________________ 491 टिप्पणपञ्जिकाकुसुमोद्गमाविटीकात्रयोपेतम् / / प्रशस्तपादभाष्यम् [182] एवं सर्वत्र देशकालाविनाभूतमितरस्य लिङ्गम् / शास्त्रे च कार्यादिग्रहणं निदर्शनार्थं कृतं नावधारणार्थम्, कस्मात् ? व्यतिरेकदर्शनात् / तद्यथा अध्वर्युरों श्रावयन् व्यवहितस्य होतुर्लिङ्गम्, चन्द्रोदयः समुद्रवृद्धः कुमुदविकासस्य च शरदि जलप्रसादोऽगस्त्योदयस्येति / एवमादि सत्सर्वमस्येदमिति (वै. सू. 9-2-1) सम्बन्धमात्रवचनात् सिद्धम् / ____न्यायकन्दली [182] एवं देशकालाविनाभूतमित'रस्य साध्यधर्मस्य लिङ्गम्, यथा धूमो वह्नलिङ्गम्। एवं देशाविनाभूतं कालाविनाभूतं चेतरस्य साध्यधर्मस्य लिङ्गम् / यथा काश्मीरेषु सुवर्णभाण्डागारिकपुरुषैर्यववाटिकासंरक्षणं यवनालेषु हेमाङ्करोद्भवस्य लिङ्गम् / कालाविनाभूतं यथा प्राग्ज्योतिषाधिपतेर्वेश्मनि 'जयनान्दोनिनादो नृपतिप्रबोधस्य [टि०] [182] यथा कश्मीरेषु इति 'विवादाध्यासिताः यवाः सम्प्रति सुवर्ण शलाकोद्रेववन्तः भाण्डागारिकपुरुष रक्ष्यमाणत्वात् प्राग्वर्षय'ववत् / प्राग्ज्योतिषाधिपतेः इति कामरूपदेशाधिपस्य / विवादा'ध्यस्तः कालः एतद्देशाधिपनृपप्रबोधशाली नान्दीनि नादोपलक्षितप्रातःकालत्वात् 'प्राग्दिवसप्रातःकालवदिति / अध्वर्यः इति विवादाध्यस्तोऽध्वर्युः [पं०] [182] यवनालेषु हेमाङ्कुरोऽदस्य लिङ्गमिति (कं. 210.23) किल कश्मीरेषु यदा भवन्ति तन्नालेषु च सुवर्णाकुरोद्भेदो भवति / यदा च तेषां राजनियुक्तसुवर्णभाण्डागारिकपुरुषा रक्षणं कुर्वन्ति तदा ज्ञायते जातो हेमाङ्कुरोद्भेदः / प्राग्ज्योतिषोधिपतिरिति (कं. 210.24) कामरूपनरेन्द्रस्य / [कु०] [182] ननु यदि स्वाभाविकसम्बन्धग्रहो वेशकालावस्थाविशेषग्रहणेनैव तहि तदन्तरभाव्यनुमानं क्वापि न स्यादिति शङ्का प्रसिद्धतया उन्यस्य तन्निराकारणभाष्यं व्याख्यातुं पठति - एवं देशकालेति (कं. 220.21) / व्यभिचारिणो हि देशादयरूपा व्यभिचारिणस्तु गमका एवेति भावः / देशाविनाभूतमिति (सं. 222) / देश वैशिष्ट्येनाविनाभूतमित्यर्थः / एवमितरत्रापि-यथा काश्मीरेष्वतिप्रयोगः- एतानि यवबीजानि हेमांकुरकारीणि * कश्मीरेषप्यमान एव वीक्षया तं संप्रति यत्नवदिति सुवर्णभांडागारिकसंरक्षणस्य लिङ्गत्वमनुग्राहकतर्कप्रदर्शनायोक्तं यदि कश्मिरे यववाटिकायां हेमांकुराः न भवेयुः सुवर्णभांडागारिकाः तान् न रक्षेयुरिति हि तर्कः / प्राग्ज्योतिषेति (कं. 210.24) अख्यात्या एवममुमिम [मि]ति, इदं नृपतिर्वेश्म, इदानीं प्रबुध्यमाननृपतिः, किं प्रातःक्रियमने... [गा! ]यनादीनि नीदध्यात् पूर्वदिनप्रातरुपलब्धेः तद्वेश्मवदिति तदेवमव्यभिचारिदेशाद्यं त (...) व्यापिस्वाभाविक एव सम्बन्धोऽनुमानांगनककार्यकारणभावादिकमिति समर्थितम् / 1 इतरस्य लिङ्गम्- कं. 1, कं. 2 / 2 प्रातर्गायनादीनि - कं. 1, कं. 2 / 3 निवादा-अ, ब / 4 शिलाका -भ, ब, क। 5 पवत्-अ, ब। 6 ध्यवस्ततः-भ, ब। 7 प्राग्दिवसः-अ, ब /