________________ 500 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली को धर्मी ? न तावदर्थः, तस्य तदानीमप्रतीयमानत्वात् / शब्दो धर्मीति चेत् ? किमस्य साध्यम् ? अर्थवत्त्वं चेत् ? न पर्वतादेरिव वह्नयादिना शब्दस्यार्थेन सह संयोगसमवायादिलक्षणः कश्चित् सम्बन्धो निरूप्यते, येनायमर्थविशिष्टः साधनीयः / प्रतिपाद्यप्रतिपादकभाव एव हि तयोः सम्बन्धः, सोऽर्थप्रतीत्युत्तरकालीनो नार्थप्रतिपादनात् पूर्व सम्भवति / 'नचाग्निधूमयोरिव शब्दार्थयोरस्त्यविनाभावनियमः, देशकालव्यभिचारात्; तद्वयभिचारश्चासत्यपि युधिष्ठिरे कलौ युधिष्ठिरशब्दप्रयोगात्, असत्यामपि लङ्कायां जम्बुद्वीपे लङ्काशब्दश्रवणात् / तस्मादनुमानसामग्री वैलक्षण्याच्छब्दो नानुमानम् / [टि०] अथाचार्यः पराभ्युपगते चेष्टारूपेऽनुमानेऽपि शब्देन सह तुल्यदोषतां दर्शयति यदूर्वीकृतायाम् इत्यादि / क्रयविक्रयव्यवहार इत्यादि - “विवादास्पदं वणिक् दशसंख्याप्रति पादनाभिप्रायवान्, तथाविधामुलीन्यासंयुक्तत्वान्मद्व-. दित्यनुमानम् / स्वसन्ताने इति बौद्धः सह साम्याद् बौद्धाभिप्रायेण स्वसन्ताने आत्मन्येवेत्यर्थः / शब्दादपि कथम् इति शब्दाद् पृथकप्रमाणत्वेनाभ्युपगतात् / 'चौरादिशब्दस्यार्थाभिप्रायव्यभिचारेण निरुपाधिसम्बन्धाभावात्कथमभिप्रायगमकत्वमित्याह यस्तु सत्यपि लिङ्गत्वे इति / शब्दप्रमाणान्तरवाद्याह शब्दस्यार्थप्रतिपादकत्वमेव इति / . [पं०] अत्राह कश्चिदिति (कं. 214.6) कश्चिद्व्योमशिवादिः / व्योमशिवेनापि यतः शब्दस्यानुमानान्तर्भावो निषिद्धः। . अप्रतीयमानत्वादिति (कं. 214.7) अप्रतीयमानश्च धर्मी न भवति / येनायमिति (क: 214.9) अयं शब्दः / प्रतिपाद्यप्रतिपादकभाव इति (कं. 214.10) वाच्यवाचकभावः / स चेति (कं. 214.10) स सम्बन्धः / अथ धूमोऽपि देशविशेषवह्नि व्यभिचरति तत्राह न धूमो वह्निमित्यादि (कं. 214.14) / . [कु.] तदानीमप्रतीयमानत्वादिति / प्रतीयमानत्वे त्वनुमानवय्योदिति भावः / इह शब्दस्यार्थविशिष्टत्वं, विशेषणविशेष्यभावश्च सर्वत्र सम्बन्धान्तरपूर्वक एव घटाभावादीनां भूतलादेराहार्यप्रतियोगिसंयोगादिरूपसम्बन्ध. पूर्वकत्वदर्शनात् / भावे हि संयोगादिरूपो [रूपसम्बन्धो? ]ऽन्यत्राद्यः- इत्याह- न पर्वतादेरिवेति / न द्वितीय इत्याहप्रतिपाद्यप्रतिपादकभाव एवेति / संकेतो नाविनाभाव इत्याह-न चाग्निधमयोरिति / न केवलं व्यभिचारसंकेतो नाविनाभावः, अनियतार्थत्वाच्चेत्याह-इतोऽपीति / न हि दाक्षिणात्यप्रयुक्तस्य चौरशब्दस्य तस्करेणाश्रय... नापि आर्यावर्तवासिप्रयुक्तभक्तेनाश्रय इत्यर्थः / तदेवमन्वयव्यतिरेकाभावेऽप्यर्थप्रत्तीति हेतुत्वाननुमान शब्द इत्युक्तम् / इदानीमाप्तोपदेश शब्द इति लक्षणभेदाच्च नानुमानमित्याह यदीति / तत्रार्थरूपसाध्यस्य बिशिष्टस्य धर्मिणो भावाच्छब्दस्यानुमानबहिर्भाव इति यदुक्तं तत्समानन्यायेन परिहर्तुं प्रतिबंदीमाह -यदुवीकृतायामिति / प्रतिबंदीमोचनमाशंकते-ऋयविक्रयेति / तदेतत्समानमित्याह-शब्दस्यापोति / प्रथमं विवक्षागम्यत इत्यन्वयशंकापूर्वपृथक प्रमाणवादिनोऽव्याप्तोक्तत्वानुसरणं समानमित्याह-अर्थाभावेऽपीति / समानमित्येतेन न च वाच्यं पृथक प्रमाणवादिनो 1 नाप्य - कं. 1, कं. 2 / 2 योगात् - जे. 1 / 3 वैधात् - जे. 3 / 4 विवादास्पदः - अ, ब, क / 5 पादनोभिप्रायवान् - अ, ब / 6 वारादि-अ, ब / 7 गमकत्वाम्-अ। 8 प्रतिपादन मु. प्रतिपादकत्व (4) पा. टि.-जे. 1, जे. 2, जे. 3 / 9 स-कं.१।