________________ टिप्पणपञ्जिकासमोगमाविटीकात्रयोपेतम् .. न्यायकन्दली शब्दादीना'मनुमानेऽन्तर्भावोऽनुमानाव्यतिरेकित्वम् / समानविधित्वात् समानप्रवृत्तिप्रकारत्वात् / यथा व्याप्तिग्रहणबलेनानुमानं प्रवर्तते, तथा शब्दापयोऽपीत्यर्थः / शब्दोऽनुमानं व्याप्तिबलेनार्थप्रतिपादकत्वाद्धमवत् / समानविधित्वमेव वर्शयति-यथेति / प्रसिद्धः समयोऽविनाभावो यस्य पुरुषस्य तस्य लिङ्गदर्शनप्रसिद्धधनुस्मरणाभ्यां, 'लिङ्गदर्शनम् च, यत्र धूमस्तत्राग्निरित्येवं भतायाः प्रसिद्धरनुस्मरणं च / ताभ्यां यथाऽतीन्द्रियेऽर्थे भवत्यनुमानं तथा शब्दादिभ्योऽपीति / तावद्धि शब्दो नार्थ प्रतिपादयत्ति यावदयमस्याव्यभिचारीत्येवं नावगम्यते, ज्ञाते त्वव्यभिचारे प्रतिपादयन् धूम इव 'लिङ्गं स्यात् / अत्राह कश्चित्-अनुमाने साध्यधर्मविशिष्टो धर्मी प्रतीयते, शम्दावर्थानमाने [रि०] न सिद्धानि कथमनु मानेऽन्तर्भावोऽनुमानत्वादेव, अथानुमानान्यत्वेन सिद्धानि तथापि कथमन्तर्भावोऽन्यत्वेन सिद्धयत्वादित्यन्तंभविशब्दमन्यथा व्याचष्टे अन्तर्भावोऽनुमाना'व्यतिरेक इति / अत्राह कश्चिद् इति शब्दप्रमाणान्तरवादी व्योमशिवादिः / अनुमाने सर्वत्र तावत्पर्वतादिको धर्मी प्रतीयते साध्यं च वह्निमत्वादिकम् / 'अप्रतीतस्य साध्यत्वाभावानन्दाच्च पूर्वमर्थस्याप्रतीतत्वात् / अर्थवत्त्वं चेद् इति विवादाध्यासितः शब्दः अर्थवान् शब्दत्वादित्युल्लेखेन / तत्प्रतीत्या तु इति 'आप्तोक्तत्वप्रतीत्येत्यर्थः / [पं०] [185] अयमिति (कं. 214.4) शब्दः / अस्येति (कं. 214.4) अर्थस्य / [कु०] [185] स्थानानि (!) तस्मादिह नोक्त नीति, तत्कानीति - तत्कार्यबुद्धयः कस्मान्नोक्तानीत्यर्थः / कार्ये कारणोपचारात् / एवमुत्तरत्रापि प्रमाणान्तर्भावः प्रमाणानामेव वेदितव्यः / बुद्धचधिकारे मुख्यव्यावृत्त्या प्रमाणानामप्रसक्तेः / समानप्रवृत्तिप्रकारत्वादिति / प्रवृत्तिप्रकारो लक्षणमनमानस्योक्तमनुमेयेन संबद्धमित्यादिना, तेन समानमेतेषां लक्षणं यस्मादित्यर्थः / तदेतदाह-यथा व्याप्तिग्रहणबलेनेति। . . शब्दोऽनुमानमिति / शब्दादीनीति प्रमाणान्यनुमानानीति व्याख्येयम् / इतरथा शब्दादिभ्योऽपीत्यागामिभाष्येण विरोधप्रसंगात् / अनुमानमित्युद्योगे प्रसिद्धसमयस्येति षष्ठीकर्मणि वा कर्तरि चेति संदिह्यते। अतः कर्तर्यवेति निर्णेतुमन्यपदार्थ विशिनष्टि / पुरुषायेति / एवं हि प्रसिद्धि:-कार्य स्मरणं संगच्छेतेति / एवं शब्दादीनामनुमानाम्तर्भाव साधारणो हेतुाप्तिबलेनार्थप्रतिपादकत्त्वमुक्तं (पादक: उक्तः?)। तस्य शब्देऽसिद्धिमाशंक्य परिहरति-तावडीति / यावयमस्येति / अयं गवादिशब्दो अस्य ककुदादिमतोऽर्थस्याव्यभिचारी नियमेन वाचक इत्येवं संकेतो यावन्न गृह्यतेन स्मयंत इत्यर्थः / ज्ञाने त्वव्यभिचारिणि]गहीते स्मृते वा संकेत इत्यर्थः / 1 मप्यनुमाने - जे. 1; जे. 2 / 2 लिङ्गदर्शनम् - कं. 1; कं. 2 / 3 लिङ्गमेव - जे. 1; जे. 2; जे. 3 / 4 मानोऽन्तर्भावो- अ. ब। 5 व्यतिरेकित्वम् - मु. जे. 1, जे. 2, जे. 3 / 6 अप्रतीतेः- अ, ब, क; अप्रतीतस्याप्रतीते:- ड। 7 आप्तोक्तत्वं -अ /