________________ टिप्पणपञ्जिकाकुसुमोगमाविटीकात्रयोपेतम् 517 न्यायकन्दली गुणादेव प्रामाण्यम् / अस्तु वा गुणस्य दोषाभावे व्यापारस्तथापि परतः प्रामाण्यं न हीयते, तदुत्पत्ती सर्वत्र कारणस्वभावव्यतिरिक्तस्य दोषाभावस्याप्यन्वयव्यतिरेकाभ्यां सामर्थ्यावधारणात् / 'दोषाभावाद्विपर्ययाभावः, प्रामाण्यं त्विन्द्रियादिस्वरूपमात्राधीनमिति चेत् ? दोषः प्रामाण्योत्पत्तिः प्रतिबध्यते, विपर्ययः पुनरिन्द्रियादिस्वरूपा'धीन एवेति कस्मान्न कल्प्यते ? दोषान्वयव्यतिरेकानुविधायित्वाद्विपर्ययस्य नैवं कल्पनेति चेत् ? प्रामाण्यस्यापि दोषाभावान्वयव्यतिरेकानुविधायित्वदर्शनान्न तत्कल्पनेति समानम् / नहि तदस्ति प्रमाणं यद्दोषाणां प्रागभावं प्रध्वंसाभावं नापेक्षते। एवं 'प्रवृत्त्यादिकार्यजननव्यापारोऽपि प्रमाणस्य परत एव न स्वरूपमात्राधीनः, उपकारापकारादिसापेक्षस्य प्रवृत्त्यादिकार्यजनकत्वादित्येषा दिक् / [टि०] स्यात् कारणगताद् बोधरूपतामात्रलक्षणाद विशेषा[दर्थविशेषनियमलक्षणाया] विशेषसिद्धरभावात् कारणगतविशेषस्यैव कार्यविशेषहेतुत्वादिति भावः / दोषैः प्रामाण्योत्पत्तिः इति अप्रामाण्यमपि स्वतः किन्न कल्प्यते इति भावः / न हि तदस्ति प्रमाणम् इति नन भावरूपकारणापेक्षया स्वतो जायत इत्युच्यते तदत्रास्त्येवेति / नवम्, अभावरूपाणामपि दोषाणां सम्भवात्तेषामभावस्य भावरूपत्वात् / :: अथ तृतीयं विकल्पं निराचष्टे एवं व्यापारोऽपि इति -प्रामाण्यं स्वतो व्याप्रियते इति तृतीयस्य विकल्पस्यायमर्थः, प्रमाणमत्पन्नं सत् कारणानपेक्षं प्रमातुः प्रवृत्तिनिवृत्त्यादिकं व्यापार जनयतीति तन्नास्ति, अस्मृतवस्तू पकारापकारस्य ज्ञानमात्रादेवाप्रवृत्तरूपकारापकारस्मरणस्य ज्ञानातिरिक्तस्य व्यापारेणापेक्षणीयत्वात् / अनुमाने तु प्रमा ज्ञानमात्रहेत्वतिरिक्तहेतुजन्या, कार्यत्वे सति ज्ञान"विशेषत्वात् अप्रमावत् / अत्र ईश्वरज्ञानव्यवच्छेदार्थ कार्यत्वे सतीत्युक्तम् / तथा प्रामाण्यं परतो ज्ञायतेऽनभ्यासदशायां सांशयिकत्वाद् अप्रमाणवत् // इति शब्दान्तर्भावः // पिं०] त्यत्र तदिति ज्ञानम् / तस्येति (कं. 219.24) वाक्यस्य / गुणादेवेति (क. 219.24) याथार्थ्यादेव / दोषाभावे इति (कं. 2.19.24) दोषाभावे एव / परतः प्रामाण्यं न हीयते इति (कं. 219.25) दोषाभावस्यैव परत्वात् / परवाक्यं दोषाभावादित्यादि (कं. 220.2) / ज्ञानस्याप्रामाण्यमपि स्वतः किन्न कल्प्यते इति परं प्रति चोदयन्नाह दोषः प्रामाण्योत्पत्तिः प्रतिबध्यते (कं. 220.3) इत्यादि। यापि प्रामाण्योत्पत्तिः प्रतिहन्यते न तु विपर्ययः क्रियते, विपर्ययः पुनरिन्द्रियमन स्वरूपाधीन एवेति कस्मान्न कल्प्यते इति वाक्यार्थः / "न तत्कल्पनेति (कं. 220.4) - इन्द्रियादिस्वरूपमात्राधीनत्वकल्पना न प्रामाण्यस्याभिमतेत्यर्थः / यहोषाणां प्रागभावं प्रध्वंसाभावं नापेक्षते (कं. 220.6) इति दोषेष्वनुपगतेषूपगतेषु वा प्रामाण्य मिति भावः / किं वा स्वतो व्याप्रियते' इत्येतं तृतीयविकल्प चर्चयति "एवं व्यापारोपीत्यादिना (कं. 220.7) / परत एवेति - यदुक्तं किं सत्परमित्याह उपकारेत्यादि (कं. 220.8) / प्रवृत्यादीति (कं. 220.8) उपकारस्मरणे प्रवृत्तिः अपकारस्मरण निवृत्तिः / "प्रयुक्त इति प्रेरितः। 1 दोषाभावाच्च-जे.३। २धीन इति-कं. 1; कं.२; जे.३। 3 एवं व्यापारोपि-जे. 1, जे. 2, जे. 3 / 4 लक्षणादर्थविशेषः - क; [ ] एतचिह्नान्तर्गत: पाठ: अ, ब,पुस्तकयो स्ति। 5 तदत्राप्यस्त्येव - अ, ब; तदत्रास्त्येव-क। 6 एवं प्रवृत्यादिकार्यजननव्यापारोऽपि मु. एवं व्यापारोऽपि-जे. 1, जे. 2, जे.३। 7 तृतीयअ, ब, क। 8 स्तूपकारोपकारस्य-क। 9 पक्षणीयत्वात्- अ, ब / 10 विशेषात्-अ, ब / . 11 नवं कल्पना -कं.१। 12 एवं प्रवृत्त्यादिकार्यजननव्यापारोऽपि-कं.१। 13 प्रतीकमिदं कं. 1 पुस्तके नास्ति / ..