________________ टिप्पणपञिकाकुसुमोद्गमादिटोकात्रयोपेतम् 487 __ न्यायकन्दली कल्पना / यस्य चोपाधयो न सन्ति स धूमः कदाचित् स्वतन्त्रोऽप्युपलभ्येत, 'यथार्द्वन्धनोपाधिकृतधमसम्बन्धो वह्निःशष्कन्धनकृताधिपत्यो विधमः प्रत्यवमश्यते / न च तथा 'सविदन्तरे धूमः कदाचिनिरनिराभाति / तस्मादुपलब्धिलक्षणप्राप्तानामुपाधीनामनुपलम्भावभावप्रतीतौ उपलब्धानां 'देशकालेन्धनावस्थाविशेषाणां पुनः पुनदर्शनेषु व्यभिचारादहेतुत्वनिश्चये सति निखिलदेशकालादि विशेषादिप्रहाणेनोपाध्यभावोपलब्धिभूयः। सहभावदर्शनजसंस्कारसहकारिणा निरस्तप्रति पक्षाशङ्कन चरमप्रत्यक्षेण धूमसामान्यस्याग्निसामान्येन स्वभावमात्राधीनं सहभावं 'निश्चिन्वान इदमनेन नियतमिति नियम निश्चिनोति / [टि०] वह्निः स्यात्तदा धूमस्य व्यभिचारिता स्यादिति भावः / दर्शनेषु व्यभिचाराद् इति :- अहेतुत्वं धूमं प्रत्युपाधीनामकारणत्वम् / चरमप्रत्यक्षेण इति - अविनाभावनिश्चयेनेत्यर्थः / सोऽध्यवसीयत इति :- सोऽविनाभावः / [पं०] "गुवींकल्पनेति- (कं. 209.14) असत्कल्पनैव तवेयमिति भावः / द्वयोः सम्बन्धस्तावदुपाधिकृतो यस्य च न सन्त्युपाधयः स स्वतन्त्रोऽप्युपलभ्येत यथा वह्निरित्येवमर्थम् / सप्रपञ्चं वक्ष्यन्नाह यस्य चोपाधयो न सन्ती (कं. 209.14) त्यादिना / स्वतन्त्र इति (कं. 209.14) निरग्निः / शुष्कन्धनकृताधिपत्य इति (कं. 209.15) शुष्केन्धनसाहाय्यः / संविवन्तरे इति (कं. 209.16) स्वतन्त्राग्निग्राहकज्ञानादन्यस्मिन् ज्ञानान्तरे / उपलब्धानां विश्("देश)कालेन्धनावस्थाविशेषाणां पुनः पुनदर्शनेषु व्यभिचारादिति (कं. 209.18) यत्र हि देशे काले वा तथाविधेन विशेषेण मन्त्राघप्रतिबद्धावस्थाविशेषेण वा एकदा धूमो दृष्टो न तत्रैवान्यदापि दृश्यते सामग्रीपरावर्तेन व्यभिचारदर्शनादित्यर्थः / उपाध्यभावोपलब्धि"श्च भूयः सहभावदर्शनजसंस्कारसहकारिणेति (कं. 209.19) उपाध्यभावोपलब्धिश्च भूयः सहभावदर्शनं च ताभ्यां जातो यः संस्कारः तत्सहकारिणा। निरस्तप्रतिपक्षशड्नेति (कं. 209.20) धूमोऽपि भविष्यति कु०] उपाधिश्च प्रमाणपथमवतीर्ण एव शङ्कनीयः, अन्यथाऽतिप्रसङ्गात् / तल्लक्षणं च व्याप्याभिमतमव्याप्नुवद् व्यापकाभिमतं च व्याप्नुवंस्ततश्च व्याप्यमान इति / तत धूमव्यापके आईन्धनसंयो [गे]ऽतिव्याप्तिनिरासाय प्रथम विशेषणम् / तस्य चानुपाधित्वं धूमेनैव साध्यत्वात् / महानसादौ व्यभिचारं निराकर्तुं द्वितीयं विशेषणम् / तस्य सुपाधित्वे मठादी वह्निर्न स्यात् / अ[थ] पर्वतत्वादावतिव्याप्ति परिहर्तुं तृतीयं विशेषणम् / तस्य तूपाधित्वे जला[दा] वपि वह्निः स्यात् / अयं च सम्भवद्विपक्षेऽन्वयव्यतिरेकिणि, व्यतिरेकिणि च, न तु केवलान्वयिति तस्य विपक्षासम्भवेन तद्वृत्तिरूपस्य व्यभिचारशङ्काबीजस्योपाधेः दुःशङ्कत्वात् तत्र च केवलव्यतिरेकिणि साध्यस्यातिव्याप्ती साध्यव्यावृत्तिः उपाधित्वेन शङ्कनीया। अन्वयव्यतिरेकिणि तु साध्ये प्रयोजकान्तरमित्येवं स्थिते उपाधयः प्रत्यक्षयोग्या एवाशङ्करन् विपरीता वा ! नाद्य इत्याह यदिधूमस्येति (कं. 209.8) / योग्यानुपलम्भचोदिताः / अबाधिताना च देशकालादीनामनन्तरमेव लक्षणहानिर्वक्ष्यते इति भावः / योग्यानुपलब्धेरनुकूलं तर्कमाह नहीति (कं. 209.9) / 1 यथेन्धनो-कं. 1, कं. 2 / 2 समिदन्तरे-जे.१। 3 देशकालावस्थाविशेषाणां-जे. 1; शेषकालेन्धनावस्थाविशेषाणां-कं. 1, कं. 2 / 4 विशेषाध्याहारेण न उपाध्यभावोपलब्धिदोषः-कं. 1, कं. 2; विशेषादिविप्रहाणेनोपाध्यभावोपलब्धिभूयं-जे.१। 5 पक्षशङ्कन-कं. 1, कं.२। 6 निश्चित्य-कं. 1; कं. 2 / 7 तेषु-अ, ब, क / 8 मकारण-अ 9 निश्चायके - ड। 10 गुर्वीयं-कं. 1 / 11 शेष-कं. 1 / 12 ब्धिदोषः-कं। .