________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटोकात्रयोपेतम् न्यायकन्दली अपि च तादात्म्यस्य तदुत्पादस्य च यस्य प्रतीतिविपक्षे हेत्वभावप्रतीत्या, तदभावप्रतीतिरपि दृश्यानुपलब्धेः, अनुपलग्धिश्चानुमानान्तर्भूतत्वात् स्वसाध्येन विपक्षे हेत्वभावेन सह तादात्म्यप्रतीत्या तदुत्पादप्रतीत्या वा प्रवर्तते, तस्या अपि स्वसाध्येन तादात्म्यतदुत्पादनिश्चयो विपक्षे वृत्त्यभावप्रतीत्या, तदभावप्रतीतिश्चानुपलब्ध्यन्तरसापेक्षा, यावान् प्रतिषेधः स 'सर्वोऽप्यनुपलब्धिविषय इत्यभ्युपगमात् / ततश्चानवस्थापाताद् व्यतिरेकासिद्धौ तादात्म्यतदुत्पादासिद्धर्न स्वभावः कार्य वा हेतुः। किञ्च तादात्म्यतदुत्पत्त्योरभावेऽपि कृत्तिकोदयरोहिण्यस्तङ्गमनयोर्गम्यगमकभावः प्रतीयते / तस्मात् कार्यकारणभावाद्वा नियमः स्वभावाद्वेत्यनालोचिताभिधानम् / [fro] काल्पनिकत्वम् / तदेवानुमानोदयेति कल्पना समारोपितं तादात्म्यमेवानुमानकारणं समर्थितं 'बौद्धरित्यत: कारणात्तदेव 'मुख्यम् / विपक्षम्यावृत्तिस्तु सत्यप्यसत्कल्पैवेति / ततः शब्दोऽनित्यः प्रमेयत्वाद् इत्यपि साधनं स्यात् / अथ बौदं प्रत्यनवस्थामापादयिष्यन्नाह अपि च तादात्म्यस्य इति / तवभावेति:-बौद्धमते हि दृश्यानुपलब्धेरेव सर्वस्यांप्यभावस्य निश्चयो न तु प्रत्यक्षादिति / [पं०] अध्यवसा[यो] हि तव, स ते काल्पनिकः / काल्पनिक (कं. 208.17) इत्यतः पुर: 'ततश्च' इत्याध्याहारः / "प्रवर्तते (6.208.18) इत्यस्मात्पुरः तदेत्यध्याहार्यम् / तदेवेति (कं. 208.21) कल्पनासमारोपितम् / "विपक्षावण्यावृत्ति सत्समेति (कं. 208.22) कल्पनासु सत्यप्यसन्कल्पैवेति / ततश्च शब्दोऽनित्यः प्रमेयत्वादित्यपि साधने स्यावित्यर्थः / ___अथ बोर प्रत्यनबस्थां साधयिष्यन्नाह अपि चेत्यादिना (कं. 208.22) / तवभावप्रतीतिरिति (कं. 208.23) हेत्वभावप्रतीतिः। दृश्यानुपलब्धेरिति (कं. 208.23) उपलब्धिलक्षणप्राप्तस्यानुपलब्धेः / बौरमते हि दृश्यानुपलब्धेरेव सर्वस्याभावस्य निश्चयो न तु प्रत्यक्षात् / तस्या इति (कं. 208.25) अनुपलब्धेः / स्वसाध्येमेति (कं. 208.25) . विपक्षे हेत्वभावप्रतीप्तिलक्षणेन / "कृत्तिकोदयरोहिण्यासत्योरिति (कं. 209.4) कृत्तिकोदयरोहिण्युदयप्रत्यासत्योः / [क०] चेत्, न, सस्यापि कल्पनादोषविषयतया प्रमेयस्यासतो नित्यत्वात् / इतरथा असञ्जाता क्षणिका इति सत्त्वस्य संतो व्यतिरेकनिरूपणायोगात् / असत्समा सर्वत्र सुलभत्वादनस्थेया। एवं तादात्म्यतदुत्पत्ती प्रत्येकं दूषयित्वा समस्य दूषयति अपि चेति (कं. 208.22) / अनुपलब्धिश्चेति (कं. 208.24) 'यनोपलभ्यते तन्नास्ति इदं च नोपलभ्यते' इत्पनुमानेन प्राक्तनहेतोविपक्षाद् व्यावृत्तिसिद्धिः / एवमस्यापि हेतोरनुपलब्ध्यन्तरेण विपक्षाद्वयावृत्तिसिद्धिरित्यनवस्था परेषाम् / अस्माकं तु विपक्षे जलादी धूमादिलिङ्गाभावस्य प्रत्यक्षेणैव सिद्धे नानवस्थेति भावः / पूर्व यत्राव्यभिचारस्तत्र व) तादात्म्यतदुत्पत्ती इति द्वितीयः पक्षः / सिद्धेनाभ्यां [व्य ] भिचारेण तादात्म्यानुपपत्तिरिति / तदुत्पत्तिसाधने प्रयोजमाभावेन दूषितः / सम्प्रति तेन तेन साध्ये व्यभिचारादित्याह किञ्चेति (कं. 209.4) / न च यदव्यभिचारिता [a] कारणमिति व्याप्त्या तदुत्पत्तिरेव न स्यात्, कार्यकारणभावस्य भेदाधिष्ठानत्वात्तादात्म्योऽनुपपत्तिरिति चेत् कृत्तिकोदयो भविष्यतो रोहिण्युदयस्य कार्य इत्यपि न सम्भवत्वेव तत्कथं तयोरपि कार्यकारणभाव: स्यात् ? पूर्वकालभाविन एव कारणत्वात् उत्तरकालभाविन एव च कार्यत्वात् / किञ्च अविनाभावस्य तादात्म्यतदुत्पत्तिलक्षणत्वे प्रत्येक भागासिद्धिः, समुदायस्य च स्वरूपासिद्धिरित्यपि द्रष्टव्यम् / 1 तादात्म्ये तदुत्पादे-कं. 1, कं. 2 / 2 मानभूतत्वात्-कं 1, कं / 3 सर्वोऽनु - जे. 1, जे. 2, जे. 3 / 4 तदुत्पादयी- जे. 3 / 5 ण्यासत्यो:-जे. 1, जे. 2; ण्यासन्त्योः - जे. 3 / 6 समारोपितुं - अ, ब, क / 7 बौद्ध - अ। 8 मु-अ। 9 तादात्म्ये मु. तादात्म्यस्य - जे. 1, जे. 2, जे. 3 / 10 प्रवर्तेत - कं. 1 / -11 विपक्षव्यावृत्तिसित्सनेति-पं. अ, ब / 12 कृत्तिकोदयरोहिण्यास्तङ्गमनयो:-कं. 1 / /