________________ टिप्पणपश्निकाकुतुमोद्गमादिटोकाश्योपेतम् __ न्यायकन्दली उदाहरणान्तरमाह-चन्द्रोदयः समुद्रवृद्धरित्यादि / यदा चन्द्र उदेति तदा समुद्रो वर्द्धते कुमुदानि च विकसन्तीति नियमो येनावगतः, तस्य चन्द्रोदयः समुद्रवृद्धः कुमुदविकासस्य च लिङ्ग स्यात् / न च चन्द्रोदयः समुद्रवृद्धिकुमुद विकासयोः 'कार्यम् / उदयो हि चन्द्रस्य विशिष्टदेशसंयोगः, स च चन्द्रक्रियाकार्यः, न समुद्रवृद्धयादिनिमित्तः / न चायं समुद्रवृद्धः कारणं नापि कुमुदषिकासस्य, 'उत्कल्लोललक्षणाया वृद्धः, पत्राणां परस्परविभागलक्षणस्य च विकासस्य तत्कालसन्निहितकारणाधीनकर्मजन्यत्वादित्यादि वाच्यम् / शरदि जलप्रसादोऽगस्त्योदयस्य / 'जलस्य प्रसादो वैमल्यम्, तच्छरदि प्रतीयमानमगस्त्योदयस्य लिङ्गम् 'न कालान्तरे, व्यभिचारात् / कार्यादिष्यतिरिक्तमपि यदि लिङ्गमस्ति तर्हि न्यूनं सूत्रं सर्वलिङ्गानामनवरोधादत आह-एवमादि तत् सर्वमस्येदमिति सम्बन्धमात्रवचनात् सिद्धमिति / [पं०] विरोधः अनुपलब्ध्यापरनामा / स च चतुर्धा स्वभावकारणकार्यव्यापकभेदात् / विरोधोऽस्यास्तीति विरोधी तस्मात् : अभावोऽनुमीयते इत्यर्थः / स्वभावविरोधिनोऽभावानुमानं यथा नास्त्यत्र घटो द्रष्टुं योग्यस्यानुपलब्धेः / कारणविरोधेनाभावानुमानं यथा नाऽत्र धूमोऽग्न्यभावात् / कार्यविरोधिनोऽभावानुमानं यथा नात्र प्रतिबद्धसामर्थ्यानि धूमकारणानि धूमाभावात् / व्यापकविरोधिनोऽभावानुमानं यथा नात्र शिशपावृक्षाभावात् 4 / अस्येदं समवायीति लैङ्गिकमनुमानं भवति, समवायिनः सकाशात्समवायिनोऽनुमानं भवतीत्यर्थः, यथा रूपाद्रसानुमानं रसाद्वा रूपानुमानम् 5 इति सूत्रार्थः / अध्वर्युमिति (कं. 211.8) यजुर्वेदविदम् / विशिष्टदेशसंयोग इति (कं. 211.13) नभोदेशसंयोगः / कारणाधीने (कं. 211.16) त्यत्र कारणानि . वातादीनि / कालान्तरे इति (कं. 211.18) ऋत्वन्तरे। [कु०] तदेतद्यायं परिहर्तुं भाष्यमवतारयति / तत्र आदी आहेति (कं. 211.3) / कार्यादिव्यतिरेकेणापीति (कं. (कं. 211.4) / अवधारणार्थत्वे न स्यादिति भावः / न्यान्यमिति (कं. 211.7) नासति होतर्यध्वर्युराश्रावयेति वाचमुच्चारयतीत्यर्थः / प्रयोगस्त्वयं-अध्वर्युः संनिहितहोतृमान्, अध्वर्युत्वे सत्यासूचयेति प्रयुञ्जानत्वात् / पूर्वाय-... * काले आश्रावयेति प्रयुञ्जानेन न व्यभिचारः। तत्कालसंनिहितेति अवयवक्रियाहेतुहि नोदनादिः / न चासावप्राप्तेन चन्द्रोदयेन क्रियत इत्यर्थः / जलप्रसादो-वैमल्यमिति नाप्राप्तेन अगस्त्येन क्रियत इति भावः / इदं च कालाविनाभूतमित्याह - शरदीति (कं. 211.17) पूर्वयोरुदाहरणयोरस्मिन्प्राप्ते कार्यत्वमपि संभवेदित्यपरितोषादिदमुदाहरणं द्रष्टव्यम् / नोदाहरणमादरणीयमित्याजानानस्य शंकामुपगम्यस्य भाष्येण निराकरोति / कार्यादीति (कं. 211.18) / तथा च सिद्धान्ते अस्येदमित्यनुमानांगसम्बन्धप्रतिपादनं परिशिष्टमुदाहरणार्थमिति सूत्रार्थः / 3 प्रसादो वैशद्यम्-कं. 1, कं.२। 4 कालान्तरे 1 कार्य:-जे.१, जे. 2 / 2 कल्लोलता-जे. 1, जे. 2 / व्यभिचारात् -जे. 1, जे. 2 / 5 ननं तत्र - कं. 1, कं. 2 /