________________ 508 पायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली सत्यपि पौरुषेयत्वे प्रामाण्यम् / नहि यथार्थद्रष्टा प्रक्षीणरागद्वेषः कृपावानुपदेशाय प्रवृत्तोऽयथार्थमुपदिशतीति शङ्कामारोहति / 'पुरुषविशेषप्रणीतो वेद इति कुत एषा प्रतीतिरिति ? सर्वैर्वर्णाश्रमिभिरविगानेन तदर्थपरिग्रहात् / यत्किञ्चनपुरुषप्रणीतत्वे तु वेदस्य बुद्धादिवाक्यवन्न सर्वेषां परीक्षकाणामविगानेन तदर्थानुष्ठानं स्यात्, कस्यचिवप्रामाण्यावबोधेन विसंवादप्रतीतेरपि सम्भवात् / यत्र च सर्वेषां संवादनियमस्तत्प्रमाणमेव, यथा प्रत्यक्षादिकम् / प्रमाणं वेदः सर्वेषामविसंवादि'ज्ञानजनकत्वात् प्रत्यक्षवत् / यत्तु दृष्टार्थेषु कर्मस्वनुष्ठानात् क्वचित्फलादर्शनं न तवस्य प्रामाण्यं प्रतिक्षिपति, सामग्रीवैगुण्यनिबन्धनत्वात् / तन्निबन्धनत्वं च यथावत्सामग्रीसम्भवे सति फलदर्शनात् / [टि०] भवति, लिङ्गयते इति लिङ्गं साध्यं 'तद्रूपा न भवति, अनित्याऽवेदार्थविषया च न सिद्धयतीत्यर्थः / ईश्वरबुद्धेरप्रतीतावाश्रयासिद्धेः प्रतीतो 'तु मिग्राहकप्रमाणबाधादिति ज्ञेयम् / दोषाश्च इति उपपादितमीश्वरसिद्धौ / य तु दृष्टार्थेषु 'कारीरीप्रभृतिषु इति 'वृष्टयाद्यर्थेष्वित्यर्थः / 'आप्तोक्तत्वमाम्नायस्य इति आम्नायोऽपौरुषेयः अस्मर्यमाणकर्तृकत्वाद् गगनवदिति / अत्र च कालिदासादि व्यतिरिक्तस्वतन्त्रपुरुषविश्रान्त्यभावोऽपौरुषेयत्वं साध्यते तेन न [पं०] सत्यपि नित्यत्वे 'श्रोत्रमनसोरिति (कं. 216.20) श्रोत्रेन्द्रियस्य नभो रूपत्वान्नित्यत्वं मनसस्तु नित्यत्वं प्रतीतमेव / आगन्तुकदोषैरिति (कं. 216.20) वातपित्तकफमृद्यमूर्छादिजनितर्बाधिर्यभ्रान्तत्वादिभिः / तत्र बाधियं श्रोत्रेन्द्रियस्य, भ्रान्त्यादयस्तु मनसा इत्यवसेयम् / उपपादितमिति (कं. 216.21) ईश्वरसिद्धी प्राक् / / सौगतादिः पृच्छति पुरुषविशेष इत्यादि (कं. 217.1) श्रीधरः सर्वरित्यादि (कं. 217.2) तदर्थपरिमहाविति (कं. 217.2) वेदार्थस्वीकारात् / यत्किञ्चनपुरुष"कृतत्वे इति (कं. 217.3) प्राकृतपुरुषकृतत्वे / [कु०] एतेनात्र प्रमाणं वेदः, अनृतत्वादिप्रलंभकवाक्यवदिति प्रतिपक्षमाशंकते यदिति (कं. 217) चित्रमायायाक्षतपशुकाम इति दृष्टाधं कम चोद्यते, न च तदिष्टयनन्तरं पशव उपलभ्यन्ते / सर्वत्र तस्मादनृतत्वमित्यर्थः / __तदेतदन्यथासिद्धया दूषयति तदस्येति (कं. 217) प्रामाण्यमंगीकृत्याप्तोक्तत्वानुमाने प्रतिपक्षमाशंक्य भाष्यमवतारयति-आप्तोक्तत्वमिति (-त्वादिति.) (कं. 217) / भाव्ये च शब्दानुपलब्धिकारणाभावेऽपि पूर्वमुपलब्धस्यानुपलम्भेन प्रत्यक्षेणानित्यत्वसिद्धि समुच्चिनोतीति द्रष्टव्यम् / ततश्च वक्ष्यमाणमनुमानं प्र[त्य]क्षसंवादि, परकीयानुमानापेक्षया व(ब) लीयद् (दि)ति सिद्धं भवति / परकीयं तु कर्तुरस्मरणादकर्तृकत्वानुमानं दूषयिष्यत इति भावः / इह यदि 1 अथ पुरुष- कं. 1; कं.२। 2 ज्ञानहेतुत्वात् - कं. 1, कं. 2; जे. 1, जे. 2 / 3 तद्रूपो-ब, तद्रूप नैव -अ / 4 'तु' अबक पुस्तकेषु नास्ति / 5 य तु दृष्टार्थेषु मु. जे. 1, जे. 2, जे. 3; कारीरीप्रभृतिषु इति नास्ति / 6 दृष्टद्यर्थे-ड। 7 आप्तोरुक्त -अ, ब; आप्तोक्तत्वाद् मु. आप्तोक्तत्वम् (1) पा. टि. जे. 1, जे. 2, जे. 3 / 8 व्यतिरिक्तः स्वपुरुष - अ, ब; वाक्यं व्यतिरिक्त-ड। 9 सूत्रमनसो-अ। 10 प्रणीतत्वे - कं. 1 /