________________ न्यायकन्दलीसंवलितप्रशस्तपावभाष्यम् न्यायकन्दली विग्यासस्य वशसंख्याप्रतिपादनाभिप्रायाव्यभिचारोपलम्भात् / कर्तुस्तत्प्रतिपावनाभिप्रायावगतिमुखेनास्य दशसंख्याप्रतीतिहेतुत्वमिति चेत् ? शब्दस्याप्येवमेव / प्रथम गोशम्बाबुग्यारिताद्वक्तुः ककुदाविमवर्थविवक्षा गम्यते, स्वसन्ताने गोशब्दोच्चारणस्य पवार्षविवक्षापूर्वकत्वो पलम्भात् / तदर्थविवक्षया चार्थानुमानम् / अयं चात्र प्रयोगःपुरुषो धर्मो ककुदादिमदर्थविवक्षावान्, गोशब्दोच्चारणकर्तृत्वादहमिवेति / अर्थाभावेऽप्यनाप्तानां विवक्षोपलब्धेर्न विवक्षातोऽर्थसिद्धिरिति चेत् ? शब्दादपि कथं तत्सिद्धिः ? भ्रान्स्या विप्रलम्मधिया वार्यशून्यस्य शब्दस्य प्रयोगात् / आप्तोक्ताच्छन्दादर्थप्रतीतिरिति चेत ? आप्ताभिप्रायादेवार्थस्याधिगतिरिति समानम् / [टि०] उभयत्र वत्तपति शब्दाधारत्वाद् वाच्यनिष्ठत्वाच्चोभयत्र शब्दे 'वाच्ये च दत्तपदा / ज्ञापकत्वादि इति चक्षुरादयस्त्वज्ञाता अपि ज्ञापका 'भवन्ति तथैवान्वयव्यतिरेकदर्शनात् / शब्दस्य हि निजम् इति - वैशेषिकमट्टमते सामान्यं, प्रभाकरमते तु स्वरूपमेवेति / विशिष्टा चानुपूर्वी इति / नदीवनेत्याद्यक्षरक्रम आनुपूर्वी विपर्यये 'दीननवेत्यर्थान्तरप्रतीतेः। तस्मादेव च इति निजमेकं द्वितीयमागन्तुकमिति सामर्थ्यद्वयमन्यथा सामर्थ्य त्रयं स्यात् / [पं०] नाप्येककालस्वम् (कं. 214.22) इत्यतः पुरः इतीति अध्याहार्यम् / पर: प्राह क्रयेत्यावि (कं. 214.22) / कर्तुरिति (क. 215.24) अङ्गुलीविन्यासकर्तुः / तत्प्रतिपादनाभिप्रायाऽवगतिमुखेन (कं. 214.24) इत्या तच्छब्देन : दशसहचा। अस्येति (कं. 214.24) अङ्गुलीविन्यासस्य / स्वसन्ताने इति (कं. 215.1) वक्तुविवक्षां सूचयेयः शम्बा इति / बौद्ध सह साम्यात स्वसन्तानैश्चात्मनेत्यर्थः / तवति (कं. 215.1) ककूदादिमदर्थस्य व्याख्या। अर्षानुमानमिति (कं. 215.2) गोलक्षणार्थानुमानम् / अनाप्तानामिति (कं. 215.6) [वि]प्रलम्भकानाम् / .. अस्मादिति (कं. 215.10) शब्दात् / कि० प्रतिपादकत्वमकामेनाप्यभ्युपगंतव्यम् / तथा चोरयोरव्याप्तत्वानुसरणं समानम / एवं चानाप्तशब्दे शब्दत्वाध्यारोपादर्थविवक्षा भवतोति वदताऽर्थविवक्षायामलिंगे लिंगत्वाध्यारोपाल्लिगत्वभ्रम इत्यपि समानमिति अन्वयव्यतिरेकाभावेऽप्यर्थप्रतीतिहेतुः / शब्दोऽनुमानाद्भिद्यत इति यदुक्तं तत्राह - यस्त्विति / यदि शब्दोऽर्थे साक्षाल्लिङ्गमुच्यते तदा भवेदेशकालविशेषयोरव्यभिचारः / नत्वेवं किन्तु विवक्षां मध्येकृत्य (त्वा) लिंगमुच्यते / अर्थविवक्षां चाप्रोक्तः शब्द: कदाचिन्न व्यभिचरतीत्याह - शब्दस्त्विति / न च दाक्षिणात्यप्रयुक्तचौरशन्दस्य तस्करान्वयाभावो दोषायेत्याहअत एवेति / असनप्यर्थो विषयतया विवक्षामवच्छिन्नतीति स्वात्मसिद्धम् / ननु तावन्तरेण शब्दमेवावच्छेतुमीश्रे इति प्रश्नोत्तराभ्यां दर्शयति / शब्दस्येति / मीमांसकमतमाशंकते - शब्दार्थयोरिति / नियतार्थप्रतीतिरूपकार्यान्यथान- . पपत्त्या कल्प्यमान इति शेषः / 1 पसन्धेः - जे. 1 / 2 समानार्थ:- कं. 1; कं. 2 / 3 वाच्येव - ड। 4 सम्भवन्ति - अ / 5 नयनित्य -ह। 6 तस्मादेव म.; तस्मादेवष-जे. १,जे. 2, जे. 3 /