________________ 504 न्यायकन्दलीसंवलितप्रशस्तपावभाष्यम् न्यायकन्दली आर्याणामपि चौ रशब्दादर्थप्रतीतिः लिङ्गपूर्विका, चौरशब्दजनित'प्रतिपत्तित्वात्, उभयाभिमतदाक्षिणात्यप्रयुज्यमानचौरशब्दजनित'प्रतिपत्तिवत् / न च स्वाभाविकसम्बन्धसद्भावे प्रमाणमस्ति / शब्दस्य वाच्यनिष्ठा स्वाभाविकी 'वाचिकाशक्तिरेवोभयत्र दत्तपदत्वात् सम्बन्ध इत्यच्यते 'भवद्धिः। यथोक्तम-"शक्तिरेव हि सम्बन्धः" इति / शब्दशक्तेश्च स्वभावादेव वाच्यनिष्ठत्वे व्युत्पन्नवदव्युत्पन्नोऽपि शब्दादर्थ प्रतीयात्, शब्दस्यार्थस्य तयोः सम्बन्धस्य च संभवात् / ज्ञातः सम्बन्धोऽर्थप्रत्ययहेतुर्न ससामात्रेणेति चेत् ? 'यथोक्तम् / . [पं०] ज्ञात[:]सम्बन्ध इत्यादि (कं. 215.22) ज्ञातः सम्बन्धोऽर्थप्रत्ययहेतुः अव्युत्पन्नस्य तु न ज्ञातोऽयं ततः कथमर्थप्रत्ययहेतुः स्यादिति भावः / ज्ञापकात्वाद्धि सम्बन्ध (कं. 216.1) इति श्लोकः / व्याख्या हि पुनरर्थः स च भिन्नक्रमः सम्बन्ध इत्यस्मात्परो योज्यः / ततश्चायमर्थः सिद्धः / चक्षुरादयः खल्वज्ञाता अपि ज्ञापका भवन्ति, तथैवान्वयव्यतिरेकदर्शनात् / सम्बन्धः पुनर्जापकत्वादेव हेतोः / स्वात्मज्ञानमिति (कं. 216.1) स्वात्मनः स्वस्वरूपस्य ज्ञानमपेक्षते, अज्ञान: सम्बन्धोऽर्थज्ञापको भवतीत्यभिप्रायः / एतदेवोत्तरार्द्ध स्पष्टयति तेन (कं. 2162) कारणेन / असाविति (कं. 216.2) सम्बन्धः / अगृहीत इति (कं. 213.2) 'अज्ञातः सन् न प्रकाशको नार्थप्रकाशक इति / [कु०] न चेति 1 - दूष्याया अर्थापत्तेः प्रकारमाह - शब्दस्येति - वाचकत्वान्यथानुपपत्त्या हि कल्प्यमाना वाचकशक्तिर्वाचके आधारे वाच्ये च विषये उभयत्र दत्तपदत्त्वाद्वाच्यवाचक: स्वाभाविक: सम्बन्ध इति भवद्भिः मीमांसकरुच्यत इत्यर्थः / 'यथोक्तमिति (कं. 215) भवतामभियुक्तैरिति शेषः / अस्त्वेवं ततः किमित्यत आह - शब्दशक्तेश्च इति (कं. 215)- अत्र च गूढाभिसन्धिः / तमजानन्नपरोनिष्टापत्तिमाशंकते - ज्ञातः सम्बन्ध इति (कं. 215) / अभियुक्तवाक्ये ज्ञापकत्वादिति - हेतुरनिद्रियसम्बन्धत्वे सतीति विशेषणीयः / अन्यथा तद्व्यभिचार: स्यात् / सिद्धान्ती स्वाभिसंधिमुद्घाटयितुकामो गुडजिद्विकान्यायेन पृच्छति कीदृशं तस्येति (कं. 216) / छान्दसस्योत्तरं शङ्कते अस्य शम्वस्येति (कं. 216) / पुनः सुहृद्भावेन पृच्छति- कस्मादिति (कं. 216) / पुनरपि श्रोत्रियस्योत्तरमाशंकतेवृद्धव्यवहारादिति (कं. 216 ) अवसरमधिगम्य सिद्धान्ती स्वाभिसन्धिमुद्घाटयति - तदैवेति (कं. 216) तत्रश्च (च) संस्कारो यो ज्ञाप्यमानात् संकते (केत)मात्राद्वाचकत्वे संभ[व]ति / तदन्यथानुपपत्तिरूपार्थापत्तेः परिक्षयं 1 प्रतीतित्वात् -जे..१; जे. 2, जे. 3 / 2 प्रतीतिवत् -जे. 1; जे. 2; जे. 3 / 3 वाचक-कं. 1, कं. 2 / 4 तत्रभवद्भिः -जे. 3 / 5 तथा चोक्तम् - कं. 1, कं. 2 / 6 यथाहुः - कं. 1, कं. 2 / 7 ज्ञात-ब। 8 तथा चोक्तं-कं।