________________ टिप्पणपञ्जिकाकुसुमोदगमादिटीकात्रयोपेतम् 513 न्यायकन्दली लेखमेव प्रमाणमुदेति, तत्र तदुत्पत्त्यवार्थनिश्चये प्रमातुनिराकासत्वात् 'प्रामाण्य प्रतिपित्सव नास्तीति न प्रमाणान्तरानुसरणम् / यस्तु तत्रापि ज्ञानस्योभयथा दर्शनेन सन्देहमारोपयति स न शक्नोत्यारोपयितुम्, तदर्थनिश्चयेनैव पराहतत्वात् / यथाह मण्डनो ब्रह्मसिद्धौ "अनाश्वासो हि विज्ञाने ज्ञानेनैवापबाध्यते" इति / यदि प्रवृत्त्यर्थं प्रामाण्यं 'जिज्ञास्यते ? यत्रानवधारितप्रामाण्यस्यैवार्थसंशयात् प्रवृत्तिरभूत् तत्रार्थप्राप्तिपरितुष्टस्य प्रामाण्ये जिज्ञासा नास्ति, कथं प्रवृत्तिसामर्थ्यात् प्रमाणस्यार्थवत्त्वावधारणम् ? न तत्रापि कर्षकस्येव बीजपरीक्षार्थ प्रामाण्यपरीक्षार्थमेव 'प्रवृत्त[टि०] त्यर्थः / यस्तु तत्रापि ज्ञानस्य इति :- दृढे हि ज्ञाने स्थाणुपुरुषज्ञानवदानुभविकस्तावत्सन्देहो 'नास्त्येव / किञ्चिज्ज्ञानं प्रमाणं दृष्टं किञ्चिच्चाप्रमाणमित्युभयथा दर्शनात्तु यः पुरुष आहार्यसन्देहमारोपयिष्यति 'सोऽप्यशक्तः 'दृढे ज्ञाने सन्देहज्ञानस्य कस्याप्यनुदयाद् उत्पादे चातिप्रसङ्गात् / / ‘यदाह मण्डन इति :-तेनैव ज्ञानेन सुनिश्चितेनातिशयवताऽनाश्वासो बाध्यते इति मण्डनाचार्यो ब्रह्मसिद्धिग्रन्थे प्राह / यदि परं प्रवृत्त्यर्थम इति :-'एवमेव तावत्सर्वेष्वपि ज्ञानेषु जिज्ञासा नास्ति यस्मात्तु ज्ञानादर्थे प्रवर्तेत तस्यैव सर्वथा प्रामाण्यमवधारयितुं जिज्ञासा भवतीति प्रमाणान्तरैरजिज्ञासितप्रामाण्यैरेव प्रवर्तकस्य "ज्ञानस्य प्रामाण्यमवधार्यत इति भावः / [पं०] न प्रमाणान्तरानुसरण(कं. २१८.१६)मित्यत्र प्रमाणान्तरमर्थनिर्भासादि। तत्रापीति (कं. 218.17) प्रमृष्टसन्देहकलङ्केपि प्रमाणे / उभयथा दर्शनेनेति (कं. 218.17) सत्यासत्यत्वदर्शनेन / आरोपयितु (कं. 218.17) मित्यत्र सन्देहमिति कर्मपदम् / ज्ञानेनैवेति (कं. 218.19) सुनिश्चितेनातिशयेन / ___. परवाक्यं यदी(कं. २१८.१९)त्यादि। "जिज्ञास्यते (कं. 218.19) इत्यस्मात्पुरस्तदेत्यध्याहार्यम् / कथं प्रवृत्तिसामर्थ्यादित्यादि (कं. 218.21) प्रवृत्तिसामर्थ्यादिति कोऽर्थः ? संगता-अर्थेन समर्था-अर्थाव्यभिचःरिणी प्रवृत्तिस्तस्या भावः सामर्थ्यम् / प्रवृत्तेः सामर्थ्यः प्रवृत्तिसामर्थ्यः तस्मादिति समासः / प्रमाणतोऽर्थप्रतिपत्ती 'प्रवृत्तिसामर्थ्यादर्थवत्प्रमाणम्' इति न्यायभाष्यवचनाऽवष्टम्मैन प्रवृत्तिसामर्थ्यात् प्रमाणस्यार्थवत्ताऽवधारणं [कु.] तत्राद्य दूषयति यदि तावदिति (कं. 218) - उत्पद्यमानेन ज्ञानेन स्वप्रामाण्यग्रहे सति तदप्रामाण्यसंशयो तस्य विशेषाग्रहणकारणत्वादिति भावः / विपर्ययज्ञाने चेति (कं. २१८)-समानन्यायतया तेनापि स्वकीयस्याप्रामाण्यस्य ग्रहणादिति भावः / 1 प्रतिपित्यैव - कं. 1, कं.२; अप्रामाण्यप्रमित्येव -जे.३। 2 अनाश्वासो ज्ञायमाने-कं. 1, कं. 2 / 3 विजिज्ञास्यते-कं. 1; कं. 2 / 4 प्रवृत्तिरस्यास्त्येव-कं.१; कं. 2 / 5 नास्त्य च-अ, ब / 6 सोणशक्तो - अ, ब / 7 दृष्टे ज्ञानसन्देहस्य - अ, ब, क / 8 यथाह - मु. जे. 1, जे. 2, जे. 3 / 9 एवमेवतावश्यपर्वेष्विपि-अ। 10 प्रवर्तकस्य प्रामाण्यमवधार्यते -अ, ब / 11 विजिज्ञास्यते-कं.१।