________________ 486 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् . न्यायकन्दली [181] स्वभावेन हि कस्यचित् केनचित् सह सम्बन्धो नियतो निरुपाधिकत्वात्, उपाधिकृतो हि सम्बन्धः तदपगमान् निवर्तते न स्वाभाविकः / यदि धूमस्योपाधिकृतो वह्निसम्बन्धः ? उपाधय उपलब्धाः स्युः, शिष्याचार्ययोरिव प्रत्याससावध्ययनम् / नहि वह्निधूमयोरसकृदुपलभ्यमानयोस्तदुपाधीनामनुपलम्भे किञ्चिद् बीजमस्ति / न चोपलभ्यमानस्य नियमेनानुपलभ्या भवन्त्युपाधयः, ते हि यदि स्वरूपमात्रानुबन्धिनस्तथाप्यव्यभिचारसिद्धिः, तत्कृतस्यापि सम्बन्धस्य यावद्रव्यभावित्वात्। 'अथागन्तुकाः? तत्कारणान्यपि प्रतीयेरन् / उपाधयस्तत्कारणानि च सर्वाण्यतीन्द्रियाणीति 'गुरुयं [टि०] [181] किञ्चिद् बीजम् इति असत्त्वमेवानुपलम्भबीजमित्यर्थः / ते हि यदि इति यदि ते उपाधयो धूमस्य स्वरूपमात्रप्रतिबद्धा धूमस्वरूपेणाविना तास्तहिं न तैव्यंभिचारः / यदि हि धूमादन्यत्रापि तेषूपाधिषु सत्सु 'तत्रापि [पं०] [181] अनौपाधिकः सम्बन्धो व्याप्तिरित्यमृष्यमाणं सौगतं वैशेषिको ब्रूते स्वभावेन होत्यादि (कं. 209.6) / उपाधिकृत इति (कं. 209.7) कारणकृतः / तदपगमनादिति (कं. 209.7) उपाधिगमनात् / नहोत्यादि (कं. 209.9) गद्य तदुपाधीनामनुपलम्भके न हि किञ्चिद्बीजमस्ति इति पदघटना। असत्वमेव तद्वीजमित्यभिप्रायः / स्वरूपमात्रानुबन्ध (न्धि)न इति (कं. 209.11) स्वाभाविकाः। तथा व्यभिचारसिद्धिरिति (कं. 209.11) सज्ञाभेद एव केवलमित्यर्थः / तत्कृतस्यापीति (कं. 209.12) स्वरूपमात्रानुबन्ध्युपाधिकृतस्यापि / तत्कारणान्यपीति 09.12) आगन्तुकोपाधिकारणान्यपि। भूयोऽपि बौद्धमेव प्रत्याह उपाषय इत्यादि (क. 209.13) / [कु०] [181] ननु यदि तादात्म्यतदुत्पत्तिभ्यामविनाभावो न नियम्यते तहिं दर्शनाभ्यामपि कथमसो नियम्यते ? तयोः सतोरपि कालान्तरे देशान्तरे वा व्यभिचारशङ्या दुनिवारत्वादित्यत आह-'स्वभावेपि [इति] (कं. 209.6) / यथा भवत्पक्षे बाधकबलेनैव कार्यस्य कारणातिपाते आकस्मिकत्वप्रसङ्गः, स्वभावातिपाते निःस्वभावत्वप्रसङ्ग इत्येवं साध्यसिद्धिरेवमस्मत्पक्षेऽपि / यस्य येन व्याप्ती स्वभावो हेतुः तस्य तदतिपाते स्वभावातिपातः स्यादिति विपक्षे बाधकेन व्यभिचारशङ्कानिवृत्तिरि[ति] भावः / ननु सम्बन्धस्य स्वाभाविकत्वं कुतः प्रत्येतव्यमित्यत आह उपाधिकृतो हीति (कं. 209.7) / इह भूयादर्शनेषु प्रवर्तमानेषु प्रमेयत्वानित्यत्वयोरित्यत्र स्फुटो व्यभिचारः, तत्र तत एवानुमानाप्रवृत्तिः / यत्र त्वस्फुटस्यासत्त्वमैत्रतनयत्वयोरिव तत्रानुमानप्रवृत्तौ व्यभिचारशङ्का कर्तव्या। तत्रापि प्रयोजकान्तरसम्भावनयैव सा भवेत्, निश्चयेन वा? [न तु] ("तं तु) तदवधूय तस्या सति सर्वलोकयात्रोच्छेदप्रसङ्गात् अन्ततो "भोजनादावपि मरणादिसाधनत्वशङ्कया प्रवृत्तिन स्यात् / निर्बीजायाः शङ्काया सर्वत्र सुलभत्वात् ततश्च सदृष्टयोर्व्यभिचारशङ्कायामुपाधिः / कारणतन्निवत्ती विनिश्चितायां सम्बन्धस्य स्वाभाविकत्वनिश्चयः सुलभ इति भावः। 1 पगमार्थ - कं. 1, कं. 2 / 2 अथागन्तवः-कं. 1; कं. 2, जे. 2 / 3 गुर्वीकल्पना-जे. 1, जे. 2, जे. 3 / 4 बीजमस्ति - ड। 5 तटि - अ, ब। 6 तत्रापि च वह्निः - अ, ब, क। 7 तदपगमार्थ-कं. 1 / 8 स्वभावेन हि-कं / 9 संधसी-MS.। 1. MS. / 11 भाजतावावपि-MS.