________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् .. प्रशस्तपादभाष्यम् [184] तत्र लिङ्गदर्शनं प्रमाणं प्रमितिरग्निज्ञानम् / अथवाग्निज्ञानमेव प्रमाणं प्रमितिरग्नौ गुणदोषमाध्यस्थ्यदर्शनमित्येतत् 'स्वनिश्चितार्थमनुमानम् / न्यायकन्दली -- यः पुनरत्रानुमेयः स्वर्गादिलक्षणः फलविशेषो नेतज्जातीयस्य फलस्य नियमो दृष्टो वर्णाश्रमिणां प्रवृत्तेरपि जीविकामात्रमेव प्रयोजनमिति बार्हस्पत्याः, तदर्थमाहदृष्टं प्रयोजनमद्दिश्यति / सन्त्येव तथाविधाः पुरुषा ये खलु दृष्टनिस्पृहा वानप्रस्थादिक व्रतमाचरन्ति; तेषां प्रवृत्तेरिदं फलानुमानमिति न 'सिद्धसाध्यतेत्यर्थः / [184] प्रमाणशब्दः करणव्युत्पत्तिसिद्धो न फलं विना पर्यवस्यति, अतः प्रमाणफलविभागं दर्शयति-तत्र लिङ्गदर्शनं प्रमाणमिति / तत्रानुमाने लिङ्गज्ञानं प्रमाणं प्रमीयतेऽनेनेति व्युत्पत्त्या, प्रमितिः प्रमाणस्य फलमग्निज्ञानम् / यद्यपि लिङ्गलिङ्गिज्ञानयोरुत्पत्त्यपेक्षया विषयभेदस्तथापि लिङ्गज्ञानस्यापि लिङ्गिनि ज्ञानोत्पत्तौ व्यापाराल्लिङ्गिविषयत्वम्, [टि.] अत्र तु लिङ्गज्ञानस्य लिङ्ग विषयः लिङ्गिज्ञानस्य तु लिङ्गीति द्वयोरपि ज्ञानयोभिन्नविषयत्वात् करणक्रियाभावो न सम्भवतीत्याह यद्यपि 'लिङ्ग लिङ्गीति :- ज्ञानद्वयस्याप्येकत्रैव लिङ्गिनिर्व्यापारात् / ( // इत्यनुमाननिरूपणम् // ) [पं०] एतज्जातीयस्ये (कं. २१२.२२)ति - स्वर्गादिजातीयस्य। 'बाहस्पि] त्या इति (कं. 212.24) नास्तिकाः / प्रवृत्तेरिति (कं. 212.25) प्रर्वतनात् / 'न सिद्धसाध्यतेति (कं. 213.1) वर्णाश्रमिणां प्रवृत्तिः जीविकामात्रफलत्वमिति 'नास्तिकोक्तं नास्माकं सिद्धमित्यर्थः / ननु समानविषययोरेव करणक्रियाभावो दृष्टो न भिन्नविषययोः न हि न्यग्रोधबद्धप्रहारः कुठारो धवध्वंसाय धावति / [कु०] बार्हस्पत्या: - चार्वाकाः / सन्त्येव हीति (कं. 212.24) ये ह्युपनतमपि सुखसाधनं परित्यज्य, कृच्छ्चान्द्रायणादिदुःखसाधनमेवमुपाददते न तेषां जीविकालिप्सेति भावः / - [184] ननु विद्याप्रभेदस्य लैंगिक्या बुद्धयाख्याख्यानावसरे प्रमाणफलविभागस्य क:(को) प्रस्ताव इत्यत * आह-प्रमाणशब्द इति (कं. 213.1) / लैंगिकी बुद्धिः बुद्धयन्तरालिङ्गात्मना कारणेनैव भिद्यते / अतस्तन्निरूपणमपि युक्तमेव / करणत्वं च फलनिरूपणेनैव निरूपणीयम् / अतः फलमपि प्रमाणाद्विलक्षणं निरूपणीयमिति भावः / 1 स्वनिश्चयार्थ-व्यो. (576) / 2 सिद्धः साध्यत इत्यर्थः- कं. 1; कं. 2 / 3 यद्यपि लिङ्गि-अ, ब / 4 अत्र पादटिप्पणे कं.१ अग्निहोत्रं त्रयो वेदास्त्रिदण्डं भस्मगुण्ठनम् / वृद्धपौरुषहीनानां जीविकेति बृहस्पतिः / इत्यादि बार्हस्पत्यं सूत्रं सर्वदर्शनसंग्रहादत्रामाणकत्वेनोद्धतम्-कं.१ सम्पादकः। 5 न सिद्धः साध्यते-कं. . .