________________ 488 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली यद्यपि प्रथमदर्शनेऽपि सहभावो गृहीतः, तथापि न नियमग्रहणम् / नहि सहभावमात्रं नियमः, अपि तु निरुपाधिकं सहभावः / निरुपाधिकत्वं च तस्य भयोदर्शना'भ्यासावसेयमित्यन्तेन भूयः सहभावग्रहणबलभुवा सविकल्पकप्रत्यक्षेण सोऽध्यवमीयत इति / एतेन 'प्रत्यक्षस्य विद्यमानविषयत्वादतीतानागतासु व्यक्तिषु कथं नियमग्रहणमिति प्रत्युक्तम् / नहि विशेषनिष्ठं व्याप्तिग्रहणमाचक्ष्महे / विशेषहान्या सामान्येन व्याप्तिग्रहणे. तु सर्वत्रैव निर्विशङ्कः प्रत्ययः, तस्य सर्वत्रैकरूपत्वात् / किं व्यक्तयो व्याप्ताव'प्रविष्टा एव ? को वै ब्रूते न 'प्रविष्टा इति / किन्तु सामान्यरूपतया, न विशेषरूपेण / अत एव धूमसंवित्या वह्निमात्रमेवानुसन्दधानस्तमनुधावति, न विशेषमाब्रियते / यदि तु सामान्येन [टि०] तद्भावसन्देहाद् इति कार्यकारणभावसन्देहादित्यर्थः / 'किश्च भवताम् इति धूमसामान्यमग्निसामान्यं द्वेऽपि न "[प्रत्यक्षग्राह्ये तुच्छरूपत्वत्] नापि कार्यकारणभूते इत्यर्थः / व्यक्तयस्तादृश्य इति प्रत्यक्षग्राह्याः कार्यकारणभूताश्च [पं०] वह्निरपि न भविष्यतीति प्रतिपक्षाशङ्का / चरमप्रत्यक्षेणेति (कं. 209.21) अविनाभावनिश्चायकेनेत्यर्थः / 'निश्चिन्वन्निति (कं. 209.21) प्रमाता / इदमिति (कं. 209.22) धूमाख्यं वस्तु / अनेनेति (कं. 209.22) अग्निना। प्रथमदर्शनेऽपीति (कं. 209.22) प्रथमवेलायां धूमाग्न्योर्दर्शनेऽपि / नियम इति (कं. 209.23) अविनाभावः / भूयोदर्शनाभ्यासावसेयमिति (कं. 209.24) अत्र भूयो वारंवारम् / स इति (कं. 209.25) अविनाभावः / नियमग्रहणमिति (कं. 210.1) अविनाभावग्रहणम् / इतीति (कं. 210.1) सौगतोक्तम् / विशेषहान्येति (कं. 210.1) विशेषपरित्यागेन / तस्येति (कं. 210.2) सामान्यस्य / परः पृच्छति कि व्यक्तय (कं. 210.3) इत्यादि / श्रीधरः प्राह को वै (कं. 210.3) इत्यादि। अनुसंधान इति (कं. 210.4) प्रमाता। "तविति (कं. 210.5) वह्निसामान्यम् / विशेषमिति (कं. 210.5) तार्णपार्णादिकम् / "निष्प्रामाणिकेति (कं. 210.6) [कु०] द्वितीयं पक्षं दूषयति न चेति (कं. 209.10) अयोग्या हि उभयाव्यापका धूममात्रव्यापकाश्च लक्षणहानेरनूपाधयः / वह्निमात्रव्यापकाश्च नित्या अनित्या वा ? नाद्य इत्याह तेहि यदि स्वरूपेति (कं. 209.11) नित्या हि वह्निमात्रव्यापकास्तत् परमाणव एव / तदयं प्रयो(या) [गः]-धूमस्य वह्निसाहचर्यमनुपाधिकम्,अप्रमीयमाणोपाधिकत्वात्, यस्य यत्साहचर्य सोपाधिकं तदुपाधिमत्तया प्रतीयते। तथा न साहचर्यमौपाधिकतयेति व्यतिरेकी। अस्यानुकूलं तकमाह यस्य चेति (कं. 209.14) / सुग्रहत्वायोक्तमुपसंहरन् स्वाभाविकसम्बन्धे ग्रहणे सति कर्तव्यतां प्रमाणमाह तस्मादिति (कं. 209.16) / [अ] हेतुत्वनिश्चये सतीति (कं. 209.19) अनुपाधित्वनिश्चये सतीत्यर्थ ननु मा भूवत् देशकालावस्था उपाधयः, तद्विशिष्टस्तु धूम उपाधि रस्तु तेन धूममात्रप्रयोजकमित्यत आह निखिलेति (कं. 209.19) / तद्विशिष्टाऽपि साध्याव्यापकत्वादनुपाधिरित्यर्थः। चरमप्रत्यक्षेणेति (कं. 209.21) दृढतरं प्रत्यक्षमुपलक्षयति / स्मृतिहेतुसंस्कारोत्पादनक्षमेणेत्यर्थः / 1 सहभावमात्रान्नयमः, अपि तु निरुपाधिकसहभावात् - कं. 1, कं.२। 2 भ्यासावशेषमित्यतो-कं. 1, कं. 2 / 3 प्रत्यक्षे उपलब्ध-कं. 1, कं. 2 / 4-5 प्रतिष्ठा-जे.१। 6 किञ्च न-ड। 7 [ ] एतच्चिह्नान्तर्गतः पाठः अब पुस्तकयो स्ति। 8 निश्चित्य - कं. 1 / 9 भ्यासावशेषम् -कं. 1 / 10 तम् - कं. 1 / 11 निष्प्रामाणिक:-कं.१।।