________________ 490 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली अस्माभिरपीत्थमेव सर्वत्र निश्चीयमानो नियमः किं भवद्भ्यो न रोचते ? किञ्च, भवतो प्रत्यक्षागोचरः सामान्येन कार्यकारणभावः, अनुभवतोऽवस्तुत्वाद, व्यक्तयस्तादृश्यः। 'तास्तु सर्वानप्रत्यक्षेण गृह्यन्ते / न चातीता'नागतानां व्यक्तीनां मनसा संकलनमिति न्याय्यम्, मनसो 'बहिरर्थेषु 'स्वातन्त्र्येऽन्धबधिराद्यभावप्रसङ्गात् / दृष्टासु व्यक्तिषु कार्यकारण भावाध्यवसाये च दृष्टासु नानुमानोदयस्तदन्यत्वात् / नापि व्यक्तीनां साध्यसाधनभावो युक्तः, परस्परमनन्वितत्वात् / न च तासामेकेन सामान्येनोपग्रहः, वस्त्ववस्तुनोः सम्वन्धाभावात्, असम्बद्धस्योपग्राहकत्वे चातिप्रसङ्गात् / तत्किविषयः प्रत्यक्षसाधनस्तदुत्पादविनिश्चयः, यस्मावनुमानप्रवृत्तिरिति न विमः / [पं०] अग्निसामान्यं धूमसामान्यं चेति द्वे / अनुभवत इति (कं. 210.14) सामान्ये कर्तृणी। अवस्तुत्वादिति (कं. 210.14) सौगताम्तं हि सामान्यमवस्तु / अथ सदृशव्यक्तिष्विव कार्यकारणभाव इत्यत्राह व्यक्तयस्तादृश्य इति (कं. 210.14) कोऽर्थः ? केवलं प्रत्यक्षगोचरा व्यक्तयो घटादयः। तादश्य इति असाधारणाः / कार्यकारणभावानुभाविको वर्तेते. इत्यर्थः / 'सर्वा इति (कं. 210.14) अतीतानागतलक्षणाः / व्यक्तीनामि (कं. २१०.१५)त्यतः पुराऽगृहीता[ना]मित्यध्याहार्यम् / मनसो बहिःस्थे स्वातन्त्र्ये इति (क. 210.15) यदि बाह्यमर्थ घटादिकं गृहीत्वा अगृहीत्वा वा ममः शङ्कापयतीत्यर्थः / तदन्यत्वादिति (कं. 210.17) दृष्टव्यक्तिभ्योऽन्यत्वात् / वस्त्ववस्तुनोरिति (कं. 210.18) व्यक्तिसामान्ययोः / उपन्यासमुपसंहरति तत्किविषय (कं. 210.19) इत्यादि / किं विषय इति सामान्यस्यावस्तुत्वाद् व्यक्तीनां च क्षणिकत्वानिराश्रय इत्यर्थः / प्रत्यक्षसाधन इति (कं. 210.20) प्रत्यक्षविनिश्चयः / [कु०] न वाच्यम् / पक्षधर्मतासहकारिबलाद्विशेषसिद्धः / इदं च सामान्यविषयत्वं व्याप्तिग्रहणस्याभूत् / परेणापि अतीतानागतव्यभिचारशङ्काक;[त]थेति दर्शयति-यदित्यादिना। नरोऽवरेत्यंतेन पूर्वमपि च तादात्म्यं स्यादित्यादिना विपक्षे हेत्वभावस्यानुपलब्धिः, लिङ्गावसेयत्वे एषामनवस्था दर्शिता। संप्रति व्यावृत्तिरूपसामान्यद्वाराऽस्माकमिवेतेषामपि प्रत्यक्षेनैव प्रतिबन्धग्रहो भविष्यतीति निरस्य किं चेति मनसा संकलनमिति (कं. 210.15) / समनंतरप्रत्ययेनादृष्टव्यक्तिष्वेवानुमानं भविष्यतीत्यत आह 'व्यक्तीनामपीति (कं. 210.17) / परस्परमनन्वितत्वादिति (कं. 210.17) व्याप्तिग्रहणवेलायं (यां? ) [य] दृष्ट्वाऽनुमितिक (का) लेनावतिष्टंत इति भावः / अश्रुतव्यक्तिव्यावृत्त्या क्रोडीकृतानां कार्यकारणभावावधारणमित्यत आह-न चेति (कं. 210.18) वस्त्ववस्तुनोरिति (कं. 210.19) / अतव्यावृत्तेः व्यक्तलक्षणात्मकत्वे सत्त्वं स्यात् / तदव्यक्तलक्षणस्य वाऽसत्त्वमित्यभिप्रायः / अतिप्रसङ्गादिति (कं. 220.20) / अवह्निव्यावृत्त्या रासभस्याप्युपग्रहेऽधूमव्यावृत्त्या सोऽप्यनुमीयेतेति भावः / किं विषयप्रत्यक्षसाधनेति (कं. 220.21) / किशब्द आक्षेपे, जातिव्यक्तिविषययोरपाकरणान्न केनापि प्रत्यक्षेण तदुत्पत्तिनिश्चिय- . संभवतीत्यर्थः / 1 तासु सर्वाणि प्रत्यक्षेण गृह्यन्ते-कं. 1, कं. 2, ताश्च सर्वाः प्रत्यक्षेण न गह्यन्ते-जे.१। 2 मागतव्यक्तीनांजे. 1, जे.२। 3 बहिरर्थ-कं. 1, कं. 2, जे. 3 / 4 स्वातन्त्र्येणाप्रवृत्तेः-जे. 1, जे.२। 5 भावोऽध्यवसायश्च -कं. 1, कं. 2 / 6 सर्वाणि-कं. 1; सर्वान-पा. इ.पु.। 7 व्यक्तीनां-कं। .