________________ 496 न्यायकन्दलीसंवलितप्रशस्तपावमाष्यम् न्यायकन्दली यथा गव्येव सानामात्रमपलभ्य देशान्तरे गवि प्रतिपत्तिः। पूर्व गोत्वजातिविशिष्टायामेव गोव्यक्तौ सानोपलब्ध्या सम्प्रत्यपि गोत्वजातिविशिष्टाया एव गोव्यक्तेरनुमानमत्यन्त'जात्यभेदे / इदं च दृष्टमित्याख्यायते / सानामात्रदर्शनाद्वनान्तरे यदनुमीयते गोत्वसामान्यं तस्य स्वलक्षणं पूर्व नगरे दृष्टमिति कृत्वा प्रसिद्धसाध्ययोरत्यन्तजातिभेदे लिङ्गानुमेयधर्मसामान्यानुवृत्तितोऽनुमानं सामान्यतोदृष्टम् / प्रसिद्ध लिन सह प्रतीतं साध्यमनमेयं तयोरत्यन्तजातिभेदे सति, लिङ्ग चानुमेयधर्मश्च लिङ्गानुमेयधर्मी, तयोः. सामान्ये लिङ्गानुमेयधर्मसामान्ये तयोरनुवृत्तिः लिङ्गानुमेयधर्मसामान्यानुवत्तिः, ततो लिङ्गसामान्यस्य साध्यसामान्येन सहाविनाभावाद् यदनुमानं तत् सामान्यतोदृष्टम् / यथा कर्षकवणिग्राजपुरुषाणां प्रवृत्ते: फलस्वमुपलभ्य वर्णाश्रमिणामपि दृष्टं प्रयोजनमनुद्दिश्य प्रवर्तमानानां फलानुमानम् / कर्षकादिप्रवृत्तेः फलं दृष्ट्वा वर्णाश्रमिणां प्रवृत्तेरपि फलानुमानम्, कर्षकस्य प्रवृत्तेः फलं शस्यादिकम, वणिजो राजपुरुषस्य च प्रवृत्तेः फलं काञ्चनमणिमुक्तावाजिवारणादिकम, वर्णाश्रमिणां च प्रवृत्तेः फलं स्वर्गादिकमित्यनयोरत्यन्तजातिभेदः / अनुमानोदयस्तु . प्रवृत्तित्वसामान्यस्य फलवत्त्वसामान्येनाविनाभावात् / अत एव चेदं सामान्यतोवृष्टमुच्यते, सामान्येन नियमदर्शनात् / [पं०] दृष्टमिति (कं. 212.16) आजीविकालक्षणम् / अनयोरिति (कं. 212.20). फलयोः / नियमदर्शनादिति (कं. 212.21) अविनाभावदर्शनात् / [कु०] इदं चेति (कं. 212.9) / च शब्दोऽनुक्तसमुच्चय (य)कव्यक्तिविषयं चेत्यर्थः / तच्चास्माभिः प्रागेव प्रतिपादितम् / तस्य स्वलक्षणमिति (कं. 212.10) / गोत्वस्यापि सामान्यशब्दाभिधेयत्वे साम्येऽपि सामान्यतोदृष्टात् भेदं दर्शयितुमुपचारः। साध्यसामान्येनेति (कं. 212.15) अनुमानव्यपदेशकेन फलत्वादिसामान्येनेत्यर्थः / उदाहरिष्यमानं हि स्वर्गा (दिप्यः) व्यपदिश्यते / 'स्वर्गानुमानमिति (कं. 212.19) ततश्च यत्रानुमानव्यपदेशिका जातिभिद्यते व्याप्तिग्रहणविषयभूता जातिविशेषा तुभयोरन्या। पक्षेऽन्याजातिाप्तेः प्रयोजिका, तत्सामान्यतोदृष्टमित्यवगंतव्यम् / तमेव व्यपदेशकजातिभेदमदाहरणे दर्शयति-कर्षकस्येति (कं. 212.18) / व्याप्तेः प्रयोजिकां जाति दर्शयति"भनुमानोक्यमिति (कं. 212.20) / व्यपदेशिकाया जातेाप्तिग्रहणविषयत्वं दर्शयति - यः पुनरिति (कं. 212.22) / 2 जात्यभेदः - कं.१; जे..१, जे. 2, जे.३। 1 विशिष्टायामेव -कं. 1, कं.२। 4 नोदयः -के। 3 स्वर्गादिकं-कं /