________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् 495 प्रशस्तपादभाष्यम् [183] तत्तु द्विविधम् -दृष्टं सामान्यतोदृष्टं च / तत्र दृष्टं प्रसिद्ध साध्ययोर्जात्यभेदेऽनुमानम् / यथा गव्येव 'सास्त्रामुपलभ्य देशान्तरेऽपि सानामात्रदर्शनाद् 'गवि प्रतिपत्तिः / प्रसिद्धसाध्ययोरत्यन्तजातिभेदे लिङ्गानुमेयधर्मसामान्यानुवृत्तितोऽनुमान सामान्यतोदष्टम् / यथा कर्षकवणिग्राज पुरुषाणां प्रवृत्तेः फलवस्वमुपलभ्य वर्णाश्रमिणामपि दृष्टं प्रयोजन'मनुद्दिश्य प्रवर्तमानानां फलानुमानमिति / . न्यायकन्दली [183] भेदं कथयति-तत्तु द्विविधं दृष्टं सामान्यतो दृष्टं चेति / 'नुशब्दोऽवधारणार्थः। . तदनुमानं द्विविधमेव दृष्टमेकमपरं सामान्यतोदृष्टम् / ____तत्र तयोर्मध्ये दृष्टं प्रसिद्धसाध्ययोर्जात्यभेवेऽनुमानम् / प्रसिद्धं यत्पूर्व लिङ्गन सह दृष्टं साध्यं यत् सम्प्रत्यनुमेयं तयोरत्यन्तजात्यभेदे सति यदनुमानं तद् दृष्टम् / * [ft0] [183-184] प्रसिद्धं यत्पूर्वमिति सपक्षे इत्यर्थः / लिङ्ग चानुमेयधर्मश्च इति- अत्रानुमेयशब्देन धर्म विशिष्टो 'धर्मीः गृह्यते ततः साध्यधर्मोऽनुमेयधर्मः / अनयो रत्यन्तम् इति-अनयोः दृष्टान्तीकृतसमस्तफलसाध्यफलयोः / मनु समानविषययोरेव करणक्रियाभावो दृष्टो न भिन्नविषययोः। न हि न्यग्रोधबद्धप्रहारः कुठारो धवध्वंसाय धावति / [पं०] [183-184] देशान्तरे इति (कं. 212.7) वनादौ / [0] [183] च शब्दोऽवधारणार्थ इति समानतन्त्रे पूर्ववच्छेषं सामान्यतोदृष्टम् / चेत्युक्तानां तिसृणां विधानामनयोरेव विधायोर्यथासंभवम्, तद्भावादित्यर्थः / तयोरत्यन्तजात्यभेदे सतीति सामान्यतोदृष्टस्यापि दर्शनविषयत्वे समाने पुनर्दष्टमिति ग्रहणात् ब्राह्मणपरिव्राजकन्याये नायं विशेषः सिद्धयतीति भावः / पूर्व गोत्वजातिविशिष्टायामिति (कं. 212.7) / यद्यपि पूर्वदृष्टा पित्रादिव्यक्तिरपि संप्रति कुड्यादिव्यवहितात ध्वनिविशेषेण लिङ्नानमीयत एव, तथाप्यनुमानव्यपदेशकसामान्यविशेषस्य व्याप्तिग्रहणविषयत्वेऽपि ज(त) दनुमानम्, तदपि दुष्टमेवेति दर्शयितुं भाज्ये सास्नया गवानुमानं उद (दा)हृतम् / न चार्वाग्भागदश (श)ने वृक्षस्येव सानामात्रदर्शने गोरपि प्रत्यक्षत्वात् सिद्धसाधनमिति वाच्यम्, कतिपयावयवदर्शनेऽपि अवयविग्रहणस्य यथादर्शनं कार्येकनेयत्वात् / यत्किञ्चिदवयवग्रहणेऽपि तहर्शनं संभवत्येवेति भावः / १साध्ययोरत्यन्त -कं.१, कं.२ कि। 2 सानामात्र - कं. 1, कं.२, कि। 4 नुमेये-दे। 5 पुरुषाणां च-कं. 1, कं.२, कि। 6 मपदिश्य वर्तमानानां-दे। 8 धर्म्य-अ, ब / 9 रत्यन्त-मु. जे.१, जे. 2, जे.३ / 3 लिङ्गविप्रतिपत्तिः-दे। 7 चशब्दो -कं. 1, कं.२।