________________ 482 न्यायकन्दलीसंवलितप्रशस्तपावभाष्यम् न्यायकन्दली 'यदि च धवादिसाधारणी वृक्षता न शिशपात्वम्, तदा नानयोरे'कत्वं स्वभावभेवस्य भेवलक्षणत्वात् / अभेदे तु यथा वृक्षत्वं सर्ववृक्षसाधारणं तथा शिशपात्वमपि स्यात् / न च तादात्म्ये गम्यगमकभावे व्यवस्था युक्ता, तस्याभेदाश्रयत्वात् / यदि शिशपात्वे गृह्यमाणे वृक्षत्वमगृहीतम्, क्व तादात्म्यम् ? गृहीतं चेत् ? (तत्) क्वानुमानम् ? [टि०] तस्माद् दृष्टस्य इति:- भावस्य वृक्षादेः पदार्थस्य गुणो धर्म: 'शिंशपात्वादिः कल्पना कृतस्यैव धर्मधर्मीभावस्य बौखरभ्युपगमात् / प्रमाणैरनुमानैरित्यर्थः। 'यदि परम् इति गृहीतेष्वपि 'धर्मेषु यत्र विकल्पो जातस्तत्र प्रमाणतासद्भावाद् अभेदे गम्यगमकभावो न स्यादिति पूर्वमुक्तं तत्परिहरति गम्यगमकभावश्च इति तस्य स्वल [पं०] हेत्वङ्गत्वम् / तदव्यभिचारीति (कं.२०७.१८) साध्याव्यभिचारी ('इति साध्याव्यभिचारी)। न चैवमिति (कं. 207.19) अत्र एवमिति धूमो वह्निना (कं. 207.19) इत्यादिनाऽनन्तरमेव वक्ष्यमाणं वाक्यम् / वस्तुनो निर्भागस्वाविति (कं. 207.20) हे बौद्ध तव मते। बौद्धमाशङ्कते नाप्येतदि (कं. 207.20) त्यादि / तयोरमेवादिति (कं. 207.21) अभेदे च सति उभयोरप्युभयात्मकत्वमेव / वृक्षतेति (कं. 207.22) वृक्षतव / न च तावात्म्ये गमकतावस्था युक्तेति (कं. 207.24) "[सम्बन्धस्य द्विष्ठत्वात्, तादात्म्ये च द्वयोरसम्भवात् / "तस्या इति (कं. 207.24) गम्यगमकभावव्यवस्थायाः / ] वृक्षत्वमगृहीत (कं. 207.25) मित्यस्मात्पुरस्सहीत्यध्याहार्यम् / क्वानुमानमिति (कं. 207.25) अनुमानं, हि वृक्षत्वग्रहणाय प्रवर्तते यथा वृक्षोऽयं शिशपात्वादिति / शिशपारवे गृह्यमाणे च वृक्षत्वे गृहीते क्वानुमानमस्तीत्याशयः / / [कु०] न तदुत्पत्तिस्वभाव इति भावः / सत्यपीति (कं. 207.14) नास्ति सम्भवः शिशपा वृक्षात्मिका वृक्षो न शिशपात्मक इति च, वक्ष्यति तथाऽतश्च वृक्षस्य शिंशपाव्यभिचारे अविनाभावस्तादात्म्यस्वभावोऽपि न भवतीत्यर्थः / ननु नाव्यभिचारमात्रं गम [क]ताङ्गं किन्तु तनिरूपिते तादात्म्यतदुत्पत्ती एवेत्यत. आह कार्यमपि हीति (कं. 207.16) / ते हि न केवलं स्वसिद्धयर्थम[व्य]भिचारमपेक्षते किन्तु साध्यसाधनार्थमपि / ततश्च तेनैव साध्यसिद्धौ सम्भवत्यां तदनुसरणं व्यर्थमित्यर्थः / व्यभिचाराविति (कं. 207.18) सतीत्या? मपि . ताभ्यामनुमानानुदयादित्यर्थः / ___ तदा नानयोरिति (कं. 207.22) साधारण्यासाधारण्याभ्यां भेदे तादात्म्यस्य दूरोत्सारणाच्छिशपावृक्षानुमानमपि न सम्भवतीत्यर्थः / स्वभावभेदस्यति (कं. 207.22) अतादात्म्यस्य व्यावतेकधर्मलक्षणत्वादित्यर्थः / किञ्चेत्याहन चेति (कं. 207.24) / अनुमाने च न तादात्म्यं तादात्म्ये च नानुमानमिति प्रदर्शयन्नुक्तं विवृणोति यदीति (कं. 207.25) / 1 यदि धवादि-कं. 1, कं.२; यदि च धवखादिरादि-जे. 1, जे.२। 2 ऐक्यं-जे. 1, जे.२ 3 शिंशपस्वादि - अ%; शिशपात्वादि -ब। 4 कृकुतस्य - अ, ब / 5 यदेवम् - म्। 6 धम्मिषु - अ, ब / 7 स्वपक्षे-म,ब। 8 पुनरावृत्तं भाति / 9 गम्यगमकाभावे व्यवस्था युक्ता - कं. 1, ब। 10 एतच्चिह्नान्तर्गतो पाठो ब पुस्तके नास्ति। 11 तस्य - कं.१।