________________ 510 न्यायकन्दलीसंवलितप्रशस्तपावभाष्यम् न्यायकन्दली यच्चेदमस्मर्यमाणकर्तृकत्वादिति तदसिद्धम्, “प्रजापतिर्वा इदमेक आसीनाहरासीन रात्रिरासीत् स तपोऽतप्यत तस्मात् 'तपस्तपनाच् चत्वारो वेदा अजायन्त" इत्याम्नायेनैव कर्तृस्मरणात्, जीर्णकूपादिभिर्व्यभिचाराच्च। तदेवमनित्यत्वे वेदस्य सिद्धे पुरुषवचसां द्वैतोपलम्भात् प्रामाण्यसन्देहे पति दृष्टे विषये कदाचिदर्थसन्देहात् प्रवृत्तिर्भवत्यपि, अदृष्टे तु विषये पचुरवित्तव्ययशरीरायाससाध्ये तावद् प्रेक्षावान्न प्रवर्तते, यावत् 'तद्विषयस्य वाक्यस्य प्रामाण्यं नावधारयति / दृष्टं च लोके वचसः प्रामाण्यं वक्तृगुणावगतिपूर्वकम्, तेन वेदेऽपि तथैव प्रामाण्यान्निविचिकित्समनुष्ठानं स्यात् / [टि०] प्रजापतिर्वेति / वाऽवधारणे प्रजापतिरेवैक आसीदि'त्यर्थः / 'तपनादिति कर्तरि 'अनः'। जीर्णकपेति एतद् व्यवच्छेदार्थ सम्प्रदायाविच्छेदे सतीति 'विशेषितेऽपि वैशेषिकः स्वर्गप्रलयाभ्युपगमात् 'अन्यतरासिद्धविशेषणता स्यात् / पुरुषेति द्वैतं 'प्रामाण्यमप्रामाण्यं च / ___ तेन वेदेऽपि कारीर्यादि दृष्टफलवाक्यानां साद्गुण्ये व्यभिचाराभावदर्शनाददृष्टफलानामपि वाक्यानां प्रयोक्तुराप्तत्वमवधार्यते / [पं०] प्रजापतिर्वेति (कं. 217.16) वा शब्द एवार्थे प्रजापति [2] वेत्यर्थः / स तप इति (कं. 217.17) स. प्रजापतिः / तपस्तपनादिति कर्तर्यनः / द्वतोपलम्भादिति (कं. 217.19) प्रामाण्यमप्रामाण्यमिति द्वैतम् / अदृष्टे इति (कं. 217.20) स्वर्गमुक्त्यादौ / प्रचुरचित्तव्ययेति (कं. 217.20) धूमसामन्यापेक्षम् / शरीरायासेति (कं. 217.20) अचिर्मार्गापेक्षम / तद्विषयवाक्यस्येति (कं. 217.21) अदष्टविषयवाक्यस्य / वेदेऽपि तथैव प्रामाण्यादिति (कं. 217.22) पुत्रेष्टिकारीर्यादिदृष्टफलविषयवाक्यानां साद्गुण्ये व्यभिचाराऽभावदर्शनात् स्वर्गापवर्गाद्यदृष्टफलविषयाणामपि वाक्यानां प्रयोक्तुराप्तत्वमवधार्यते इत्यर्थः / [कु०] तद्विषयसंस्काराभावप्रयुक्तम् / ननु कर्तृभावप्रयुक्तं न वेदमर्थवादत्वादप्रमाणमर्थवादस्यापि प्रमाणान्तरविरोधिनः प्रमाणत्वात् / साधिता च सिद्धार्थपरता विनोदवाक्यानाम् / न च शरीरिण ईश्वरस्येच्छा न (?) करणाभावात्, कथं वेदानां प्रणष्टि (ष्ट)त्वमिति वाच्यम् / शरीरान्वयव्यतिरेकवति कार्ये तत्फलभोग्यदृष्टोर न्य]च्छरीरसंवाद्यपीष्यते / परमेश्वरस्य केवलं तु भोगायतनं शरीरं नेष्यते / भोगित्वात्कर्तृत्वस्य च नित्यत्वात् / पूर्व महाजनपरिग्रहेण संवादेनाप्रोक्तत्वं प्रसाधितम् / तदेवं तु मन्त्रायुर्वेदवत् फलसंवादेनापि सुबोधमित्याह - तदेवमिति (कं. 217) / पृष्टं च लोक इति व्याप्ति दर्शयन् प्रयोग सूचयति-स च द्रष्टव्यः / स्वर्गकामो यजेतेत्यादिवाक्यं गु(?) दत्प्रणेष्टकम्, वेदत्वात्, चित्रावाक्यवदिति / 1 तपसश्चत्वारो-कं. 1; कं. 2 / 2 तद्विषय-कं. 1; तद्विषये -कं.२। 3 आसीदिति-अ, ब / 4 तपनादिति प्रतीकं अपुस्तके नास्ति / 5 विशेषितेति -ब। 6 अन्यतरशिसि - अ, ब / 7 प्रामाण्यप्रामाण्य - अ, ब /