________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् न्यायकन्दली प्रामाण्यम् / एतदप्यसत् / यदि ह्यन्यनानतिरिक्तज्ञानोत्पादिकैव सामग्री प्रामाण्ये कारणम्, विपर्ययज्ञानं कुतः ? यथार्थज्ञानजननं कारणानां स्वभावः, स यदा बोषः प्रच्याव्यते तदा तान्ययथार्थज्ञानं जनयन्ति, यदा तु स्वभावप्रच्युतिहेतवो दोषा न भवन्ति, तदा तेषां यथार्थज्ञानजननमेव स्वभावो व्यवतिष्ठत इति चेत्? तत् किं वक्तृज्ञानमात्रादेव तत्पूर्वके वाक्ये यथार्थतोत्पादः ? 'नन्वेवं सति सर्वमेव वाक्यमवितथं स्यात् / अथ प्रमाणज्ञानाद्वाक्ये 'यथार्थतोत्पादः ? न तहि कारणस्वरूपमात्रात् प्रामाण्यमपि तु तद्गुणात् / शब्दस्य कारणमर्थज्ञानम्, तस्य गुणो यथार्थत्वम् / अयथार्थत्वं च दोषः / 'तत्र यथार्थताया वाक्यप्रामाण्यहेतुत्वे कारणगुणादेव तस्य प्रामाण्यम्, न स्वरूपमात्रात् / [टि०] स्वतः स्वस्माद् ज्ञानस्वरूपादेव ज्ञानस्य प्रामाण्यं जायते इत्यमर्थस्तदा घटते यदा ज्ञानं पूर्वमुत्पद्य पश्चात्स्वयमेव स्वात्मनि यथार्थपरिच्छेदकत्वं प्रामाण्यमुत्पादयति न पुनरेवमनुभूयते इति दर्शयति यथार्थावबोधस्वभावस्यैव इति.-स्वीयात्कारणादुत्पत्तिदृश्यते न तु स्वस्मात् ज्ञानस्वरूपादित्यर्थः / अथ परमाशङ्कने 'यथार्थज्ञानजननमिति एतेन दोषाणामपि ययार्थज्ञानजननलक्षणकारणस्वभावप्रच्यावनद्वारेण मिथ्याज्ञानोत्पत्ती सहकारित्वात् अप्रामाण्यं परत उत्पद्यते प्रामाण्यं तु ज्ञानसामग्रीत एवेति पर सिद्धान्तो दर्शितः / अथ गुणानामपि प्रामाण्योत्पत्तो कारणत्वं सिषाधयिषुदृष्टान्तार्थ वाक्यस्य यथार्थतां प्रतिपादयति तत्कि वक्तृज्ञानेति / अथ प्रमाणेति वक्तृसम्बन्धिनो ज्ञानमात्रादेव तावन्न तत्पूर्वकस्य [40] "प्रामाण्ये कारण (कं. 219.7) मित्यस्मात्पुरस्तर्हि इत्यध्याहार्यम। परवाक्यं यथार्थत्यादि (कं. 219.7) / तत्किमिति (कं. 219.10) काक्वा व्याख्येयम् / वक्तृज्ञान"मात्रत्वादिति (कं. 219.10) वक्तुः सम्बन्धि यज्ज्ञानं "केवलमस्मादित्यर्थः / प्रमाणज्ञानादिति (कं. 219.11) प्रमाणभूत जानात् / तद्गुणादिति (कं. 219.12) कारणात् / एतदेव स्पष्टयति शब्दस्य कारण(कं. २१९.१२)मित्यादिना / तद्गुणादिति (क. 219.12) अर्थज्ञान'गुणात् / ज्ञानान्तराणामिति (कं. 219.15) प्रत्यक्षादीनाम् / शब्दाधीनप्रमाणज्ञानवदिति (कं. 219.16) शब्दगतप्रमाणज्ञान [व]दित्यर्थः / कारणगुणस्येति (कं. 219.17) कारणयथार्थत्वस्य / दोषप्रतिबन्धादिति (कं. 219.18) दोषबाधनात् / [कु.] अस्य प्रतिकूलतर्कतयाऽनवस्थामाशंकते परेण प्रामाण्य इति (कं. 218) - अन्वयव्यतिरेकाभ्यां जिज्ञासाया: प्रामाण्यज्ञानं प्रति कारणत्वं दर्शयन् परिहरति "नानेनानवस्थेति (कं. 218) / जिज्ञासाया: सार्वत्र (त्रि) कत्वमाशकते यस्तु तत्रापीति (कं. 218) / परिहरति स न शक्नोतीति (कं. 218) / तदर्थनिश्चयेनेति (कं. 218)- इदं प्रामाण्यं सांशयिकप्रामाण्यं प्रमाणत्वादित्यस्यातथास्बेन निश्वायकत्वानुपपत्तेरिति भावः / 1 एवं-कं. 1; कं. 2 / 2 तदुत्पादः-जे. 1, जे. 2 / 3 तत्र ज्ञाने-जे.१। 4 स्वरूपादिदेव - अ / 5 अयथार्थ - अ, ब / 6 सिद्धं तो - अ, ब / ७र्दष्टान्तार्थवाक्यस्य - अ, ब / 8 वक्तिज्ञानेति - अ, ब / 9 तावत्तत्पूर्वकस्य - अ, ब, क / 10 प्रामाण्यकारणं-कं. 1; अत्र पञ्जिकाकृता 'पुरः' तहिं इत्यध्याहार्यम् इति सूचितं तत्तु न सम्यक्, अर्थदृष्टया पश्चात् 'तहि' इत्यध्याहार्यम् / एवं तहि विपर्ययज्ञानं कुतः ? इति प्रश्नः संगतो भवति - सं.। 11 मात्रादिति- कं. 1, 12 केवलास्यादित्यर्थः-पं.। 13 नानवस्था-के।