________________ न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् - न्यायकन्दली तादात्म्यमनुमानबीजम्, साध्यसाधनभूतयोावृत्त्योः परस्परं भेद इति किमिदमिन्द्रजालम् ? वृक्षशिशपयोस्तादात्म्यं तदात्मतया 'चाध्यवस्थितयोरवृक्षव्यावृत्यशिशपाव्यावृत्त्योःसत्यपि भेदे यथाध्यवसायं तादात्म्यमिति चेत् ? सिद्ध तादात्म्ये सयशिशपाव्यावृत्त्या मिण्यवृक्षव्यावृत्तिरध्यवसेया, तत्राध्यवसि'तायां चावृक्षव्यावृत्तौ यथाध्यवसायं तादात्म्यसिद्धिरित्यन्योन्याश्रयदोषः / व्याप्तिग्रहणवेलायामेकात्मतयाध्यवसितयोावृत्त्योस्ता'दात्म्यसिद्धमिति चेत् ? तथा प्यनयोरभेदः काल्पनिकः / यद्यनुमानं कल्पनासमारोपेणापि प्रवर्तत, न कश्चिदहेतु म / प्रमेयत्वानित्यत्वयोरप्येकात्मतयाध्यवसितयोर्यथाध्यवसायं तादात्म्यसंभवात् / विपक्षव्यावृत्त्यभावात् प्रमेयत्वस्यानित्यत्वेन सह तादात्म्याभाव इति चेत् ? सत्यम्, वास्तवं तादात्म्यं नास्ति, कल्पनासमारोपितं 'तावदस्त्येव तदेवानुमानोदयबान्धवं समर्थितवन्तो यूयमिति विपक्षादव्यावृत्तिरसत्समा। [टि०] बौद्धमाशङ्कते "वृशिशपयोः इति :- व्यावृत्त्योर्भेदेऽपि तदाधारयोवृक्षशिशपयोरभेदाद् व्यावृत्त्योरप्यभेदा'ध्यवसायः कल्प्यत इति भावः / बौद्धमाशङ्कते-व्याप्तिग्रहणवेलायाम् इति :-'दृष्टान्ते एव तादात्म्यं सिद्धम्, न तु पक्षे इति नेतरेतराश्रयः "तथापि इति :-भिन्नयोावृत्योरभिन्नाभ्यां वृक्षवशिशपात्वाभ्यां तादात्म्याध्यवसायादभेदस्य : [पं०] रूपयाव्यावर्तयोर्भेदात् / अवृक्षव्यावृत्ता हि लोष्टादयो ब्यावर्तनीया, अशिंशाव्यावृत्त्या च धवादयो व्यावर्तनीयाः। श्रीधरः प्राह अहो इत्यादि (कं. 208.10) / बौद्धमुपालभते तादात्म्यमित्यादि (कं. 208.11) / वृक्षशिशपयोरित्यादि (कं. 208.12) व्यावृत्योर्भेदेऽपि तदाधारयोवृक्षशिंशपयोरभेदात् / व्यावृत्त्योरपि भेदोऽध्यवसीयते इति पिण्डार्थः / यथाध्यवसायं तादात्म्यमिति (कं. 208.13) भेदेपि तदात्मकत्वाध्यवसायानुरोधेन तादात्म्यम् / सिद्धे तादात्म्ये इति (कं. 208.14) व्यावृत्त्याः / अशिशपाव्यावृत्येति (कं. 208.14) हेतुभूतया / तत्रेति (कं. 208.15) धर्मिणोः / अध्यवसितायामिति (कं. 208.15) विकल्पितायाम् / व्याप्तिग्रहणे (क. 208.16) त्यादि / व्याप्तिरिति यो यः शिशपा स स वृक्षः / अत्र च गये दृष्टान्ते एव तादात्म्यं सिद्धम् / न तु पक्षे इति नेतराश्रय इति बौद्धाशयः / काल्पनिकत्वमिति भिन्नयोावृत्त्योरभिन्नाभ्यां वृक्षत्वशिशपात्वाभ्यां तादात्म्याध्यवसायादभेदस्य काल्पनिकत्वम् / [कु०] तयो"(र)ध्यवसितयोरिति (कं. 208 12) तद्भवाग्रहात्तत्त्वेन गृहीतयोरित्यर्थः / सिद्ध इति (कं. 208.14) धमि मेदाग्रहात्तत्त्वेनाध्यवसायोऽनमानमेवं तदपेक्षं च तादात्म्यमित्यन्योन्याश्रयदोष इत्यर्थः / व्याप्तिग्रहणवेलायामिति (कं. 208.16) ईदृशस्य तादात्म्यस्य तदात्म्यतयाऽध्यवसायस्य च बीजाङकुरवदनादिनादित्वादन्योन्याश्रयत्वं न दोषायेति शङ्कार्थः / तथापीति (कं 208.17) व्यावृत्योर्धात्मतयाध्यवसायकल्पनात्तत्सियोरभेदस्तादात्म्यं काल्पनिकमित्यर्थः / प्रमेयानित्यत्वयोरिति (कं. 208.18) नन सर्व क्षणिकमिति वदतः सौगतस्य मानिष्टमेतदिति 1 च व्यवस्थितयो-कं. 1; कं. 2 / 2 तायामवृक्ष-कं. 1; कं. 2 / 3 तादात्म्यसिद्धिरिति चेत्-कं. 1; कं. 2 4 तथाध्यवसितयो-कं. 1; कं. 2 / 5 प्रवर्तते-जे. 1, जे. 2, जे.३। 6 वस्त्येव -जे. 1; जे.२। 7 शिंपयोः-अ। 8 ध्यवसायः कल्पते -अ; ध्यवसीयते कल्प्यते-ह। 9 दृष्टान्त -म, ब, क। 10 तथामु. तथापि-जे. 1, जे. 2, जे.३। 11 व्यबस्थितयो-कं। 12 तथा - कं. 'अपि' नास्ति / ..