________________ 503 टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् 'न्यायकन्दली यस्तु सत्यपि लिङ्गत्वे देशविशेषे शब्दस्यार्थ (स्य) व्यभिचारो न धूमस्य, तत्रैष न्यायः। धूमः स्वाभाविकेन सम्बन्धेनाग्नेलिङ्गम् / शब्दस्तु चेष्टावत् पुरुषेच्छाकृतेन सङ्केतेन प्रवर्तमानो यत्र यत्रार्थे पुरुषेण सत्यते तस्य तस्यैवार्थस्य 'विवक्षाधिगतिद्वारेण लिङ्गम् / अत एवास्मादाप्तप्रयुक्तत्वानुसारेण चेष्टात इवार्थनिश्चयः सातत्योर्ध्वगत्यादिधर्मविशिष्टस्येव धूमस्याप्तोक्तस्यैव शब्दस्यार्थाव्यभिचारसम्भवात् / शब्दस्यार्थ'प्रतिपादकत्वमेव मुख्यया वृत्त्या कि न कल्प्यते ? सम्बन्धाभावात्, असम्बद्धस्य गमकत्वे चातिप्रसङ्गात् / 'शब्दार्थयोरस्ति स्वाभाविकः सम्बन्ध इति चेत् ? [न] शब्दस्यकस्य देशभेदेन नानार्थेष प्रयोगात् / यत्रायमार्यैः प्रयुज्यते तत्रास्य वाचकत्वम्, इतरत्र सङ्केतानुरोधात् प्रवृत्तस्य लिङ्गत्वमिति चेत्? न, तुल्य एव तावच्चौर शब्दस्तस्करे भक्ते च प्रतीतिकरः, तत्रास्य तस्करे वाचकत्वं भक्ते च लिङ्गत्वमिति नास्ति विशेषहेतुः। [पं०] पर: पृच्छति शब्दस्येत्यादि (कं. 215.12) / मुख्यया वृत्त्येति (कं. 215.11) आप्तोक्तत्वं विनापीत्यर्थः / विवक्षाप्रतिपादनद्वारेणार्थप्रतिपादकत्वाद्धि गौणी वत्तिः। श्रीधरः प्राह सम्बन्धाभावादिति (कं. 215.13) / एकस्य शब्दस्य देशभेदेन ना[ना]र्थेषु प्रयोगादिति (कं. 215.14) स्वाभाविकसम्बन्धे हि सति एकस्य शब्दस्य नानार्थेषु प्रयोगो न घटते इति हृदयम् / यत्रेति (कं. 215.14) [रा] चौरादौ / अयमिति (कं. 215.14) शब्दः / इतरत्रेति (कं. 215.15) भक्तादौ दाक्षिणात्यादिषु / नास्ति विशेषहेतुरिति (कं. 215.17) किन्तुभयत्रापि लिङ्गत्वमेवेत्यर्थः / उभयाभिमतेति. (कं. 215.18) भक्तवत्तेलिङ्गत्वमुभयाभिमतम् / 'उभयत्रेति (कं. 517.8) शब्देऽर्थे च यत: शब्दं वाचकत्वेनापेक्षतेऽथं च वाच्यत्वेन / भवद्भिरिति (कं. 215.20) मीमांसकैः। परवाक्यं [10] अर्थापत्तेरसिद्धिमाशब्दस्ये (य) कस्येति / न चैकस्मिन्परस्परविरोधिकार्यद्वयानुकूलशक्तिद्वयमाशरूमीयम् , प्रमाणविरोधादिति भावः / / ननु शिष्टयोरभेदादयमदोष इत्यभिप्रायेण शङ्कते-यत्रायमिति / प्रमाणविरुद्धेऽयं भेद: कल्प्यत इत्याशयेन परिहरति - तुल्य एव तावदिति ( कं. 215 ) / भक्ते प्रयुज्यमान चोरशब्दस्तस्करप्रयुज्यमानानांततो भियते / तत्रानानुशिष्टत्वादिति / प्रयोगे हेतुः कालात्ययापदिष्टो, वर्णानामैकरूप्यादानुपूत्त्विकजातीयत्वस्य प्रत्यक्षेण ग्रहणात् / प्रवृत्तिप्रकारभेदश्वासिद्धः / उभयत्रापि संकेतमात्रबलेन प्रवृत्तेरनुशासनं तु केवल मदृष्टा (ष्टम्) / यथा शास्त्रतो नियम इति / अत्र चाहुः- यो हवा अवि (न्वि) तायछन्दः प्रकृतिप्रत्ययविभागानभिज्ञः स स्वानुत्वं च छति गर्तयापद्यते प्रमीयते पापीयान् भवतीति विज्ञायत इति / ततश्च प्रत्यवायपरिहाराय व्याकरणमध्येयमिति गम्यते। अर्थप्रसोतेस्तु संकेत एवोपाय इति स्थितप्रयोगमाह - आर्याणामपोति / वाचकत्वान्यथानपपत्तिरूपामर्थापति दूषयितुमपक्रमते 1 विवक्षावगति-कं. 1; कं. 2 / 2 प्रतिपादन- कं.१; कं.२। 3 अस्ति स्वाभाविक:- कं. 1; कं. 2 / 4 चौरशब्दात्तस्करे भक्ते च प्रतीतिप्रकार: - जे. 1, जे. 2, जे. 3 / 5 प्रतीकमिदं कं. 1 पुस्तके नास्ति-सं. / कं. 2 पुस्तके नास्ति /