________________ टिप्पणपञ्जिकाकुसुमोदगमाविटीकात्रयोपेतम् न्यायकन्दली रविशेषात् / वक्तृप्रामाण्यानुसरणन्तु स्वरूपविपर्यासहेतो?षस्याभावावगमाय / प्रत्यक्ष इव स्वकारणशुद्धे रनुगमो विपर्यासशङ्कानिरासार्थ इत्येषा दिक् / विस्तरस्त्वद्वयसिद्धौ द्रष्टव्यः। [12] ननु कार्येऽर्थे शब्दस्य प्रामाण्यं न स्वरूपे, वृद्धव्यवहारेष्वन्वयव्यतिरेकाभ्यां कार्यान्वितेषु पदार्थेषु पदानां शक्त्यवगमात् / अतो वेदान्तानां न 'भूतार्थपरतेति चेत्, 'वार्तमिदम्, स्वरूपपरस्यापि वाक्यस्य लोके प्रयोगदर्शनात् / यथा परिणामसुरसमानं परिणतिविरसञ्च पनसमिति / अत्रापि प्रवृत्तिनिवृत्त्योरुपदेशः, एवं हि वाक्यार्थः परिणामसुरसमानं भक्षय, परिणतिविरसंपनसं मा भक्षयेति / न, वैयर्थ्यात् / सुरसत्वप्रतीत्येव स्वयमभिलाषात् पुरुषः प्रवर्तते, विरसत्वप्रतीत्यैव द्वेषाग्निवर्त्तते / का तत्र [टि०] [12] अथ वेदान्तानामपि विध्यर्थतापादनाथ परः प्राह ननु कार्येऽर्थे इति / कमलमानयेत्यादिना हि परमवृद्धोपदेशेन मध्यमवृद्धेषु व्यवहरत्सु कार्यान्वित एवार्थे बाल व्युत्पत्तिदर्शनात्तत्रैव "प्रामाण्यमवगतम / ततो वेदान्ता [पं०] [12] उच्छिद्यते इति - कर्मकर्तरिप्रयोगः / ताकिका इति - व्योमशिवापादाः / उपहासश्चायम् / एवं पुरोऽपि पदे व्योमशिवमत्प्रासयिष्यति / पाथिवपरमाणरूपादिसन्तानेन व्यभिचारादिति - पार्थिवपरमाणरूपादिमन्तानी हि सन्ततित्वे सत्यपि नात्यन्तमच्छिद्यते, नित्यत्वात् / अतः संततित्वादित्थं हेतुरनैकान्तिक इत्यर्थः / अशरंबावेतिअबधारणेऽव्ययमशरीरं सन्तं -आत्मानं प्रियाप्रिये सुखदुःखे नैव स्पृशत इत्यर्थः / इत्यादय इति - आदिशब्दात् न व सशरीरस्य प्रियाप्रिययोरपहरतिरस्तीत्यादिर्यः / वेदाम्ता इति वेदादृशा / वमिति-न्यायकन्दलीका / अत्र मीमांसकाः साध्य एवार्थे सर्वशब्दानां प्रामाण्यमभ्युपगच्छन्तः प्रत्यवतिष्ठन्ते / भूतार्थान मेषामित्यादिइह वाक्यं द्विधा साध्याथं भूतार्थं च। तत्र साध्यार्थं तदुच्यते यतो वाक्यात्कर्तव्यता प्रतीयते. यथा 'अग्नि जुहयात्स्वर्गकाम' इति कर्तव्यतोपदेशपरं ह्येतद्वाक्यम् / एतदेव च प्रमाणं मीमांसकानाम् / यतो वाक्यात् कर्तव्यता न प्रतीयते किन्त्वर्थकथनमात्र प्रतीयते तद्भूतार्थम्, यथा-अशरीरं वावेत्यादि वाक्यम् / एतच्चाप्रमाणं मीमांसकानाम् / अत एवोक्तं तैर्भूतार्थानामेषामप्रामाण्यप्रसंग इति दृ (द्र) ष्टव्यम् / [कु०] [12] भूतार्थांनां वाक्यानामप्रामाण्ये निरस्ते सम्प्रति परो भूतार्थपरतामेव वेदान्तानामसहमानः प्रत्यवतिष्ठते मनु कार्येति (कं. 5.4) / कार्येति कार्यान्वित एव शक्त्यवगमादिति / हेतुरसिद्ध इत्याशयवान् परिहरति 'वातमिति ( कं. 5.6) / शब्दज्ञानकार्येप्यभिसन्धानाच्छन्दम्यापारमाशङ्कते प्रवृत्तिनिवृत्त्योरिति ( कं. 5.8) / 1 विपर्यय-जे. 1; जे. 3 / 2 न्वितेषु पदानां-कं. 1; कं. 2 / कं. 17 कं. 2 / 5 'पनसं'-इति कं. 1, कं. 2 पुस्तकयो स्ति। अब; 8 वान्त-कं. 1 / 3 स्वरूप-कं. 1; कं. 2 / 4 वान्त६ बालक-अ. 7 प्रामाण्यमवगतमतो