्जनेऽपि द्रष्टव्यमित्यर्थः / 1 मधोमुखा-जे. / / 2 उत्क्षेपाच्च - जे. 1, जे. 2, जे. 3 / 3 चेष्ट्या ज्ञानमनमानमेव मु. 4 धवंविधा - अ, ब। 5 चेष्टात्ववित् चेष्टावत्-म, च।