________________ न्यायकन्दलीसंवलितप्रशस्तपादमाध्यम न्यायकन्दली इति निश्चयो नास्ति, इदम्प्रथमताया अभावात्। 'किञ्च वाक्यप्रयोक्तुरन्विते व्युत्पत्तिः श्रोतुश्चनिन्विते, अन्यव्युत्पत्या चान्यो न शब्दार्थ प्रत्येति, ततश्च मधुकरशब्दस्यानन्वितार्थत्व'मन्वितार्थत्वञ्च पुरुषभेदेनेत्यर्द्धवैशसमापतितम्। क्रियाकाडक्षानिबन्धनः पदार्थानामन्योन्यसम्बन्धो नाख्यातपदर हितेषु सिद्धार्थेषु वेदान्तवाक्येषु भवितुमर्हतीति चेत् ? न तावदत्र सर्वत्र क्रियाया अभावः, यत्र तु नास्ति तत्रापि संसर्गपरतया पदैरभिहितानां पदार्थानामेव योग्यतासग्निधिमतामन्योन्याकाङक्षानिबन्धनः सम्बन्धः / तथा च 'काञ्च्यामिदानी त्रिभुवनतिलको 'राजा' इत्यत्रापि वाक्यर्थो गम्यत एव / अथवा तत्र श्रुतप्रयुज्यमानाऽस्तिभवतिक्रियानिबन्धनो भविष्यतीति यत्किञ्चिदेतत् / / [पं०] प्रसिन्नकमलोदरे मधूनि मधुकरः पिबतोति-न हि पिबन्तं मधुकरं जानीयात्-'इत्युपदेशोऽस्ति किंतु पिबतीत्येव / प्रसिद्धतरपदार्थ इति - प्रसिद्धाः मधुकरेतराः पदार्थाः यस्य पुंसः सः तथा परवाक्यम् / अत्राप्यस्ति पारंपर्येणेत्यादि श्रीधरः / न अनिश्चयादिति - अनिश्चयमेव दर्शयति वाक्यप्रयोक्तुः / कि वृद्धव्यवहारादित्यादि अत्र च कार्यान्विते इति सप्तमी पञ्चम्यन्विते / कि वृद्धव्यवहारात्कार्यान्वितेऽर्थे व्युत्पत्तिरभूदिति-वृद्धव्यवहारः साक्षादुक्तः परस्पर गहीतसंकेतो बृद्धौ / 1 / किमुत प्रसिद्धपदसामानाधिकरण्येनेति [इति] मध्यमव्यवहारः सूचितः / यः किञ्चिज्जनः जानाति सः मध्यमः / 2 / उपदेशाद्वा स्वरूपेऽर्थे इति - इति बाल्यव्यवहारः सूचितः / यः सर्वथा किञ्चिन्न जानाति सः बालः / 3 / -इति बाक्यार्थाः / परः प्राह क्रियाकांक्षेत्यादि / श्रीधरः न ताववित्यादि / तत्रेति-आख्यातरहिते वाक्ये / अश्रुतप्रयुज्यमानाऽस्ति . भवति क्रियाकांक्षानिबन्धनः / सम्बन्ध इति- यत्रान्यक्रियापदं न श्रूयते तत्रास्ति वर्तमाना परः प्रयुज्यत इति हि वैयाकरणः / अश्रुतं-कोऽर्थः / अश्रुत-क्रियापदं यद्वाक्यं तत्र प्रयुज्यमानेऽस्ति भवति नाम्न्यौपक्रिये तदाकांक्षानिबन्धस्तदपेक्षाहेतुः क इति वाक्यार्थः / [कु.] वाक्यप्रयोक्तुरिति (कं. 5.24) / परिहरति नानिश्चयादिति (कं. 5.25) / सामानाधिकरण्येन समभिव्याहारेण प्रयोक्तवाक्येनैव सन्देहो निवर्त्यते इत्यत आह इदं प्रथमताया ममावापिति (कं. 5.27) / तद्वाक्यसन्देहनिवृत्तिमङ्गीकृत्यापि दूषणमाह किञ्चेति (कं. 6.1) / स्वरूपव्युत्पत्त्यङ्गीकारेऽपि क्रियापदरहितानामुपनिषदाम्वयानुपपत्तिमाशङ्कय परिहरति क्रियेति (कं. 6.3) / 1 किञ्च प्रयोक्तु -कं. 1; कं. 2 / 2. व्युत्पत्त्याऽन्यो-कं. 1; कं. 2 / 3 अनन्वितार्थत्वं च-जे.१; जे. 3 / 4 रहितेषु बेदान्तवाक्येषु-कं. 1; कं. 2 / 5 तावत्सर्वत्र-कं. 1; क. 2; जे. 3 / 6 तत्रोप-कं. 1; कं. 2 / 7 नृपतिः -जे. 1; जे. 3 /