________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् 483 ___ न्यायकन्दली अयोच्यते-यथावस्थितो धर्मी शिशपात्वं वृक्षत्वं च त्रयमेकात्मकमेव, तत्र मिणि गृह्यमाणे शिशपात्ववत् वृक्षत्वमपि गृहीतमेव / यथोक्तम् तस्माद् दृष्टस्य भावस्य दृष्ट एवाखिलो गुणः / भागः कोऽन्यो न दृष्टः स्याद्यः प्रमाणः परीक्ष्यते // इति / यदि परं शिशपाविकल्पो जातो न वृक्षविकल्पः, स वृक्षशब्दस्मृत्यभावापराधात् शिशपाशब्दसंस्कारप्रबोधजन्मना शिशपाविकल्पेन चाशिशपाव्यावृत्तिपर्यवसितेन नावृक्षग्यावृत्तिरुपनीयते, सर्वविकल्पानां पर्यायत्वप्रसङ्गात्। गम्यगमक'भावश्च व्यावृत्त्यो'रनयोर्न वस्तुनः तस्यान्वयाभावात् / अवृक्षव्यावृत्यशिशपाग्यावृत्ती च परस्परं भिन्ने, व्यावर्त्यमेवात्। अतो यथोक्तदोषानुपपत्तिरिति / अहो पूर्वापरानुसन्धाने परं कौशलं पण्डितानाम् ? [fro] अभव्यावृत्तिः इति भवृक्षम्यावृत्या लोष्टादयो ब्यावर्तनीया: मशिशपाव्यावृत्त्या च धवाक्य इति व्याव~योभवः / ननु यदि 'सपक्षे वृक्षत्वं शिशपात्वं चाभिन्नमुपलब्ध तहि पक्षे कि साध्यं तस्य प्रतीतत्वात् ? मैवम्, यस्तावत्सर्वत्रसपक्षे 'उच्चा: शिशपा दृष्ट्वान् तत उच्चत्वं वृक्षशब्दप्रवृत्तिनिमित्तं जामाति न शिशपात्वं ततो ह्रस्वां 'शिशपां दृष्ट्वा 'वृक्षत्वं न व्यवहरति तं प्रति शिशपात्वाद् वृक्षव्यवहारः 'साध्यते इति सिद्धान्तवाचाह "अहो पूर्वपरेति / [पं०] अयोच्यते इति (कं. 207.26) हे बौद्ध त्वया। धर्मोति (कं. 207.26) योऽयमिति शम्देन व्यपदिश्यते / भावस्येति (कं. 208.3) धर्मिणो वृक्षादेः / गुण इति (कं. 208.3) धर्मः शिशपात्वादिः / भागः कोऽन्यो न दृष्ट: स्यादिति (कं. 208.4) "कल्पनात् तत्तस्यैव धर्ममिभावस्य बौखरभ्युपगमात् / प्रमाणरिति (कं. 208.4) अनुमानः / ___यदि परमिति (कं. 208.5) किन्तु / शिशपाविकल्पो जातो न वनविकल्प इति (कं. 208.5) गृहीतेष्वपि हि धर्मेषु यत्र विकल्पो जातस्तत्र प्रमाणतासद्भावः / शिशपाशग्यसंस्कारप्रबोषजन्मनेति (कं 208.6) विकल्पा हाम्दयोनय इति वचनात् / पर्यायत्वप्रसङ्गादिति (कं. 208.7) यदि हि शिशपाविकल्पेन वृक्षविकल्पोऽपि गृह्यते तदा सर्वविकल्पानां पर्यायत्वं प्रसक्तं यथा घटविकल्पने कूटकुम्भकलशाविधिकल्पाः पर्यायत्वाद गह्यन्ते / अभेदे गम्यगमकभावो न स्यादिति यत्पूर्वमुक्तं तत्परिहरति गम्यगमकेत्यादिना (कं. 208.8) / तस्येति (कं. 208.8) स्वलक्षणस्य / मन्बयामावादिति (कं. 208.8) क्षणिकत्वेन सपक्षेऽन्यथाभावात् / व्यावयमेवादिति (कं. 208.9) अवृक्षाशिंशपा[कु०] पारमार्थिकधर्म्यभेदाव्यावृत्योस्तादात्म्यं, विकल्पगोचरायास्तु भेदाद् गम्यगमकभाव इत्युभयमुपपादयितुमाशङ्कते अथेति (कं. 207.26) / भावस्य धर्मिणो गुणः धर्मः परीक्षते भेदेम गृह्यते। अन्यथा व्यावृत्यपर्यवसाने अम्वयाभावादिति क्षणिकत्वादित्यर्थः / कि पूर्व किमपरमित्यत आह तादात्म्यमिति (कं. 208.11) / इन्द्रजालं पूर्वापरवाक्यसन्दर्भण मोहनम् / वृक्ष"शिशपायास्तादात्म्यादिति (कं. 208.12) व्यावृत्तिद्वयाधारस्य धर्मिणोर्भेदाभावा[८] भेदादित्यर्थः / तदात्म१यदेवं-क. 1; कं. 2 / 2 भावस्तु -जे. जे. 2 / 3 रेव नानयो-कं. 1, कं.२। 4 सपक्षत्वं शिशपात्वं- अ, ब / 5 सपक्षे शिशपा दृष्ट्वान् - अ 6 शंशपा-अ। 7 वृक्षत्वेन-अ, ब, क / 8 त्वंम.। 9 साध्य इति-ह। 10 अहो पूर्वापर-अ। 11 कल्पनाकृतस्यैव-ब। 12 यदेदं-कं.१ / 13 'शिंशपयोस्तादात्म्यम् -कं।