________________ टिप्पणपग्जिकाकुसुमोदगमाविटीकात्रयोपेतम् 505 न्यायकन्दली ज्ञापकत्वाद्धि सम्बन्धः स्वात्मज्ञानमपेक्षते / तेनासौ विद्यमानोऽपि नागृहीतः 'प्रकाशकः // इति / कीदृशं तस्य सम्बन्धस्य ज्ञानम् ? अस्य शब्दस्यायमर्थो वाच्य इत्येवंभूतमिति चेत् ? तत्कस्माद्भवति ? वृद्धव्यवहारादिति चेत् ? 'एतदेवाभिधानाभिधेयालम्बनज्ञानं परस्परं व्यवहरद्भिर्वृद्धः पार्श्वस्थस्य बालकस्य क्रियमाणं सङ्कतो व्युत्पत्तिरिति चाभिधीयमानं संस्कारद्वारेणार्थप्रतीतिकारणमस्तु, कि सम्बन्धान्तरेण? शब्दस्य हि निजं सामर्थ्य शब्दत्वम्, 'आगन्तुकं नु सामर्थ्य सङ्केतो विशिष्टा चानपूर्वी / 'तस्मादेव च सामर्थ्यद्वितयात् तदर्थ प्रत्ययोपपत्तेः, सम्बन्धान्तरकल्पनावैयर्यम्, दृष्टात् कार्योपपत्तावदृष्टकल्पनानवकाशात् / [पं०] श्रीधरः कीदृशमित्यादि (कं. 216.3) श्रीधरः प्राह तत्कस्माद्भवतीति (कं. 216.4) तत्सम्बन्धज्ञानम् / सम्बन्धान्तरेणेति (कं. 216.7) शक्त्याख्येन वाच्यवाचकभावेन / शब्दत्वमिति (कं. 216.7) शब्दत्वं वैशेषिकभाट्टमते सामान्यं प्रभाकरमते तु स्वरूपमैव / विशिष्टा चानुपूर्वीति (कं. 216.8) 'घट' इति न पुनः 'टघ' इति 'पट' इति न तु 'टप' इति। [कु०] कृत्य ( ? )भिसंधिः / सुग्रहत्वाय तमेवाभिसंधिमुद्घाटयन् स्थितामन्यथैवोपपत्तिमेव विशदयति - शब्वस्येति - शं (सं) केतग्र[ह]स्य साफल्ये यत्नात् / शक्तिकल्पनायां कल्पनागौरवं च दोष इत्यनुसन्धेयम् / तदेतत्पदार्थे न मानं चितितम् / वाक्यार्थे तु एते पदार्था विवक्षितसंसर्गाः / योग्यत्वे सं[स]र्गतयाविवक्षितत्वात् / यथाऽस्मद्विवक्षितपदा इति / अत्र योग्यत्वं प्रमा[ण] बाधविरहः / प्रमाणबाधश्च द्वेधा। सार्वकालिकस्तत्कालिकश्चेति / तत्राद्यो यथाऽग्निना सिञ्चेदिति / द्वितीयो यथाऽयमेति पुत्रो राज्ञः पुरुषोऽपसार्यतीति / अत्र प्रथमावगतं पुत्रं प्रति गुणीभूतस्य चरमावय [व] गतेन पुरुषेणान्वयः प्रमाणबाधितः / आसन्नताग्रहणं तु चैत्रः पयसामेको रथे यात्योदनं भुक्त इत्यत्र व्यभिचारनिवृत्तये आकांक्षानुसंसर्गावगमप्र (प्रा) गभावरूंपासत्तया कारणमिति न तया हेतुर्विशेषणीयः / न हि तस्याः संसर्गावगमात्प्रा [क] ज्ञानं संभवति / प्रतियोगिनमविरूप्याभावस्य दुर्निरूप्यत्वात् / जिज्ञासा त्वप्रतियोगिकव / इतरथा स्वापवादवाक्येषु संसर्गावगमानुदयप्रसंगात् / तदेवं यथार्थे संसर्गे लैंगिक्येव प्रतीतिः। ये तु पदार्थात्स्मरयन्तीति वदन्ति तेषां संकेतसमयवर्तिनोऽर्थस्य व्यवहारकालात्ययापदिष्टमव्यवहारकालवत्तिनश्वाननुभूयस्त्वादेवास्मरणमित्यलं विस्तरेण / 1 प्रकाशते-कं.१। 2 तदेव - जे. 1, जे. 2 / 3 आगन्तुकं-जे. 1, जे. 2; आगन्तुकं च-कं. 1, कं. 2 / 4 तस्मादेव-कं. 1, कं. 2 / 5 प्रत्ययोपपत्ति:-कं. 1, कं. 2 /