________________ न्यायकन्दलीसंवलितप्रशस्तपादभाष्यत्र न्यायकन्दली शब्दस्य च गुणात् प्रामाण्ये ज्ञानान्तराणामपि तथैव स्यात् / विवादाध्यासितानि विज्ञानानि कारणगुणाधीनप्रामाण्यानि प्रमाणज्ञानत्वाच्छब्दाधीनप्रमाणज्ञानवत् / शब्देऽपि कारणगुणस्य बोषाभावे व्यापारो न प्रामाण्योत्पत्ताविति चेत् ? न, गुगेन दोषप्रतिबन्धाद् दोषकार्यस्यायथार्थत्वस्योत्पत्तिर्मा भूत्, यथार्थत्वोत्पादस्तु कुतः ? कारणाभावे हि 'कार्याभावो न तु विपरीतस्य कार्यस्य भावः / ज्ञानस्वरूपमात्रादिति चेत् ? न, तस्याविशेषात् / अर्थसम्बन्धो हि ज्ञानस्य विशेषः, स चेद्दोषप्रतिबन्धमात्रोपक्षीणत्वाद्यथार्थतोत्पत्तावनङ्गम्, स्वरूपस्याविशेषाद् नार्थविशेषनियतं वाक्यं स्यादविशेषाद्विशेषसिद्धेरभावात् / अथ यदर्थविषयं ज्ञानं तदर्थविषयमेव तद् वाक्यं जनयतीति, तदा ज्ञानस्य यथार्थतैव वाक्यस्य यथार्थताहेतुः, न बोधरूपतामात्रमित्यायांतं तस्य . [टि०] वाक्यस्य प्रामाण्यावधारणं मिथ्यार्थस्य वाक्यस्य सर्वथाऽभावप्रसङ्गात् / तस्मात्प्रमाणभूतबक्तृज्ञानपूर्वकं यद्वाक्यं तस्यैव प्रामाण्यमिति यथार्थत्वस्य वक्तृज्ञानगुणस्यापि कारणत्वं सिद्धमिति भावः / कारणगुणाधीनत्वस्य दृष्टान्तेऽसिद्धिमाशङ्कते शब्देऽपि कारणगुणस्येति / अत्र च दृष्टान्तः 'साध्यविकलत्वाद् विपक्षः तत्र हेतोर्गमनाद् "विरुद्धो. हेत्वाभासः / अर्थसम्बन्धो हि इति-बोधमात्रे हि ज्ञानस्य 'स्वरूपं प्रतिनियतार्थसम्बन्धश्च विशेषः / स यदि विशेषः / प्रतिनियतार्थसम्बन्धलक्षणो गुणो दोषप्रतिबन्धमात्रमेव करोति अन्यत्र तु प्रामाण्योत्पत्त्यादावकिञ्चित्करस्तदा ... स्वरूपमात्रस्य ज्ञानरूपता मात्रस्याविशिष्टत्वात् 'तत्पूर्वके वाक्ये इदं घटनियतमिदं पटनियतमित्यर्थ विशेषनियमो न / [पं०] "यथार्थतोत्पादस्तु कुत इति (कं. 219.18) यथार्थोत्पादस्तु भवन्मते कुतः सिध्यतीत्यर्थः / विपरीतस्येति (कं. 219.19) यथार्थत्वस्य / ज्ञानस्वरूपमात्रादिति (कं.२१९.१९) ज्ञानस्य स्वरूपादेव केवलाद्यथार्थतोत्पादो न तु गुणादिति भावः / श्रीधर: प्राह न तस्याविशेषादिति (कं. 219.20) ज्ञानस्वरूपमात्रं यथार्थत्वेऽयथार्थत्वे वा विशिष्टम् , बोधमात्र हि ज्ञानस्य स्वरूपं प्रतिनियतार्थसम्बन्धश्च विशेष्यः। स यदि विशेष: प्रतिनियतार्थसम्बन्धलक्षणो दोषप्रतिबन्धमात्रमेव करोति अन्यत्र प्रमाणोत्पत्यादावकिञ्चित्करस्तदा स्वरूपमात्रस्य ज्ञानस्वरूपतामात्रस्याऽविशिष्टत्वात्तत्पूर्वके वाक्ये 'इदं घटनियतम', 'इदं पटनियतं' इत्यविशेषनियमो न स्यात् / कारणगताद् बोधरूपत्वमात्र लक्षणादविशेषादर्थविशेषनियमलक्षणाया विशेषसिद्धेरभावात, कारणगतविशेषस्यैव कार्यविशेषहेतुत्वादिति भावः / तस्या विशेषादिति यदुक्तं तदेव विवृणोति अर्थसम्बन्धो हि (कं. 219.20) इत्यादिना / विशेष इति (कं. 219.20) गुणः / अर्थविशेषनिपतमिति (कं. 219.22) इदमेवेत्येव "नियमितार्थप्रतिबद्धम् / तदवाक्यं जनयती (कं. 219.23) [कु०] अस्त्वेवं जिज्ञासायां प्रामाण्यग्रहणादनवस्थाभावः। तत्र प्रामाण्यग्राहकस्य प्रवृत्तिसामर्थ्यलिंगस्य व्याप्तिग्रहणं न संभवतीत्याशयेन चोदयति यदे(दी)ति भाष्यमवतारयितुम् / 1 कार्यस्याभावो-जे.१, जे. 2 / 2 भाव:-कं. 1; कं. 2 / 3 वाक्यं-कं.१; क. 2 / 4 साधनविकलत्वाद् - अ, ब, क / 5 विरुद्धा हेत्वाभासा:-अ, ब / 6 बोधमात्रे - अ, ब / 7 स्वरूपे - अ, ब। 8 मात्रस्य विशिष्टत्वात् -क। 9 पूर्ववाक्ये - अ, ब, क। 10 यथार्थत्वो-कं. 1 / 11 नियतार्थप्रसिद्धम् - ब / 12 वाक्यं जनयति - कं. 1 / /