________________ टिप्पणपञ्जिकाकुसुमोदगमादिटीकात्रयोपेतम् 511 न्यायकन्दली {187] अत्रके वदन्ति-नाप्तोक्तत्वनिबन्धनं वचसः प्रामाण्यम्, सर्वप्रमाणानां स्वत एव प्रामाण्यादिति / ते इदं प्रष्टव्याः, प्रामाण्यमेव तावत् किमुच्यते ? 'किमर्थाव्यभिचारः? किं वा यथार्थपरिच्छेदकत्वम् ? न तावदर्थाव्यभिचारः, सत्यपि वह्निनियतत्वे 'धूमस्य कुतश्चिन्निमित्तादनुत्पादिताग्निज्ञानस्य प्रामाण्याभावात्, नीलपीतादिषु प्रत्येक व्यभिचारेऽपि चक्षुषो यथार्थज्ञानजनकत्वेनैव प्रामाण्यात् / ___ अथ यथार्थपरिच्छेदकत्वं प्रामाण्यम् ? तत् किं स्वतो ज्ञायते ? स्वतो वा जायते ? किं वा स्वतो व्याप्रियते ? यदि तावज्ज्ञानेन स्वप्रामाण्यं स्वयमेव ज्ञायेत, यथार्थपरिच्छेदकमहमस्मीति / 'न प्रमाणे यथार्थमिदमयथार्थ वेति संशयः कदाचिदपि [टि०] [187] .अत्रके इति स्वतःप्रामाण्यवादिनो जैन भाट्टबौद्धादयः / भाट्टादयो हि ज्ञानमेव प्रमाणमाह वैशेषिकास्तु ज्ञानं धूमचक्षुरादिकमज्ञानं च प्रमाणमाहुरित्यज्ञानरूपप्रमाणाभिप्रायेणाह प्रामाण्यमेव तावद् इत्यादि / अर्थाव्यभिचारेण प्रामाण्यस्यान्वयव्यतिरेकाभावप्रतिपिपादयिषया सत्यपि अव्यभिचारे प्रामाण्याभावं दर्शयति सत्यपि बह्नोति / निमिताद् जिज्ञासादेः / व्यभिचारे सत्यपि प्रामाण्यं दर्शयति नीलपीतादिषु इति / 'चक्षुरादिगु इति :चक्षरादिना हि कदाचिन्नील कदाचित्पीतं कदाचिच्च 'सङ्ख्यादिकमिति व्यभिचारः / अव्यभिचारे तु तुल्यकालं सर्वार्थप्रकाशनं स्यात् / [पं०] [187] अत्रके इति (कं. 217.23) एके भाट्टबौद्धादयः / अर्थाव्यभिचार इति (कं. 217.25) अर्थाविनाभावः / कुतश्चिन्निमित्तादिति (कं. 217.26) अनाभोग-अव्युत्पन्नत्वेत्यादेः / प्रामाण्याभावादिति (कं. 218.1) प्रामाण्याभावप्रसङ्गादित्यर्थः नीलपीतादिषु प्रत्येक व्यभिचारेऽपीत्यादि (कं. 218.1) व्यभिचारे अविनाभावाभावे / इदमत्र हृदयम्-एकमेवेदं चक्षुः नीलं पीतं च गृह्णाति इति चक्षुषो व्यभिचारः एकत्रैवार्थप्रतिबन्धाभावात् परं यथार्थपरिच्छेदकत्वेन प्रामाण्यम् / यथार्थपरिच्छेदकमहमस्मी(कं. २१८.४)त्यस्मात्पुरः तदेत्यध्याहार्यम् / विपर्ययज्ञाने इति (कं. 218.5) विपर्ययज्ञाने सति / पर: प्राह अथेत्यादि (कं. 218.6) सूरिवाक्यं तीत्यादि (कं. 218.7) / तत्परिच्छेदायेति * [कु०] [187] अत्राप्रसिद्धविशेषणत्वशंकानिदानं स्वतःप्रामाण्यमाक्षेप्तुं समाक्षिपति अत्रके वदन्ति [इति] (कं. 217) / प्रामाण्यशब्दप्रवृत्तिनिमित्तं लक्षणमतस्तद्विकल्पयति -इदमिति (कं. 217) / अत्राद्यं धूमे चक्षुषि च यथासंख्यमव्याप्स्यतिव्याप्तिभ्यां दूषयति - न तावदिति (कं. 217) / द्वितीयं युक्तमेव / स वोपाधिविशेषः / 1 अर्थाव्यभिचार:-जे. 3 / 2 धमस्य प्रमत्तस्य-कं. 1; कं. 2 / 3 न तहि-कं. 1; कं. 2 / 4 भट्ट-अ, ब / 5 यिषयसेव्यव्यभिचारे-अ, ब / 6 प्रतीकमिदं मु. पुस्तके -ने. 1, जे. 2, जे. 3 इत्यत्र च नास्ति किन्तु तत्रैव पङ्क्तो 'चक्षुष' इति पाठः, चक्षुरादि-अ। 7 कदानीलं- अ, ब। 8 शङ्खादिक-अ, ब, क /