________________ टिप्पणपञ्जिकाकुसुमोदयमादिटीकात्रयोपेतम् ___ 489 न्यायकन्दली सर्वत्र निश्चितेऽपि नियमे 'निष्प्रामाणिकवाशङ्का क्रियते, तदा त्वत्पक्षेऽपि प्रत्यक्षेण दृष्टासु वह्निधूमव्यक्तिषु गृहीतेऽपि कार्यकारणभावे देशकालव्यवहितासु तद्भाबसन्देहाद'नुमानाप्रवृत्ति को निवारयति ? / अथोच्यते - भूयोदर्शनेन कार्यकारणभावो निर्धार्यते, सकृद्दर्शनेन तदुपाधिजत्वशङ्काया 'अनिवर्तनात् / भूयोदर्शनं च सामान्यविषयम्, क्षणिकानां व्यक्तीनां पुनः पुनदर्शनाभावात् / तेनानग्निव्यावृत्तस्याधूमव्यावृत्तस्य च सामान्यविषयः कार्यकारणभाव एकत्र निश्चीयमानः सर्वत्र विनिश्चितो भवति, सामान्यस्यैकत्वादिति चेत् ? [टि०] सन्ति परं ता अपि सर्वा अतीतानागताः 'प्रत्यक्षाः तासां क्षणक्षीणत्वात् / परस्परमनन्वितत्वाद् इति-व्यक्तेः स्वात्ममात्रनिष्ठत्वेन सपक्षेऽन्वयाभावात् / तत् कि विषय इति प्रत्यक्षनिश्चये यस्य तदुत्पादनिश्चयस्य को विषय इति न "विद्मः सामान्यस्यावस्तुत्वात व्यक्तीनां च क्षणिकत्वादित्यर्थः / [पं०] अवास्तवी। आशङ्केति (कं. 210.6) विपक्षशङ्का / वह्निधूमव्यक्तिष्विति (कं. 210.6) महानसादिसम्बन्धिनीषु / देशकाल व्यवहितास्विति (कं. 210.7) देशान्तरस्थासु अतीतानागतासु च। तद्भावसन्देहादिति (कं. 210.7) कार्यकारणभावसन्देहात् / अथोच्यते इति (कं. 210.8) हे बौद्ध त्वया। तदुपाधिजत्वशङ्काया (कं. 210.9) इत्यत्र तच्छम्देन कार्यकारणभावो ग्राह्यः / ततश्च तस्य कार्यकारणभावस्य या उपाधिजत्वशङ्का तस्या इति विग्रहः / सामान्यविषयमिति (कं. 210.9) इह अन्यव्यावृत्तिलक्षणोऽपोहः सामान्यमुच्यते बौद्धमताधिकारात् / बौद्धो हि नित्यानेकमनेकवृत्ति सामान्यं न मन्यते / किं तत्सामान्यमित्याह तेनेत्यादि (कं. 210.10) / अनग्निव्यावृत्तस्येति (कं. 210.10) अग्नेः / अधूमव्यावृत्तस्येति (कं. 210.10) धूमस्य / श्रीधरः प्राह अस्माभिरपोत्यादि (कं. 210.12) / इत्थमेवेति (कं. 210.12) सामान्येनैव / प्रत्यक्षागोचरौ नेति (कं. 210.13) अपि त्वनुमानगोचरौ / सामान्ये इति (कं. 210.13) कु०] ननु. यदि वह्निसाहचर्यनियमो धूमस्य स्वभावानुबन्धी धर्मः तर्हि वह्वरुष्णत्वमिव प्रथमत एव ग्रहणेऽस्य ग्रहण स्यात्, तत्कि भूयोदर्शनैरित्यत आह यद्यपीति (कं. 209.22) / सन्त्येव हि केचित् स्वाभाविका अपि धर्मादर्शनाभ्यासा वा (स या) यथा रत्नत्वादय इति भावः / सविकल्पकप्रत्यक्षेणेति (कं. 209.25) पूर्ववत्परप्रत्यक्षेणेति / पूर्ववत् परप्रत्ययजन[क] प्रमाणमुपलक्षयति / सम्बन्धिनो द्वयोरपि प्रत्यक्षत्वे प्रत्यक्षमेव सम्बन्धेऽपि प्रमाणम् / उभयोरन्यतरत्त्व वाऽतीन्द्रियत्वेऽनुमानमेव / वनस्पत्यो वायु (:), तत्परमाणवोश्च सम्बन्धः / यथेति द्रष्टव्यम् / / ननु भयसामपि जानानां कतिपयविषयत्वाज्जनितसंस्कार: स इदमपि चरमप्रमाणम्, न स व्यक्तिविषयमिति शंका, धूमसामान्यस्येत्यादि स्वोक्तं...निरस्यति य (था) तेनेत्यादि / रूपत्वादित्यं तेन / ननु यदि सामान्ययोरेवाविना] भावो, तहि साध्यत्वमपि सामान्येव स्यात्, ततश्च सिद्धत्वमित्याशयेन पृच्छति कि व्यक्तय इति (कं. 210.3) / सामान्ययोाप्तिग्रहो नापि व्यक्तीनां किन्तु क्रोडीकृतव्यक्तिविषयया व्याप्त्या कथं देशकालविशिष्टसाध्यसिद्धिरिति 1 निष्प्रामाणिकराशङ्का-कं. 1; कं. 2 / 2 व्यवहितात् - कं. 1; कं. 2 / 3 सन्देहादत्रा-कं. 1, कं. 2 / 4 अनिबारणात् - जे. 1, जे. 2 / 5 प्रत्यक्षः - अ, ब। 6 तदुत्पादनिश्चयस्य इति ड पुस्तके मास्ति / 7. विग्नः- अ, ब / 8 व्यवहितात् - कं.१। 9 'न' इति कं.१ अपुस्तकेऽत्र नास्ति-सं।