SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ न्यायकन्दलीसंवलितप्रशस्तपावभाष्यम् प्रशस्तपादभाष्यम् [15] तच्चेश्वरचोदनाभिव्यक्ताद्धादेव / . न्यायकन्दली [15] ननु यदि तत्त्वज्ञानं निःश्रेयसहेतुस्तहि धर्मो न कारणम् ? 'ततश्च सूत्रविरोधः-- "यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्मः" (वै. सू. 1.1.2) इति, 'अत आह-"तच्चेश्वरचोदनाभिव्यक्ताद्धर्मादेवेति / तन्निःश्रेयसं धर्मादेव भवति, द्रव्यादित'त्त्वज्ञानं तु तस्य कारणत्वेन निःश्रेयससाधनमित्यभिप्रायः / तत्त्वतो 'निर्मातेषु बाह्याध्यात्मिकेषु विषयेषु दोषदर्शनाद्विरक्तस्य समीहानिवृत्तावात्मज्ञस्य तदर्थानि कर्माण्यकुर्वतस्तत्परित्याग.. साधनानि च श्रुतिस्मृत्युदितान्यसङ्कल्पितफलान्यपाददानस्यात्मज्ञानमभ्यस्यतः प्रकृष्ट'विनिवर्तकधर्मोपचये सति परिपक्वात्मज्ञानस्यात्यन्तिक शरीरादिवियोगस्य भावात् / C01 1 असङ्कल्पितेति-स्वर्गादिप्राप्तिफलोद्देशाभावादसङ्कल्पितफलत्वम् / "प्रकृष्टनिर्वतकेति : - शरीरादिनिर्वतको 'धर्मविशेषो जायते इति वैशेषिकसिद्धान्तः / तेन शरीरादीनाम् इति / एतावता ग्रन्थेन विवादा ध्यासितः [पं०] [15-16] 'यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्म:'-इति कणादसूत्रम् / तस्येति = धर्मस्य / "निर्मातेष्विति = मिश्चितेषु / समीहानिवृत्ताविति - चेष्टानिवृत्तौ / तदर्थानीति = विषयार्थानि / तत्परित्यागसाधनानीति तपःप्रभृतीनि / असंकल्पितफलानीति - निदानरहितानि / प्रकृष्ट"निर्वतकधर्मोपचये सतीति - धर्मो हि द्विविधः - प्रवर्तको निवृत (वर्त)कश्च / तत्र प्रवर्तकः संसारहेतुर्दानादि / निवर्तको मोक्षहेतूानतपःप्रभृतिः / प्रकृष्ट चासो निवर्तकधर्मश्च तस्योपचये सति / परिपक्वात्मज्ञानस्येति-परिपक्वात्मज्ञानस्य सतो योगिन इत्यर्थः / [कु०] नन्वभावोऽपि सप्तमः पदार्थः प्रमाणविषय एव तत्र तत्र निरूप्यते / अपवर्ग एवायं तावन्मिथ्याज्ञानादिदुःखान्तानां प्रध्वंसः / द्रव्यादीनामुत्पत्तिविनाशयोश्च प्राक्प्रध्वंसाभावी। वैधर्येषु चेतरेतरात्यन्ताभावौ। तत्कथं तस्यानुद्देश इत्यत आह अभावस्येति (कं. 7.11) / ननु यदि भावपारतन्त्र्यादनुद्देशः, संयोगादीनामप्यनुद्देशः स्यादिति चेत्, न; शिष्याणाम हादिशक्तियुक्तानामत्राधिकार इत्यभावानद्देशेनैव प्रदर्शिते [तम्। संयोगाद्यनुद्देशे कारणाभावान्निरङकुशतया चाचार्यस्य विपर्ययशङ्कानवकाशः / सम्बन्धे षष्ठीति (कं. 7.11) / साधर्म्यवैधापेक्षया सम्बन्धः / अत्रापीति (कं. 7.12) / न केवलं सङ्ग्रहप्रतिज्ञामात्रेण द्रव्यादिष्वा? कारः किन्तु तत्त्वज्ञानस्य निःश्रेयसहेतुत्वेऽपीत्यर्थः / ___ [15] तन्निःश्रेयसं धर्मादेवेति (कं. 7.17) धर्माद्भवत्येवेत्यर्थः / ततश्च धर्मस्यापि कारणत्वाङ्गीकारः / नन्वस्तु साक्षात्कारस्य धर्मेण सह समुच्चयः शास्त्रज्ञानं क्वोपयुज्यते इत्यत आह 'द्रव्यादि [तत्त्व] ज्ञानं "त्विति (कं. 7.17) तस्य साक्षात्कारस्य च धर्मकारणत्वं व्याख्यातम् / साक्षात्कारकरणत्वं व्याचष्टे आत्मज्ञानमभ्यस्यत इति 1 ततः-कं. 1; कं. 2 / 2 तत माह-कं. 1, कं. 2 / 3 तत्त्वज्ञानं तस्य-कं. 1; कं. 2 / 4 ज्ञातेषुकं. 1, कं. 2 / 5 निवर्तक-कं. 1; कं. 2 / 6 शरीरवियोगस्य-कं. 1; कं. 2 / 7 प्रकृष्टविनि-मु. 8 धर्मो-अ, ब, क; ९विवादासितः-अ, ब. 10 ज्ञातेषु-कं. 11 विनिवर्तक-कं. 12 द्रव्यादितत्त्वज्ञानं तस्य-कं. 1 /
SR No.004336
Book TitleNyayakandali
Original Sutra AuthorN/A
AuthorJ S Jetly, Vasant G Parikh
PublisherOriental Research Institute Vadodra
Publication Year1991
Total Pages748
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy