________________ न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् प्रशस्तपादभाष्यम् [186-187] 'श्रुतिस्मृतिलक्षणोऽप्याम्नायो वक्तृप्रामाण्यापेक्षः, तद्वचनादाम्नायप्रामाण्यम्' (वै. अ. 1 आ. 1 सू. 3) “लिङ्गाच्चानित्यः" (वै. सू. 2-2-32) "बुद्धिपूर्वा वाक्यकृतिदे" (वै. अ. 6 आ. 1 सू.१) "बुद्धिपूर्वो ददातिः" (वै. अ. 6 आ. 1 सू.३) इत्युक्तत्वात् / न्यायकन्दली [186] ननु यदि 'वक्तद्वारेण शब्दोऽर्थावबोधकः, तदा वेदवाक्यादर्थप्रत्ययो न घटते, वक्तुरभावादत आह-श्रुतिस्मृतिलक्षणोऽप्याम्नायो वक्तृप्रामाण्यापेक्ष इति / न केवलं लौकिक आम्नायः, श्रुतिस्मृतिलक्षणोऽप्याम्नायो वक्तुः प्रामाण्यमपेक्ष्य प्रत्यायकः / शब्दो वक्त्रधीनदोषः, न त्वयमसुरभिगन्धवत् स्वभावत एव दुष्टः / यथोक्तम् शब्दे कारणवर्णादेर्दोषा वक्तृनराश्रयाः / नहि स्वभावतः शब्दो दुष्टोऽसुरभिगन्धवत् // [टि०] [186] न केवलम् इति आम्नायतेऽभ्यस्यते इत्याम्नाय उपदेशः / अथ मीमांसको वेदपौरुषयवादिनमुत्थापति 'शब्दे वक्त्रधीनो दोष इत्यादि। 'शब्दे कारणेत्यादि करणानि स्पृष्टतादीनि, वर्णा उर:प्रभृतिस्थाननिष्पन्नाः तदोषा स्पृष्टस्येषत्स्पृष्टतया तालव्यस्य दन्त्यत्वेनोच्चारणमित्यादयः / अनागतावेक्षणन्यायेन इति सिंहावलोकनन्यायेनेत्यर्थः / [पं०] [186] 'वक्तृद्वारेणेति (कं. 216.10) वृद्धव्यवहारभणनात् / परवाक्यं 'शब्दो' इत्यादि (कं. 216.11) / न त्वयमिति (कं. 216.11) अयं शब्द: / "करणवर्णादोषा इति (कं. 216.12) करणानि स्पृष्टतादीनि, वर्णा उरःप्रभृतिस्थाननिष्पन्नाः, तद्दोषाः स्पृष्टस्येषत्स्पृष्टत्वेन तालव्यस्य दन्त्यत्वेनोच्चारणमित्यादयः / 'अबाहेति (कं. 216.16) सूत्रकारः कर्ता / व्याख्या अनागतावेक्षणन्यायेनेति (कं. 216.17) सिंहावलोकितन्यायेन / न चास्मदबुद्धिभ्यो लिङ्गमृषेरिति (कं. 216.17) सूत्रे (वै. सू. 6-1-2) इत्यत्र सूत्रे काणादसूत्रे / [कु०] [186] ननु यदि वक्तृद्वारेणेति शब्दो विवक्षावच्छेदकतयार्थमनुमापयतीत्युक्तं विवक्षा च वक्तृधर्म इत्यर्थःवक्तृप्रामाण्यमपेक्षेति वक्तृप्रामाण्यमाप्तत्वम्, तद्विशेषणतया अपेक्ष (क्षा) श्रुतिस्मृती अर्थ बोधयत इत्यर्थः, उत्तरं भाष्यमवतारयितुमाप्तोक्तत्वस्य विरुद्धत्वमाशंकते शब्द इति (कं. 216)- न यद्याप्तोक्तत्वं तर्हि कूतो वेदप्रामाण्यमित्यत आह नित्यत्वेति (कं. 216) / 1 वस्तुर्विवक्षाद्वारेण-जे.३। 2 कारणवर्णादि-कं. 1, कं. 2 / 3 शब्दो वक्त्रधीनदोषो मु.। 4 प्रतीकमिदं अबपुस्तकयो स्ति। 5 सृष्टतया-अ। 6 वक्तुर्विवक्षाद्वारेण - पा. 3 पु.। 7 कारणवर्णादिदोषा -कं. 1 ब। 8 तत्राह-कं.१।