________________ 498 भ्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् . प्रशस्तपादभाष्यम् [185] शब्दादीनामप्यनुमानेऽन्तर्भावः, समानविधित्वात् / यथा प्रसिद्ध'समयस्य लिङ्गदर्शनप्रसिद्धयनुस्मरणाभ्यामतीन्द्रियेऽर्थे भवत्यनुमानमेवं शब्दादिभ्योऽपीति। न्यायकन्दली ततश्च प्रमाणफलयोर्न व्यधिकरणत्वम् / प्रकारान्तरमाह-अथवेति / अग्निज्ञानं प्रमाणम्, प्रमितिः प्रमाणस्य फलम् / अग्नौ गणदोषमाध्यस्थ्यदर्शनम् गणदर्शनं सुखसाधनमेतदिति ज्ञानम्, दोषदर्शनं दुःखसाधनत्वज्ञानम्, माध्यस्थ्यदर्शनं सुखदुःखसाधनत्वाभावज्ञानम्, अग्निज्ञाने सति तथाप्रतीत्युत्पादात् / एतत् स्वनिश्चितार्थमनुमानम् / निश्चितमिति भावे निष्ठा, स्वनिश्चितार्थ स्वनिश्चयार्थमेतदनुमानमित्यर्थः / [185] शब्दादीन्यपि प्रमाणान्तराणि सङ्गिरन्ते 'प्रवादिनः, तानि कस्मादिह नोक्तानि? इति पर्यनुयोगमाशङ्कय तेषामत्रैवान्तर्भावात् पृथगनभिधानमित्याह-शब्दादीनामपीति / [टि] ( // अथ विद्याभेदनिरूपणे शब्दादीनां प्रमाणान्तराणामनुमानेऽन्तर्भावनिरूपणम् // ) [185] अथ शब्दादीनामन्तर्भावः / / ननु शब्दादीनामप्यनुमानेऽन्तर्भाव इति भाष्ये / यदि शब्दादीन्यनुमानत्वे [पं०] अत्र लिङ्गज्ञानस्य लिङ्ग विषयो लिङ्गज्ञानस्य तु लिङ्गीति द्वयोरपि ज्ञानयोभिन्नविषयत्वात्करणक्रियाभावो न सम्भवति इत्याशङ्कयाह -"यद्यपी [ति] (कं. 2 13.4) / लिङ्गज्ञानस्यापोति (कं. 213.5) लिङ्गज्ञानस्येत्यादि-लिङ्ग एवेत्यर्थः ? // X [कु०] तत्रानुमान इति (कं. 213.3) / तस्यां लैंगिक्यां बुद्धौ प्रमाण करणमित्यर्थः / प्रमीयतेऽनेनेति व्याख्येयम् / पदान्तरलब्धे विशेषवाची शब्द: सामान्ये वर्तते / यथा गवासि गोपतिरेक इति-अत्र हि गवामेकपतिरसीत्यर्थः / ननु करणफलभावो विषयभेदे न संगच्छते / न ह्यग्निसंभवः खादिरविषयस्तत्फलं छिदापनविषयेत्यत (य इत्यत) आह-- यद्यपीति (कं. 213.4) / व्यापारात् लिंगलिङ्गिविषयत्वमिति (कं. 213.5) व्यापारविषयो हि करणप्रयोजयन तस्य मुख्यविषयः / नित्यानुबंधी तं प्रति स्वकार्यफलाभावे साधकतमत्वाभावादित्यर्थः / ___ प्रकारान्तरमिति (कं. 213.7) / नेदृशो विषयभेदः, करणफलभावं विहंति कारणशब्दाश्च निमित्तसमवेशात् प्रवर्तत इति दर्शयितुमिति शेषः / ननु निश्चितस्य कथमनुमानम्, सिद्धसाधनत्वादित्यत आह - निश्चितमिति / भावे निष्ठेति / 1 समयस्यासन्दिग्ध-कं. 1; कं. 2, कि.। 2 प्रतीत्युदयात् -जे. 1 / 4 भावान पृथग-कं. 1, कं. 2 / 5 यद्यपि लिंगेत्यादि-ब। 3 वादिनः - कं. 1, कं. 2 /