________________ न्यायकन्दलीसंवलितप्रशस्तपादमाध्यम् न्यायकन्दली वस्तुसामर्थ्य भाविन्युपदेशापेक्षा, 'अप्राप्ते हि शास्त्रमर्थवद्भबति / अथ प्रवृत्तिनिवृत्योरभि'सन्धानेनास्य वाक्यस्य प्रयोगात् तादर्यमिति चेत्, 'अस्त्येतस्य प्रवृत्तिनिवृत्त्यर्थता, किन्तु जनकत्वान्न तु प्रतिपादकत्वेन / 'प्रतिपादकत्वं तु वाक्यस्य भूतार्थविषयमेव प्रतिपादकत्वेन च प्रमाणानां प्रामाण्यं न जनकत्वेन तस्माद् भूतार्थविषयमेव वाक्यस्य प्रामाण्यम् / यदि तु प्रवृत्तिनिवृत्त्योरभिसन्धानेन वाक्यप्रयोगात् तयोरप्रतीयमानयोरपि 'शब्दार्थता, आम्रभक्षणोत्तरकालीना तृप्तिर्धातुसाम्यञ्च वाक्यार्थौ स्याताम्, प्रत्यक्षस्य च काञ्चिदर्थक्रियामभिसन्धायोपलिप्सिते विषये [टि०] नामपि प्रमाणत्वात् "विध्यर्थताङ्गीकर्तव्येत्यर्थः / किन्तु जनकत्वाद् इति - सुरसत्वप्रतीत्या ह्यप्रेरितस्यापि पुरुषस्य प्रवृत्तेः। 'स्वरूपार्थे व्युत्पत्तौ हेतुद्वयमाह प्रसिद्धवदेत्यादि / इह "प्रभिन्नेत्यादौ प्रसिद्धपदसामा"नाधिकरण्यम् / अयं मधुकर इत्यङ्गुली"निर्देश उपदेशः / [पं०] प्रत्यक्षेणानकान्तिकत्वादिति - प्रत्यक्षं हि भूतार्थविषयम्, न तु साध्यार्थविषयम्, न च तन्न प्रमाणमित्यर्थः / प्रमायामिति -प्रमाणफले ज्ञाने इति यावत् / श्रीधरः प्राह नेत्यादि / किन्त्वधिगतार्थगन्तृत्वमिति / ज्ञातार्थज्ञातृत्व मेवानुवादकत्त्वमुच्यते / न पुनः सिद्धार्थप्रतिपादकत्वमित्यर्थः / कुतस्तत्सापेक्षत्वमिति कुतः प्रमाणांतस्यापेक्षत्वमित्यर्थः / कुतश्न सापेक्षत्वमिति प्रागंतरं तत्र व्यर्थोऽयमेव / स्मृतेरिव तेभ्यः पूर्वाधिगमसंस्पर्शनार्थप्रतीतेरमावादिति-स्मृतेरिवेति वैधर्म्यदृष्टान्तोऽयं, ततश्चायमर्थः- यथा पूर्व जातप्रत्यक्षज्ञानस्पर्शन स्मृतेः सकाशादर्थप्रतीतिर्भवति तथा वेदवाक्येभ्यो याऽर्थप्रतीतिः सा न पूर्वज्ञानस्य [स्प]र्शन किंतु स्वप्ना (न)ध्यानेन / अत एवाधिगतार्थगन्तृत्वा [त्] स्मृतिरप्रमाणम् / न पुनर्वेदास्तानधिगतार्थगन्तृत्वात् / इति हृदयम् / अत एवेति-प्रमाणान्तरनिरपेक्षत्वादेव / तदपीति-पुरुषवाक्यमपि / अनपेक्षिततचापारमिति - अनपेक्षितवक्तृव्यापारम् / पदार्थपरतेति-पदार्थप्रतिपादकता। आकांक्षायोग्यतासन्निधिमतामिति - बोद्धः संबंधिषु जिज्ञासा माकांक्षा, सम्बन्धाहत्वं योग्यत्वम्, आकांक्षस्यानन्तर्य सन्निधिः / स्वरूपविपर्यास हेतोर्दोषस्येति-शब्दस्वरूपमृषात्वकारणस्य रागद्वेषादेः। रागद्वेषादिग्रस्तो हि यदचक्तिः तन्न सत्यतया परिणमते। यथा कधिच्छठो डिम्भान्विप्लावयति [कु.] विपर्ययेऽतिप्रसङ्गमाह यदि त्विति (कं. 5.14) / शब्दज्ञानकार्यप्रवृत्तिनिवृत्यनुसन्धानेन कार्यपरता वेदान्तानामस्तीत्याह जनकत्वेनेति (कं. 5.17) / शब्दजन्यज्ञानानन्तरं प्रवत्तिनिवृत्ती अङ्गीकृत्येतदुक्तम्-इदानीं वक्तचित्ते न स्त एवेत्याह न चेदमिति (कं. 5.19) / ननु गृहीतं सगतिकस्यैव वाक्यं बोधक, सगतिग्रहश्च 'गामानये'त्यादिवृद्धव्यवहारे 1 अप्राप्ये-जे. 1; जे. 2 / 2 'अथ'-जे. 1; जे. 3 पुस्तकयो स्ति। 3 अभिसंधानेन वाक्य-कं. 1 / 4 अस्ति प्रवृत्ति-कं. 1; कं. 2 / 5 यस्माद् भूतार्थविषय एव प्रामाण्यम्-कं. 1; कं. 2 / 6 शान्दताकं. 1; कं. 2 / 7 विध्यर्थः अ; 8 प्रीत्या. अ, ब, क. 9 स्वरूपार्थ इ. 10 प्रतिभिन्न अ, ब; 11 सामान्याकरण्यम् अ, ब, 12 इयं अ. ब. 13 री अ ब क.