________________ टिप्पणपञ्जिकाकुसुमोद्गमाविटीकात्रयोपेतम् न्यायकन्दली. प्रवृत्तस्यार्थक्रियाऽपि प्रमेया स्यात् / जनकत्वेन 'प्रवृत्तिनिवृत्तिपरत्वं वेदान्तानामपि विद्यते, तेभ्यः स्वरूपप्रतीतो ध्यानाभ्यासाविप्रवृत्तस्य विगतविविधविकल्पविशदात्मज्ञानोदये सत्यपवर्गस्य भावात् / न चेदमावश्यकं यत्प्रवृत्तिनिवृत्त्यवधिकः प्रमाणव्यापार इति, तयोः पुरुषेच्छाप्रतिबद्धयोरनुत्पादेऽपि वस्तुपरिच्छेदमात्रेणापेक्षाबुद्धः पर्यवसानात्। न च कार्यान्वित एवार्थे पदानां शक्तिः, अनन्वितेऽपि व्युत्पत्तिदर्शनात् / यथेह प्रभिन्नकमलोदरे मधूनि मधुकरः पिबतीति वर्तमानोपदेशे प्रसिद्धतरपदार्थोऽप्रसिद्धमधुकरपदार्थस्तु यं मधुपानकर्तारं पश्यति तं 'मधुकरशब्दवाच्यत्वेन प्रत्येति / अत्राप्यस्ति पारम्पर्येण कार्यान्वयो वाक्यप्रयोक्तुः, पूर्वं वृद्धव्यवहारात् कार्यान्वित एवार्थे मधुकरपदस्य व्युत्पत्तिभावादिति चेत् ? न, अनिश्चयात् / वाक्यप्रयोक्तुः किं वृद्धव्यवहारात् कार्यान्वितेऽर्थे व्युत्पत्तिरभूत ? किमुत प्रसिद्धपदसामानाधिकरण्येनोपदेशाद्वा स्वरूपेऽर्थ [पं०] 'हं हो धावत डिभका नद्यास्तीरे गुडशकटं पर्यस्तमस्ति, प्रत्यासन्नं तिलशकटं च'- तच्छ त्वा प्रवर्तमानास्ते विप्रसंभभाजो जायन्ते / स्वकारणशुद्धेरिति-आकाशदेशधर्माद्यनुग्रहका च कामलादिदोषरहितचक्षुरादिसामग्रीशुद्धेः / एषा विगिति- एतद्दिग्मात्रमित्यर्थः / अद्वयसिद्धाविति - अद्वयसिद्धघाख्ये ग्रन्थे। प्राभाकरा वदन्ति नन्वित्यादि। कायेंऽयं इति - साध्येऽर्थे / न स्वरूपे इति - न सिद्धेऽर्थे प्रामाण्यमित्यर्थः / वृद्धव्यवहारेविति - परस्परं गृहीतसंकेतो वृशो उच्य (च्ये)ते / तयोर्व्यवहारेषु / 'न वेदान्तानां भूतार्थपरतेति - किन्तु तेषामपि शम्दत्वात्साध्यर्थपरतवेत्यर्थः / परवाक्यमत्रापोत्यादि। तत्रेति-प्रवर्तनेन निवर्तनेन च। वस्तुसामर्थ्य माविनीति - सप्तम्येकवचनान्तमेतत्पदम् / शास्त्रमिति = शिक्षावचनम् / अमिधानेनेति = अभिप्रायेण / तादार्थ्यमिति = प्रवृत्तिनिवृत्त्यर्थत्वम् / तस्येति = वाक्यस्य / भूतार्थविषय एवेति = स्वरूपार्थविषयमेव / 'प्रमाणानामिति = प्रत्यक्षादिनाम् / तयोरिति प्रवृत्तिनिवृत्योः / शब्दार्थतेति-शब्दस्यार्थी शब्दार्थो, तयोर्भावः शब्दार्थता। शब्दार्थतेत्यस्मात्पुरस्तादेत्यध्याहार्यम् / वाक्यार्थो स्यातामितिअप्रतीयमानत्वाद्विशेषाद्वाक्यार्थी प्राप्नुयातामित्यर्थः / काश्चिवर्षक्रियामिति = नानपानादिकाम् / उपलिप्सिते इति = उपलब्धमिष्टे / विषय इति = जलादौ। 'अर्थक्रियापीति न केवलं जलादिरित्यपेरथः। यथाऽभिसंहितायारपि प्रवृत्तिनिवृत्याः शब्दार्थता, एवं प्रत्यक्षेऽप्यभिसंहितायाः स्नानपानाद्यर्थक्रियाया अपि प्रत्यक्षार्थता स्यात् / प्रत्यक्षस्यार्थो विषयः प्रमेयमित्यर्थः / तयोरिति = प्रवृत्तिनिवृत्त्योः। अनन्वितेपीति-कार्योपदेशवतंमाना प्रवृत्तिरान्दान्विते पीत्यर्थः / इह [कु०] कार्यान्वित एव स्वार्थपदानां, तत्कथं स्वरूपपरता वाक्यानां स्यादित्यत आह - न चेति (कं. 5.20) / लिडभोक्तव्यपञ्चमलकारप्रतिपादिता हि क्रिया श्रोतृपुरुषवृत्तिव्याप्या, इह तु तेषामभावन्न ? मधुकरपदार्थः कार्यान्वित इत्यर्थः / चोदयति अत्रेति (कं. 5.24) मधुकरं पश्येत्यध्याहारात्कार्येणान्वयः कुत इत्यत आह 1 स्यार्थक्रिया प्रमेया-कं. 1; कं.२। 2 प्रवृत्तिपरत्वं-कं. 1; कं. 2 / 3 वर्तमानापदेशे-कं. 1; कं.२। 4 मधुकरवाच्यत्वेन-कं. 1; कं. 2 / 5 वेदान्तानां न स्वरूपपरता-कं.। 6 मभिसन्धानेन-कं.। 7-8-9 इमे पाठाः कं-पुस्तके न सन्ति /