________________ 492 . न्यायकन्यालीसंवलितप्रशस्तपावमाष्यम् न्यायकन्दली ___ यदि देशकालाविनाभावमात्रेण गमकत्वं नन सूत्रविरोधः ? अस्येदं कार्य कारणं संयोगि विरोधि समवायि चेति लैङ्गिकमिति, तत्राह-शास्त्रे कार्यादिग्रहणं निदर्शनार्थ कृतं नावधारणार्थमिति / अस्येदमिति सूत्रे कार्यादीनामुपादानं लिङ्गनिदर्शनार्थ कृतम्, न त्वेतावन्त्येव लिङ्गानीत्यवधारणार्थम् / कथमेतदित्याह-कस्मादिति / उत्तरमाहव्यतिरेकदर्शनादिति / कार्यादिव्यतिरेकेणाप्यनुमानदर्शनाद् 'नावधारणार्थम् सूत्रम् / 'यत्र कार्यादीनां व्यतिरेकस्तद्दर्शयति-यथाध्वर्युरों श्रावयन् व्यवहितस्य होतुर्लिङ्गमिति / अध्वर्युोतारमोम् इत्येवं श्रावयति नान्यमित्येवं यस्य पूर्वमवगतिरभूत्तस्य ओं इति श्रावयन्तमध्वर्यु प्रतीत्य कुड्यादिव्यवहिते होतरि अनुमान होताप्यत्रास्तीति / न चाध्वर्युः होतुः कार्य न कारणं न 'संयो (गो) न च विरो (धी) न समवा (यो) चेति व्यतिरेकः / [टि०] कुड्यादिव्यवहितहोतृसहितओंश्रावण युक्तैवंविधाध्वर्युत्वात् पूर्वदृष्टाध्वर्युवदिति / न चायं समुद्रवृद्धः कारणम् इति-तुल्यकालभावित्वाच्च / शरदि जलेति अयं जलप्रसादोऽगस्त्योदयसूचक: एतत्कालावच्छिन्नजल प्रसादत्वात् सम्प्रतिपन्नजलप्रसादवत् / [पं०] गमकत्व (कं.२१०.२५) मित्यस्मात् पुरस्तदेत्यध्याहार्यम् / ननु सूत्रविरोध (कं. 210.25) इत्युक्तम् / अतः काणादसूत्रमेव दर्शयति 'अस्येदं कारणमित्यादि (कं. 210.25) / व्याख्या अस्य वस्तुन इदं कारणमिति लै [ङ्गिकम्] : अनुमानं भवति / कार्यात्कारणानुमानं भवतीत्यर्थः यथा भविष्यति वृष्टिविशिष्टमेघदर्शनात् 1 / तथा अस्येदं कार्यमिति लैङ्गिकं भवति कार्यात् कारणानुमानं भवतीत्यर्थः यथा अभूदृष्टिविशिष्टनदीपूरदर्शनात् एवम् अग्निरत्र धूमात्, अस्तीह चैतन्यं प्राणादिमत्वात् 2 अस्येदं संयोगीति लैङ्गिकं भवति; एकस्मात् संयोगिनः सकाशात् द्वितीयोऽपि संयोगी अनमीयते इत्यर्थः / यदा भविष्यतीह परिसरे रामोऽपि लक्ष्मणदर्शनात् / एवं भविष्यतीह नभसि अभ्रादिपिहिता द्वितीया पुनर्वसुतारका एकतरदर्शनात् 3 / अस्येदं विरोधीति अनुमानं भवति / स्वसन्निधानेन इतरस्य प्रतिषेधो [कु०] केचिदस्येदमित्यादिसूत्रार्थमन्यथागृहीत्वा चोदयन्ति - यदीति (कं.. 210.25) इदं सूत्रमेवं व्याचक्षते - अस्येदमिति (कं. 211.2) / यदद्वयं कार्यमित्येवमादिभिः प्रत्येकं सम्बध्यते तत्र कार्याद् धूमात् कारणस्य वह्वेरनुमानं, कारणाच्चेत्तन्तुसंयोगात्कार्यस्य पटस्यानुमानमिति कार्यकारणभावोऽनुमानाङ्गमिति पदम् / कार्यकारणपदाभ्यां दर्शनसंयोगसमवायिविरोधात् / यत्र यः सम्बन्धः परिशिष्टो त्रिभिःपादे (द) रनुपमानांगतया दर्शितः / तत्र विषाणो न गवादेरनुमानम् / संयोगस्योदाहरणं-वारिणि प्रतीयमानेनोत्पलस्पर्शेन तेभ्योऽनुमानं, समवायस्य विस्फूर्यदक्षिणाव्यवहितस्योत्पला [न]मानं विरोधस्येति चतुर्विध एव संबंधोऽनुमानांगमित्यवधारणार्थमेतत्सूत्रमितरथा स्वा (स्वा)भाविकसम्बन्धस्येवानुमानांगत्वे कार्यादिपदं वैय्यर्थ्यमि (व्यर्थमि? )ति एवं च विरोधः / 3 संयोगेन च विरोधे न समवाये- कं.१। 1 नावधारणार्थम् - कं.१; कं.२। 2 तत्र यत्र-कं.१। 4 युक्तत्वैवं-अ, ब, क / 5 अस्येदं कार्य-कं.१।