________________ न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली कारणं द्रव्यादिस्वरूपज्ञानम् / एतेन तत्प्रत्युक्तं यदुक्तं मण्डनेन-“विशेषगुणनिवृत्तिलक्षणा मुक्तिरुच्छेदपक्षान्न भिद्यते" इति / विशेषगुणोच्छेद्रे हि सत्यात्मनः स्वरूपेणावस्थानं नोच्छेदः, नित्यत्वात् / न चायमपुरुषार्थः, समस्तदुःखोपरमस्य परमपुरुषार्थत्वात् / समस्तसुखाभावाद'पुरुषार्थत्वमप्यस्तीति चेत् ? न, सुखस्यापि क्षयितया बहुलप्रत्यनीकतया च साधनप्रार्थनाशतपरिक्लिष्टतया च सर्वदा दुःखाक्रान्तस्य 'विषसम्पृक्तस्येव मधुनो दुःख पक्षे निक्षेपात् / केषां साधर्म्यवैधयं तत्त्वपरीज्ञानमपवर्गकारणमित्यपेक्षायां द्रव्यादीनामिति सम्बन्धः। . [14] द्रव्याणि च, गुणाश्च, कर्माणि च, सामान्ये च, विशेषाश्च, समवायश्चेति विभागवचनानुसारेण विग्रहः, उद्देशस्य विभागवचनेन समानविषयत्वात् / आदौ [टि०] [14] उद्देशस्य विभागेति - 'नामधेयमात्रसङ्कीर्तनमुद्देशः विशेषसज्ञानिर्देशो विभाग इति / तत्रान्तराभिप्रायेणात्र विभागवचनत्वम् स्वयं विभागस्यामननात् / नियमेन गुणानुविधायित्वाद् इति :- यत्र गुणास्तत्रैव कर्म नान्यत्रेत्यनुविधानार्थः; न तु यत्र गुणास्तत्र कर्म भवत्येवेति, व्योम्नि सगुणेऽपि कर्माभायात् / कर्माश्रितत्वादिति कर्मण्याश्रितत्वादित्यर्थः / पञ्च पदार्थेति - पञ्चानां पदार्थानां वृत्तिः सम्बन्ध इत्यर्थः / न तु पञ्चसु पदार्थेषु वृत्तिसम्बन्धो यस्येति, तस्य सम्बन्धान्तराभावात् / [पं०] शिष्या :- उम्बेकः सा (का)रिकां वेत्ति, तंत्रं वेत्ति प्रभाकरः / मंडनस्तुभयं वेत्ति न किञ्चिदपि रेवण:(?) // 1 // उच्छेवपक्षादिति बौद्धोऽथ कल्पितात्संतानोच्छेदलक्षणात / विशेषगुणोच्छेदे इति-बुद्धिसुखदुःखेच्छाधर्माधर्मप्रयत्नसंस्कारद्वेषलक्षणानां नवानामत्यन्तं क्षये सन्तीत्यर्थः / नित्यत्वादिति- आत्मनोऽविनाशिस्वात् / अयमिति-विशेषगुणोच्छेदः / “साधनप्रार्थनाया: सपरिक्लिष्टतया चेति - सुखदुःखसाधनानि स्रक्चन्दनवनिताकूल्यादीनि / / [14] द्रव्याणि चेति नव / गुणाश्चेति - चतुर्विंशतिः / कर्माणि चेति-पञ्च ।सामाग्ये चेति-द्वे / विशेषाश्चेति-- अनन्ताः / समवायश्चेति-एकः। [कुo] तत्त्वशब्दस्य तद्धितान्तत्वे धर्मस्वरूपपरित्यागप्रसङ्गाद् रूढिमाश्रित्य व्याचष्टे यस्येति (कं. 6.16) / स्वरूपं प्रमाणोपपन्न मिति शेषः / षष्ठी तु शिलापुत्रकस्य शरीरमितिवदुपचारमाश्रित्य द्रष्टव्या। ततश्च यद्वस्तु प्रमाणेन निश्चीयते तत्तत्त्वमित्यर्थः / 'साधम्र्येण वैधये एव तत्त्वमिति (कं. 6.17) साधर्म्यवैधर्म्ययोः स्वातन्त्र्येणानभिधानाद्रव्यादयोऽपि तत्त्वमित्यनुसन्धेयम् / एतेन स्वोक्तव्याख्यानेन को भेद इत्यत आह "गुणोच्छेदमिति (कं. 6.24) / अपवृक्तस्य तत्सुखवेदनयोः प्रमाणाभावादित्यर्थः / [14] विभागानुसारेण विग्रहहेतुमाह-उद्देशेति (कं. 7.6) / नामधेयेन पदार्थाभिधानमात्रमुद्देशः / उद्दि-- ष्टस्यावान्तरविशेषोद्देशो विभागः / ततश्चोभयोरेकविषयत्वमित्यर्थः / आदौ द्रव्यसो [स्यो] द्देश इति (कं. 7.7) 1 पुरुषार्थत्वमिति-कं. 1, कं. 2 / 2 विषमिश्रस्येव-क. 1, कं. 2 / 3 पक्ष-जे. 1; जे. 3 / 4 तत्त्वपरिज्ञान -कं. 1; कं. 2 / 5 सामान्यं च-कं. 1; कं.२। 6 नामधेपसङ्कीर्तनमात्र-अ%; 7 विभागस्यो-अ%B 8 साधनप्रार्थनाशत°-कं. 9 साधर्म्यवैधयें एव तत्त्वम-कं. 1 / 10 विशेषगुणोच्छेदे-कं. १-इदं प्रतीकं तु नास्ति /