________________ टिप्पणपञ्जिकाकुसुमोदगमादिटीकात्रयोपेतम् न्यायकन्दली द्रव्यस्योद्देशः, सर्वाश्रयत्वेन प्राधान्यात् / गुणानाञ्च कर्मापेक्षया भयस्त्वाद् द्रव्यानन्तरमभिधानम् / नियमेन गुणानुविधायित्वात् कर्मणां गुणानन्तरमुद्देशः / कान्वितत्वात् सामान्यस्य कर्मानन्तरमभिधानम् / पञ्चपदार्थवृत्तेः समवायस्य सर्वशेषेणाभिधाने 'प्राप्तेऽर्थाद् विशेषाणां मध्ये कथनमिति / अभावस्य पृथगनुपदेशो भावपारतन्त्र्यात्, न त्वभावात् / द्रव्याणामिति सम्बन्धे षष्ठी / अत्रापि साधादिज्ञानस्य निःश्रेयसहेतुत्वे कथिते द्रव्यादि'ज्ञानस्यापि कथितम्, साधर्म्यवैधर्म्ययोः स्वातन्त्र्येण ज्ञानाभावात् / [टि.] ननु किमिदं भाव पारतन्त्र्यम् ? किं भावाश्रितत्वम् ? उत भावजन्यत्वम् ? अथ भावनिरूपणाधीननिरूपणीयत्वम् ? आहोस्वित् भाव प्रतिद्वन्द्वित्वम् ? तत्र नाद्यत्रितयम् / कर्मसंयोगादेरपि पृथगनुपदेशप्रसङ्गात् / चरमे भावमात्र प्रतिद्वन्द्वित्वं वा? भावविशेषप्रतिद्वन्द्वि त्वं वा ? नाद्योऽभावे तदभावात् / 'नोकत्राभावे समुत्पन्ने ["सर्वभावानामभावोत्पत्तिः / नापरः संयोगविभागादेरपि पृथगनुपदेशप्रसङ्गात, उत्तरसंयोगस्य कर्मनाशकत्वात, विभागस्य च "संयोगनाशकत्वात् / उच्यते, भावपारतन्त्र्यं प्रतियोगिनिरूपणाधीननिरूपणीयत्वम, प्रतियोगी च विरोधी। .. [पं०] उद्देशस्य विभागवचनेन समानविषयत्वादिति - नामधेयमात्रसंकीर्तनमुद्देशस्तस्योद्देशस्य विशेषसंज्ञानिर्देशलक्षणेन विभागेन सह तुल्यगोचरत्वात् / य एव उद्दिष्टास्त एव विभज्यन्त इति भावार्थः / नियमेन गुणानुविधायित्वादितिगुणपूर्वकमेव कर्म भवतीति नियमः / को भाव:? यत्रैव गुणास्तत्रैव कर्म नान्यत्र / न तु यत्र गुणास्तत्र कर्म भवत्येव / व्योम्नि तु गुणेऽपि कर्माभावादिति द्रष्टव्यम् / द्रव्यगुणकर्माश्रितत्वात् सामान्यस्येति / अत्र कर्माश्रितत्वादिति पाठान्तरं दश्यते / तत्र कर्मण्यप्याश्रितत्वादिति विग्रहः / विशेषाणां मध्ये कयनमिति-मध्ये विशेषाणां कथनमिति योगः / मध्ये इति कोऽर्थः ? सामान्यसमवाययोरन्तरे इत्यर्थः / . ननु चतुर्विधो ह्यभावः, स कथं न पदार्थों येन पृथक् नोच्यते-इत्याशंक्याह अमावस्येत्यादि भावपारतन्त्र्यादिति प्रतियोगिनिरूपणाधीननिरूपणीयत्वं भावपारतन्त्र्यम् / प्रतियोगी घटादिः / अत्रापीति-न केवलं पदार्थधर्मसंग्रह इहेत्यत्र पदार्थधर्मप्रतिज्ञानादेव पदार्थानामपि संग्रहो लभ्यते / स्वातंत्र्येण धर्माणां संग्रहाभावादित्यपेरर्थः / [कु०] प्रप्पा[धा] नज्ञानमप्रधानज्ञानस्य हेतुरित्यर्थः / भूतस्त्या[भूयस्त्वा]दिति (कं. 7.7) / प्रथममक्लिष्टबुद्धभूयो ज्ञानसामर्थ्यं भवति / अल्पं तु क्लिष्टबुद्धिरपि ज्ञातुं शक्नोतीत्यर्थः / गुणानुविधायित्वादिति (कं. 7.8) कारणज्ञानानन्तरं कार्यज्ञानं सुकरमित्यर्थः / कान्वितत्वादिति (कं. 7.9) उपलक्षणमेतत् / [त] त्वं द्रव्यादि [त]त्र द्रव्यादित्रयं ष्यि श्रि? तच्चापि [तत्रापि] त्रिभ्योपकर्ष इत्यर्थः / पञ्चपदार्थवृत्तेरिति (कं. 7.9) वृत्तिमनुरूपणेन वृत्ते रूपणीयत्त्वादिति भावः / 1 प्राप्ते विशेषाणा-कं. 1; कं. 2 / 2 कथनम्-कं. 1; कं. 2 / 3 ज्ञानस्य-कं. 1; कं. 2 / 4 भावत्वम्अ. 5 प्रीति-अ; 6 गमु-अ, ब, 7 प्रजि-अ; 8 द्वित्वं-ब पुस्तकस्यावकाशे दत्तः पाठः / 9 नोकत्वाभावे -अ, ब, क; 10 [ ] एतच्चिह्नान्तर्गतः पाठः अ-पुस्तके नास्ति / सर्वभावोत्पत्ति:-ब; 11 संशयोग-अ, ब. * 12 पारतन्त्राम्-अ, ब.