________________ 514 न्यायकन्दलीसंवलितप्रशस्तपावभाष्यम् न्यायकन्दली स्यास्त्येवं तदथिता ज्ञाने। 'यस्य तु प्रामाण्यसन्देहादर्थे 'सन्दिहानस्यार्थग्रहणार्थमेव प्रवृत्तिर्जाता, तस्यार्थप्राप्तिचरितार्थस्यामभिसंहितमपि प्रामाण्यावधारणं वस्तुसामर्थ्याद्भवति, प्रवृत्तिसामर्थ्यस्य प्रामाण्याव्यभिचारात् / तदेवं तावत् प्रामाण्यं स्वतो न ज्ञायते / नापि स्वतो जायते / यदि ज्ञानमुत्पद्य पश्चात् स्वात्मनि यथार्थपरिच्छेदकत्वं जनयति, प्रतिपद्येमहि तस्य स्वतः प्रमाणताम् / यथार्थावबोधस्वभावस्यैव तस्य स्वीय कारणादुत्पत्ति पश्यन्तः परापेक्षमेव तस्य 'प्रामाण्यं मन्यामहे / अथ मन्यसे प्रमाणं स्वयमेव 'स्वस्य प्रामाण्यं जनयतीति स्वतः प्रमाणत्वं न ब्रूमः, अपि तु ज्ञानं प्रामाण्योत्पादाय स्वोत्पादककारणकलापादन्यन्नापेक्षत इति स्वतः [टि०] ननु मुक्त्यादी बहुतरायाससाध्ये प्रमाणान्तरावधारित प्रामाण्यादेव ज्ञानात्प्रवृत्तिर्भवतु जलादौ पुनः ‘सुखप्राप्येऽर्थे प्रमाणान्तरेरनवधारितप्रामाण्यादेव 'ज्ञानमात्रात् प्रवृत्तिर्दृश्यते इति कुतः परतः प्रामाण्यम् ? नवम्, तत्रापि प्रवृत्तिसामर्थ्यादेव "प्रामाण्यमवधार्यते न स्वतः अत उक्तं "प्रमाणतोऽर्थप्रतिपत्तो प्रवृत्तिसामर्थ्यादर्थवत्प्रमाणम् / " . अत्र च संगता अर्थेन समर्थाऽर्थाव्यभिचारिणी प्रवृत्तिस्तस्याभावस्तस्माद् इत्येवमाक्षेपपरिहारावत्रानु"क्तावपि द्रष्टव्यो। अथ पर: प्रवृत्तिसामर्थ्यादपि प्रमाणताममश्यन्नाह यत्रानवधारित"प्रामाण्यस्य इति / यदि मानमुत्पद्य इति / [पं०] यद्भवद्भिरुच्यते तद्युतामिति वाक्यार्थः / अथ श्रीधरः प्राह न तत्रापीत्यादि (क. 218.21) / तथिसेति : (क. 218.22) प्रामाण्यज्ञानार्थिता। प्रवृत्तिसामर्थ्यस्येति (कं. 218.24) सामथ्यं संगतार्थत्वमेवाव्यभिचारित्वमित्यर्थः। ततश्च प्रवृत्तेः सामथ्यं "प्रवृत्तिसामथ्यं तस्येति विग्रहः। स्वन्ते न ज्ञायते इति (के. 218.25) किन्तु परतः। यदि ज्ञानम् (कं. 219.1) इत्यादि वाक्यस्यायं भावार्थः / स्वस्माज ज्ञानस्वरूपादेव ज्ञानस्य प्रामाण्यं जायते / इत्ययमर्थस्तदा घटते यदा ज्ञानं पूर्वमुत्पद्य पश्चात्स्वयमेव स्वात्मनि यथार्थ परिच्छेदकत्वं प्रामाण्यमुत्पादयति, न पुनरेवमनुभूयते / जनयती (कं. 219.1) त्यतः पुरस्तदेति पदमध्याहार्यम। प्रमाणता( क. २१९.२)मित्यतः पुरः किन्वित्यध्याहार्यम् / यथार्थावबोधस्वभावस्यवेत्यतः (कं. 219.2) पुर: पुनरिति पदमध्याहार्यम् / तस्येति (कं. 219.2) ज्ञानस्य / “स्वीयकारणादुत्पत्तिमिति (कं. 219.3) स्वीयात्कारणादुत्पत्तिर्दृश्यते म तु स्वज्ञानस्वरूपादित्यर्थः / परापेक्षमेवेति (कं. 219.3) कारणमपि हि परम् / [कु०] भयं च म्यायः,-साधारणग्राहकादेव स्वप्रामाण्यग्रहेऽपि समान इत्याशये परस्याकौशलं शंकते अथ स्वात्मनीति (कं. २१८)-घटकुद्या (ऽयां) प्रभातमिति न्यायेनोत्तरमाह न चेति (?) समानन्यायतया तेनापि स्वकीयं प्रामाण्य परतो ज्ञायते / अनभ्यस्तदशायां सांशयिकत्वात, अप्रामाण्यवदिति / क. 2; जे. 3 / 2 यस्य - कं. 1, कं. 2 / 3 सन्देहस्तस्यार्थग्रहणार्थमेव प्रवृत्तस्यार्थप्राप्ति चरितार्थस्य-जे. 3 | 4 कारणा-कं.१; कं.२। 5 तस्य प्रामाण्यं-कं. 1; कं. 2 / 6 स्वकीयं-कं. १कं.२। 7 प्रामाण्यात् ज्ञानात्-ह। 8 सुषप्रीप्ये-अ, ब / 9 ज्ञानमात्रात्तु-म, ब, क। 10 प्रामाण्यमवधार्यते -अ / 11 नुक्तामपि-अ, ब / 12 प्रामाण्यति-अ, ब / 13 प्रवृत्तिसामथ्यं प्रवृत्तिसामध्य-पञ्जिकायां पुनरावृत्तम्-सं.। 14 'कारणादुत्पत्ति'-कं. 1 /