________________ 512 न्यायकन्वलीसंवलितप्रशस्तपावभाष्यम् न्यायकन्दली स्यात्, विपर्ययज्ञाने च प्रवृत्तिर्न भवेत् / अथ स्वात्मनि क्रियाविरोधादात्मामगृह्णद्विज्ञानमात्मनो यथार्थपरिच्छेदकत्वं न गृह्णाति, तहि तत्परिच्छेदाय परमपेक्षितव्यम्, प्रमाणेन विना प्रमेयप्रतीतेरभावात् / 'प्रमाणस्यापि 'प्रमीयमानदशायां प्रमेयत्वादिति परतः प्रामाण्यमेव / परेण प्रामाण्ये 'ज्ञायमाने तस्यापि प्रामाण्यमपरेण ज्ञेयं तस्याप्यन्येनेत्यनवस्थेति चेत् ? नानवस्था, सर्वत्र प्रामाण्ये जिज्ञासाभावात् / प्रमाणं हि स्वोत्पत्त्यैवार्थ परिच्छिनत्ति न ज्ञातप्रामाण्यम, तेन त्वर्थे परिच्छिन्नेऽपि यत्र कुतश्चिन्निमित्तात् प्रमाणमिदमप्रमाणं वेति संशये जाते विषयसन्देहात् पुरुषस्याप्रवृत्तिः, तत्रास्य प्रवृत्त्यर्थं 'कारणान्तरात् प्रामाण्यजिज्ञासा भवति, अनवधारिते प्रामाण्ये संशयानुच्छेदात् / यत्र पुनरत्यन्ताभ्यासपाटवादखिलविशेषग्रहणाद्वा प्रमष्टसन्देहकलङ्क [टि०] तरिक स्वतो ज्ञायत इति भट्टाभिप्रायेण यस्मादेव [ज्ञाततादेर्शानं ज्ञायते तस्मादेव] स्वकीयात्प्रामाण्यमपि ज्ञायते इत्यत्र 'स्व'शब्द आत्मीयवचनः / बौद्धप्रभाकरमते तु ज्ञानस्य स्वसंवेदनत्वाभ्युपगमात् 'स्वस्मादात्मन एव ज्ञायते इत्यत्र 'स्व'शब्द आत्मवचनः / विपर्ययज्ञाने च 'प्रवृत्तिः इति :- विपर्ययरूपताया गृहीतत्वात्प्रवृत्त्यभावः / अय स्वात्मनि इति कुठाराद् वृक्षे छिदिक्रिया दृष्टा न स्वात्मन्येवेति / तहि तत् परिच्छेदाय इति :- ज्ञानपरिच्छेदाये [पं०] (क. 218.7) प्रामाण्यपरिज्ञानाय / परमिति (क. 2187) ज्ञानान्तरम् / ननु प्रमाणस्य प्रमेयत्वं कुतो येनेदमुच्यते प्रमाणेन विना प्रमेयप्रतीतेरभाव इति (कं. 218.7) / तत्राह 'प्रमाणस्यापीत्यादि (कं. 218.8) / परतःप्रामाण्यमेवेति (कं. 218.9) एवकारो भिन्नक्रमः, स चैवं योग्यः; परत एव प्रामाण्यम् / तस्यापीति (कं. 218.9) अपरस्यापि / न ज्ञातप्रामाण्यमिति (कं. 218.11) ज्ञानप्रामाण्यमेव प्रमाणमर्थ परिच्छिनत्येवं निश्चयो नास्तीत्यर्थः / तर्हि किमर्थं ज्ञानान्तरमपेक्षते इत्यत्राह तेनत्वर्थे (कं. 218.11) इत्यादि / कुतश्चिनिमित्तादिति (कं. 218.12) अभ्यासपाटवाभावात अखिलविशेषाग्रहणाद्वा। विषयसन्देहादिति (कं. 218.12) विषये एव सन्देहो न पुनर्ज्ञानम् / कारणान्तरादिति (कं. 218.13) ज्ञानान्तरात् / "अखिलविशेषग्रहः ग्रहणादिति ( कं. 218.14) सामीप्यादिना / [कु०] ननु ज्ञानत्वेन सह परापरभावाज्जातिः, तथाहि यदि ज्ञानत्वं, परमज्ञाने चक्षुषि प्रामाण्यं न स्यात्, अथ प्रमाणत्वं, परमप्रमाणे संशयादौ ज्ञानत्वं न स्यात, तस्मादव्यभिचार्यनुभवकरणत्वं प्रामाण्यमिति स्थिते तस्य.स्वतस्वं दूषयितुं विकल्पयति तत्किमिति (कं. 218) / 1 प्रामाण्यस्यापि-कं. 1, कं. 2; जे. 3 / 2 प्रतीयमान-जे. 2, जे. 3 / 3 ज्ञायमाने परेण प्रामाण्यं ज्ञेयम् - कं. 1; कं. 2 / 4 करणा - कं. 1; कं. 2 / 5 [ ] एतच्चिह्नान्तर्गतः पाठः अबपुस्तकयो स्ति / 6 स्वस्माद्वात्मन - अ, ब, क / 7 वृत्ति - अ। 8 प्रामाण्यस्यापि - कं. 1 / 9 करणान्तरात् - कं. 1 / 10 अखिलविशेषग्रहणात् - कं. 1 / /