________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् [13] प्रशस्तपादभाष्यम् द्रव्यगणकर्मसामान्यविशेषसमवायानां षण्णां पदार्थानां साधर्म्य वैधर्म्यतत्त्वज्ञानं निःश्रेयसहेतुः। न्यायकन्दली [13] प्रकृतमनुसरामः / अत्र पदार्थ'धर्मप्रतिज्ञानादेव पदार्थानामपि सङग्रहो लभ्यते, स्वातन्त्र्येण धर्माणां सङग्रहाभावात् / ___ननु पदार्थधर्माणां सङग्रहपरो ग्रन्थो महोदयहेतुरिति नोपपद्यते, 'शब्दस्यार्थप्रतिपादनमन्तरेण कार्यान्तराभावादित्याशङ्कय पदार्थधर्मप्रतीतिहेतोः सङग्रहस्य पारम्पर्येण महोदयहेतुत्वं प्रतिपादयन्नाह - 'द्रव्यगुणेत्यादि / यस्य वस्तुनो यो 'भावो यत्स्वरूपस्तत्तस्य तत्त्वम् / साधारणो धर्मः साधर्म्यम्, असाधारणो धर्मो वैधर्म्यम् / साधर्म्यवैधर्म्य एव तत्त्वं साधर्म्यवैधर्म्यतत्त्वम्, तस्य ज्ञानं निःश्रेयसहेतुः / विषयसम्भोगजं सुखं तावत् क्षणविनाशि दुःखमहलं स्वर्गादिपदप्राप्यमपि सप्रक्षयं सातिशयञ्च / तथा च कस्यचित् स्वर्गमात्रमपरस्य स्वर्गराज्यम् / अतस्तदपि सततं प्रच्युतिशङ्कया परसमुत्कर्षोपतापाच्च दुःखाक्रान्तं न निश्चितं श्रेयः / आत्यन्तिकी दुःखनिवृत्तिरसह्यसंवेदननिखिलदुःखोपरमरूपत्वा दपुनरावृत्तेश्च निश्चितं श्रेयः / तस्य [टि०] [13] [ पदार्थोद्देशविभागौ ] ननु पदार्थधर्माणामेव सङ्ग्रहः प्रतिज्ञातो न तु पदार्थानामपि इत्याह 'अत्र च पदार्थधर्मेति पदार्थाश्च धर्माश्चेति तु जनितोभयसङ्ग्रहे विग्रहे धर्मशब्दस्याल्पस्वरत्वात् प्राग्निपातः स्यात् / . [पं०] [13] पदार्थानामेवेति- न केवलं धर्मिणामित्यर्थः / स्वातंत्र्येति - पदार्थान्वितेनेत्यर्थः / अर्थप्रतिपावनमंतरेणेति- अर्थप्रतिपादनं वर्जयित्वेत्यर्थः / सप्रक्षयं सातिशयं चेत (ति) यदुक्तं तत्र सातिशयत्वं भावयति / तथा हि कस्यचिश्त्यिादिना। आत्यंतिकानित्यादिवाक्ये आत्यन्तिकी तु दुःखनिवृत्तिः निश्चितं श्रेय इति पदवटना / असहा संवेदननिखिलःखोपरमत्वादिति-असह्यसंवेदनं च तनिखिलदुःखं च तन्निवृत्तिरूपत्वात् / मेग्नेनेति शंकराचार्यस्य चत्वारः [कु०] [13] यदि पदार्थानां धर्माः सङ्गृह्यन्ते इति ज्ञान[नं] तर्हि पृथिव्यादयो न च[व] रूपादयश्चतुर्विंशतिरित्यप्रस्तुतमापद्यते तत आह अत्र पदार्थेति (कं. 6.9) / 1 षण्णां'-कि. ता. पुस्तकयो स्ति। 2 वैधाभ्यां-कि. दे; साधर्म्यतत्त्वज्ञानं-ता। 3 धर्मज्ञानादेवकं. 1; कं. 2 / 4 शब्दाना -कं. 1, कं. 2 / 5 द्रव्यगुणेति-जे. 1; जे. 3 / 6 भावस्तत्तस्य-कं. 1; 2 / 7 क्षणिक-कं. 1; कं. 2 / 8 °दपरावृत्तेश्च-कं. 1; कं. 2 / 9 अत्र पदार्थधर्म मु.