________________ 494 न्यायकन्दलीसंवलितप्रशस्तपावमाष्यम् न्यायकन्दली अध्वर्याधा'वयन्नेवमादि यदविनाभतं लिङ्गं तत्सर्वमस्येदमितिपदेन सम्बन्धमात्रवचनात् सिद्धं परिगृहीतम् / अर्थान्तरमर्थान्तरस्य लिङ्गमिति न युज्यते भवति चेदतिप्रसक्तिः स्यादिति पर्यनुयोगमाशङ्कदमुक्तं सूत्रकारेणास्येदमिति / लिङ्गमित्यन्यत्वाविशेषेऽप्यस्य साध्यस्येवं सम्बन्धोति कृत्वा अस्येवं लिङ्गन सर्वस्येति सामान्येन सम्बन्धिमात्रस्य लिङ्गत्वप्रतिपादनात् / यद्यस्य देशकालाद्यविनाभूतं तत्तस्य लिङ्गमित्युक्तम्, तदेव हि तस्य 'यद्यस्याव्यभिचारि, यद्येन व्यभिचारि न तत् तस्य, अन्यत्रापि भावात् / अपि भोः! किमस्येदं कार्यमिति न 'सम्बन्धः, नेति ब्रूमहे, कार्यादिग्रहणं तर्हि किमर्थम्? निदर्शनार्थमित्युक्तम् / अवश्यं हि शिष्यस्योदाहरणनिष्ठं कृत्वा किमप्यव्यभिचारि लिङ्ग दर्शनीयमिति सूत्रे कार्यादिकमुदाहृतम् / 'न त्वेतावन्त्येव लिङ्गानीत्यर्थः / ... . [पं०] परः प्रवदति कार्यादीति (कं. 211.18) अनवरोषादिति (कं. 211.19) असङ्ग्रहात् / अर्थान्तरमिति (कं. 211.22) अध्वर्यो [रों] श्रावणादि / अर्थान्तरस्येति (कं. 211.22) होत्रादेः / न सर्वस्येति (कं. 211.24) स्थाने न सर्वमिति पाठः क्वचिदृश्यते सोऽपि नानुचितः / तदेवेति (कं. 211.26) लिङ्गम् / तस्येति (कं. 211.26) . साध्यस्य / तत्तस्येति (कं. 211.27) तल्लिङ्गं तस्य साध्यस्य गमकं न भवतीत्यर्थ: / परः पृच्छति अपि भो इत्यादि 1.27) श्रीधरवाक्यं 'औमिति ब्रमहे इति (कं. 211.28) न भवति सम्बन्ध इति ब्रमहे इत्यर्थः / ओमिति महे इत्यस्य स्थाने नेति बेमहे इत्यपि पाठः सोऽतिसुगमः / परः पृच्छति कायादीत्यादि (कं. 211.28) उत्तरं निदर्शनार्थ (कं. 211.28) मित्यादि / [कु०] ननु सम्बन्धमनुमानांगमित्येतत्कुत इत्यत आह-अर्थान्तरमिति (कं. 211.23) / ...प्रसंगनिवृत्तये सम्बन्धोऽनुमानांगम् / असौ स्वाभाविक एव / तथेति कुतोऽवसितमत माह सामान्येन इति (कं. 211.26) / उक्तं प्रशस्तदेवेन / वक्ता प्रशस्तदेवः सूत्रकारस्येतदभिमतमिति कुतोऽवसीयत इत्यत आह-तदेव हीति (कं. 211.27) / . लक्षावरोधाच्छ्रास्त्रप्रवृत्ति. न चो (चौ)पाधिक: सम्बन्धोऽनुमानांगमतस्तन्निवृत्तये अस्यैवेदमिति सावधारणमेतद्वाक्यमित्यर्थः / उक्तं विस्मृत्य शङ्कते-'अयि भो इति (कं. 211.27) / उक्तं स्मारयन्परिहरति -नेति (कं. 211.28) / बूमह इति (कं. 211.29) निदर्शनमिति (कं. 211.30) किमर्थमिति (कं. 211.30) अत आह. अवश्यमिति (कं. 211.30) / 1 श्रावयतीत्येवमादिपदा-कं.१; कं. 2 / 2 भवति प्रसक्ति:-कं.१; इति प्रसक्ति:-कं. 2 / 3 यद्यस्याव्यभिचारित्वेन व्यभिचारिन तत-कं. 1; तस्य अव्यभिचारि यः पुनः व्यभिचारिन तत्-जे.१७ यद्यस्याव्यभिचारि न तत्-जे.२। 4 न सम्बध्नातीति बूमहे-कं. 1, कं. 2, न सम्बन्धः ओमिति ब्रूमहे-जे.१। 5 न तावन्त्येव-कं. 1, कं. 2, न तु तान्येव -जे. 1, जे. 2 / 6 ओम् इति कं.१ पुस्तके नास्ति-सं। 7 अपि-कं।