________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् 507 न्यायकन्दली नित्यत्वे वेदस्य वक्तुरभावाद् दोषाणामनवकाशे सति निराशङ्कप्रामाण्यं सिद्धपति, पौरुषेयत्वे तु निविचिकित्सं प्रामाण्यं न लभ्यते, कदाचित् पुरुषाणां 'रागद्वेषादिभिरयथार्थस्यापि वाक्यस्य दर्शनात् / तत्राह-"तद्वचनादाम्नायस्य प्रामाण्यम्" इति / तदित्यनागतावेक्षण'न्यायेन "न चास्मबुद्धिभ्यो लिङ्गमषेः" (वै. सू. 6-1-2) इति सूत्रे प्रतिपादितस्यास्मद्विशिष्टस्य वक्तुः परामर्शः, तद्वचनात् तेन विशिष्टेन पुरषेण प्रणयनादाम्नायस्य वेदस्य प्रामाण्यम् / अयमभिसन्धिः-दोषाभावप्रयुक्तं प्रामाण्यं न नित्यत्वप्रयुक्तम्, सत्यपि नित्यत्वे श्रोत्रमनसोरागन्तुक दोषैः क्वचिदप्रामाण्यात् / असत्यपि नित्यत्वे प्रमृष्टदोषाणां चक्षुरादीनां प्रामाण्यात् / दोषाश्च पुरुषविशेषे नैव सन्तीत्युपपादितम् / तेन' तत्प्रयुक्तस्याम्नायस्य [वि.] 'न चास्मद् इति अस्यार्थः, परैहि ईश्वरबुद्धिरनित्याऽवेदार्थविषया च, 'बुद्धित्वादस्मदाविबुद्धिवदिति प्रत्यवस्थीयते स्वर्गकामो यजेतेत्यादि वेदवाक्यार्थान्तं स्वर्गादीनामप्रत्यक्ष त्वादस्मदादिबुद्धीनामवेदार्थविषयत्वं च नासिबंमिति, इति प्रत्यवस्थाने सूत्रकृतोक्तं "न चास्मदिति / "अस्मद्बुद्धिभ्योऽस्मद्बुद्धिदृष्टान्तेन ऋषेरीश्वरस्य "बुद्धिमिङ्ग न [पं०] परैहि 'ईश्वरबुद्धिरनित्या अवेदार्थविषया च बुद्धित्वात् अस्मदादिबुद्धिवत्' इति प्रत्यवस्थीयते / 'स्वर्गकामो यजेतेत्यादिवेदवाक्यार्थानां च स्वर्गादीनामप्रत्यक्षत्वादस्मदादिबुद्धीनामवेदार्थविषयत्वं च नासिद्धमिति प्रत्यवस्थाने सूत्रकृतोक्त ना चास्मदबुद्धिभ्यो लिङ्गमृषे / अस्मद्बुद्धिभ्योऽस्मद्बुद्धिदृष्टान्तेन न ऋषरीश्वरस्य बुद्धिलिङ्ग न भवति / लिङ्गयते साध्यते इति लिङ्गं साध्यं तद्रूपा न भवति, अनित्या अवेदार्थविषया न सिध्यतीति यावत / ईश्वरस्य लोकोत्तरत्वात् इति सूत्रार्थः / [कु०] ननु वक्तुः सूत्रकारविरोधस्य क. प्रतिकार इत्यत आह अयमभिसन्धिरिति (कं. 216) / नन्वन्वयव्यतिरेकाभ्यां दोषाभाव एव प्रयोजको न तु नित्यत्वमित्यर्थः / तहि वेदस्य प्रमाणे प्रणेतृदोषाभावः कुतो निश्चीयते / अत आह दोषाश्चेति (कं. 216) / प्रतिपादितमीश्वरवादे। कथं प्रतिपादितमित्यत आह-न हीति (कं. 216) यथार्थदृष्टेति (कं. 216) अनेन ज्ञानविपर्ययौ निरस्तौ। प्रक्षोणदोष [रागद्वेष] इति (कं. 216)- अनेन रागद्वेषोन्मादादयः / कृपावानिति (कं. 217) अनेन स्वप्रयोजनाभावेऽपि प्रवृत्तिसंभवादर्शितानुपदेशाय प्रवृत्त इति (कं. 217) / अनेन स्वाभाविकनित्यप्रयत्नयोगादौदासीन्यप[६]मानस्तम् / निश्चितदोषाभावपुरुषपूर्वकत्वव्याप्येन सामान्येन प्रामाण्यं वेदस्य प्रश्नपूर्वकं सतर्क दर्शयति पुरुषविशेषेत्यादिना (कं. 217) / प्रत्यक्षवदिति (प्रत्यक्षाविकमिति?) (कं. 217) / 1 रागादिभिः - जे. 1, जे. 2 / 2 न्यायेन भस्मद् - कं. 1, कं. 2; न्यायेन चास्मद् - जे. 2 / 3 दोषेणजे. 1, जे. 2, जे. 3 / 4 तेनैतत्प्रोक्तस्य - कं. 1; कं. 2 / 5 प्रतीकमिदं मु. पुस्तके नास्ति निर्दिष्टायां पङ्क्तो अस्मद्' इति पदमस्ति-जे. 2, जे. 3 इत्यत्रास्ति। 6 'बद्धित्वाद' इति अबपुस्तकयो स्ति। 7 यतेत्यादिभ, ब। 8 वाक्यानां - अ, ब, क। 9 वास्मदादि-ड। 10 न चास्माति - अ, ब / 11 अस्म-। 12 बृद्ध-अ, ब, क।